Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 4: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्त्तिकेयान्वेषणनन्दिसंवादवर्णनं

Containing 70 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 4: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्त्तिकेयान्वेषणनन्दिसंवादवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 4: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्त्तिकेयान्वेषणनन्दिसंवादवर्णनं, Verse 1

द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे २.४.४. चतुर्थोऽध्यायः ।

कार्तिकेयान्वेषणनन्दिसंवादवर्णनम् ।

नारद उवाच ।

देवदेव प्रजानाथ ततः किमभवद्विधे ।

वदेदानीं कृपातस्तु शिवलीलासमन्वितम् ॥ १॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 4: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्त्तिकेयान्वेषणनन्दिसंवादवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 4: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्त्तिकेयान्वेषणनन्दिसंवादवर्णनं, Verse 2

ब्रह्मोवाच ।

कृत्तिकाभिर्गृहीते वै तस्मिन् शम्भुसुते मुने ।

कश्चित्कालो व्यतीयाय बुबुधे न हिमाद्रिजा ॥ २॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 4: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्त्तिकेयान्वेषणनन्दिसंवादवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 4: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्त्तिकेयान्वेषणनन्दिसंवादवर्णनं, Verse 3

तस्मिन्नवसरे दुर्गा स्मेराननसरोरुहा ।

उवाच स्वामिनं शम्भुं देवदेवेश्वरं प्रभुम् ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 4: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्त्तिकेयान्वेषणनन्दिसंवादवर्णनं, Verse 4

पार्वत्युवाच ।

देवदेव महादेव श‍ृणु मे वचनं शुभम् ।

पूर्वपुण्यातिभारेण त्वं मया प्राप्त ईश्वरः ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 4: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्त्तिकेयान्वेषणनन्दिसंवादवर्णनं, Verse 5

कृपया योगिषु श्रेष्ठो विहारैस्तत्परोऽभवः ।

रतिभङ्गः कृतो देवैस्तत्र मे भवता भव ॥ ५॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 4: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्त्तिकेयान्वेषणनन्दिसंवादवर्णनं, Verse 6

भूमौ निपतितं वीर्यं नोदरे मम ते विभो ।

कुत्र यातं च तद्देव केन देवेन निह्नुतम् ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 4: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्त्तिकेयान्वेषणनन्दिसंवादवर्णनं, Verse 7

कथं मत्स्वामिनो वीर्यममोघं ते महेश्वर ।

मोघं यातं च किं किं वा शिशुर्जातश्च कुत्रचित् ॥ ७॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 4: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्त्तिकेयान्वेषणनन्दिसंवादवर्णनं, Verse 8

ब्रह्मोवाच ।

पार्वतीवचनं श्रुत्वा प्रहस्य जगदीश्वरः ।

उवाच देवानाहूय मुनींश्चापि मुनीश्वर ॥ ८॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 4: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्त्तिकेयान्वेषणनन्दिसंवादवर्णनं, Verse 9

महेश्वर उवाच ।

देवाः श‍ृणुत मद्वाक्यं पार्वतीवचनं श्रुतम् ।

अमोघं कुत्र मे वीर्यं यातं केन च निह्नुतम् ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 4: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्त्तिकेयान्वेषणनन्दिसंवादवर्णनं, Verse 10

सभयं नाप तत्क्षिप्रं स चेद्दण्डं न चार्हति ।

शक्तौ राजा न शास्ता यः प्रजाबाध्यश्च भक्षकः ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 4: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्त्तिकेयान्वेषणनन्दिसंवादवर्णनं, Verse 11

ब्रह्मोवाच शम्भोस्तद्वचनं श्रुत्वा समालोच्य परस्परम् ।

ऊचुःसर्वे क्रमेणैव त्रस्तास्तु पुरतः प्रभोः ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 4: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्त्तिकेयान्वेषणनन्दिसंवादवर्णनं, Verse 12

विष्णुरुवाच ।

ते मिथ्यावादिनःसन्तु भारते गुरुदारिकाः ।

गुरुनिन्दारताः शश्वत्त्वद्वीर्यं यैश्च निह्नुतम् ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 4: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्त्तिकेयान्वेषणनन्दिसंवादवर्णनं, Verse 13

ब्रह्मोवाच ।

त्वद्वीर्यं निह्नुतं येन पुण्यक्षेत्रे च भारते ।

स नाऽन्वितो भवेत्तत्र सेवने पूजने तव ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 4: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्त्तिकेयान्वेषणनन्दिसंवादवर्णनं, Verse 14

