Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 3: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्तिकेयलीलावर्णनं

Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 3: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्तिकेयलीलावर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 3: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्तिकेयलीलावर्णनं, Verse 1

द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे २.४.३. तृतीयोऽध्यायः ।

कार्तिकेयलीलावर्णनम् ।

नारद उवाच ।

देवदेव प्रजानाथ ब्रह्मन् सृष्टिकर प्रभो ।

ततः किमभवत्तत्र तद्वदाऽद्य कृपां कुरु ॥ १॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 3: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्तिकेयलीलावर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 3: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्तिकेयलीलावर्णनं, Verse 2

ब्रह्मोवाच ।

तस्मिन्नवसरे तात विश्वामित्रः प्रतापवान् ।

प्रेरितो विधिना तत्रागच्छत्प्रीतो यदृच्छया ॥ २॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 3: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्तिकेयलीलावर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 3: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्तिकेयलीलावर्णनं, Verse 3

स दृष्ट्वालौकिकं धाम तत्सुतस्य सुतेजसः ।

अभवत्पूर्णकामस्तु सुप्रसन्नो ननाम च ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 3: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्तिकेयलीलावर्णनं, Verse 4

अकरोत्सुनुतिं तस्य सुप्रसन्नेन चेतसा ।

विधिप्रेरितवाग्भिश्च विश्वामित्रः प्रभाववित् ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 3: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्तिकेयलीलावर्णनं, Verse 5

ततःसोऽभूत्सुतस्तत्र सुप्रसन्नो महोतिकृत् ।

सुप्रहस्याद्भुतमहो विश्वामित्रमुवाच च ॥ ५॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 3: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्तिकेयलीलावर्णनं, Verse 6

शिवसुत उवाच ।

शिवेच्छया महाज्ञानिन्नकस्मात्त्वमिहागतः ।

संस्कारं कुरु मे तात यथावद्वेदसम्मितम् ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 3: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्तिकेयलीलावर्णनं, Verse 7

अद्यारभ्य पुरोधास्त्वं भव मे प्रीतिमावहन् ।

भविष्यसि सदा पूज्यः सर्वेषां नात्र संशयः ॥ ७॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 3: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्तिकेयलीलावर्णनं, Verse 8

ब्रह्मोवाच ।

इत्याकर्ण्य वचस्तस्य सुप्रसन्नो हि गाधिजः ।

तमुवाचानुदात्तेन स्वरेण च सुविस्मितः ॥ ८॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 3: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्तिकेयलीलावर्णनं, Verse 9

विश्वामित्र उवाच ।

श‍ृणु तात न विप्रोऽहं गाधिक्षत्रियबालकः ।

विश्वामित्रेति विख्यातः क्षत्रियो विप्रसेवकः ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 3: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्तिकेयलीलावर्णनं, Verse 10

इति स्वचरितं ख्यातं मया ते वरबालक ।

कस्त्वं स्वचरितं ब्रूहि विस्मितायाखिलं हि मे ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 3: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्तिकेयलीलावर्णनं, Verse 11

ब्रह्मोवाच ।

इत्याकर्ण्य वचस्तस्य तत्स्ववृत्तं जगाद ह ।

ततश्चोवाच सुप्रीत्या गाधिजं तं महोतिकृत् ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 3: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्तिकेयलीलावर्णनं, Verse 12

शिवसुत उवाच ।

विश्वामित्र वरान्मे त्वं ब्रह्मर्षिर्नात्र संशयः ।

वसिष्ठाद्याश्च नित्यं त्वां प्रशंसिष्यन्ति चादरात् ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 3: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्तिकेयलीलावर्णनं, Verse 13

अतस्त्वमाज्ञया मे हि संस्कारं कर्तुमर्हसि ।

इदं सर्वं सुगोप्यं ते कथनीयं न कुत्रचित् ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 3: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्तिकेयलीलावर्णनं, Verse 14

ब्रह्मोवाच ।

ततोऽकार्षीत्स संस्कारं तस्य प्रीत्याऽखिलं यथा ।

शिवबालस्य देवर्षे वेदोक्तविधिना परम् ॥ १४॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 3: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्तिकेयलीलावर्णनं, Verse 15

शिवबालोपि सुप्रीतो दिव्यज्ञानमदात्परम् ।

विश्वामित्राय मुनये महोतिकारकः प्रभुः ॥ १५॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 3: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्तिकेयलीलावर्णनं