लोकपाला ऊचुः ।

त्वदवीर्यं निह्नुतं येन पापिना पतितभ्रमात् ।

भाजनं तस्य सोत्यन्तं तत्तापं कर्म सन्ततम् ॥ १४॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 4: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्त्तिकेयान्वेषणनन्दिसंवादवर्णनं, Verse 15

देवा ऊचुः ।

कृत्वा प्रतिज्ञां यो मूढो नाऽऽपादयति पूर्णताम् ।

भाजनं तस्य पापस्य त्वद्वीर्यं येन निह्नुतम् ॥ १५॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 4: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्त्तिकेयान्वेषणनन्दिसंवादवर्णनं, Verse 16

देवपत्न्य ऊचुः ।

या निन्दति स्वभर्तारं परं गच्छति पूरुषम् ।

मातृबन्धुविहीना च त्वद्वीर्यं निह्नुतं यया ॥ १६॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 4: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्त्तिकेयान्वेषणनन्दिसंवादवर्णनं, Verse 17

ब्रह्मोवाच ।

देवानां वचनं श्रुत्वा देवदेवेश्वरो हरः ।

कर्मणां साक्षिणश्चाह धर्मादीन्सभयं वचः ॥ १७॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 4: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्त्तिकेयान्वेषणनन्दिसंवादवर्णनं, Verse 18

श्रीशिव उवाच ।

देवैर्न निह्नुतं केन तद्वीर्यं निह्नुतं ध्रुवम् ।

तदमोघं भगवतो महेशस्य मम प्रभोः ॥ १८॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 4: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्त्तिकेयान्वेषणनन्दिसंवादवर्णनं, Verse 19

यूयं च साक्षिणो विश्वे सततं सर्वकर्मणाम् ।

युष्माकं निह्नुतं किं वा किं ज्ञातुं वक्तुमर्हथ ॥ १९॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 4: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्त्तिकेयान्वेषणनन्दिसंवादवर्णनं, Verse 20

ब्रह्मोवाच ।

ईश्वरस्य वचः श्रुत्वा सभायां कम्पिताश्च ते ।

परस्परं समालोक्य क्रमेणोचुः पुरः प्रभोः ॥ २०॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 4: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्त्तिकेयान्वेषणनन्दिसंवादवर्णनं, Verse 21

ब्रह्मोवाच ।

रते तु तिष्ठतो वीर्यं पपात वसुधातले ।

मया ज्ञातममोघं तच्छङ्करस्य प्रकोपतः ॥ २१॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 4: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्त्तिकेयान्वेषणनन्दिसंवादवर्णनं, Verse 22

क्षितिरुवाच वीर्यं सोढुमशक्ताहं तद्वह्नौ न्यक्षिपं पुरा ।

अतोऽत्र दुर्वहं ब्रह्मन्नबलां क्षन्तुमर्हसि ॥ २२॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 4: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्त्तिकेयान्वेषणनन्दिसंवादवर्णनं, Verse 23

वह्निरुवाच वीर्यं सोढुमशक्तोऽहं तव शङ्कर पर्वते ।

कैलासे न्यक्षिपं सद्यः कपोतात्मा सुदुस्सहम् ॥ २३॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 4: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्त्तिकेयान्वेषणनन्दिसंवादवर्णनं, Verse 24

गिरिरुवाच वीर्यं सोढुमशक्तोऽहं तव शङ्कर लोकप ।

गङ्गायां प्राक्षिपं सद्यो दुस्सहं परमेश्वर ॥ २४॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 4: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्त्तिकेयान्वेषणनन्दिसंवादवर्णनं, Verse 25

गङ्गोवाच वीर्यं सोढुमशक्ताहं तव शङ्कर लोकप ।

व्याकुलाऽति प्रभो नाथ न्यक्षिपं शरकानने ॥ २५॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 4: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्त्तिकेयान्वेषणनन्दिसंवादवर्णनं, Verse 26

वायुरुवाच शरेषु पतितं वीर्यं सद्यो बालो बभूव ह ।

अतीव सुन्दरः शम्भो स्वर्नद्याः पावने तटे ॥ २६॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 4: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्त्तिकेयान्वेषणनन्दिसंवादवर्णनं, Verse 27

सूर्य उवाच रुदन्तं बालकं दृष्ट्वागममस्ताचलं प्रभो ।

प्रेरितः कालचक्रेण निशायां स्थातुमक्षमः ॥ २७॥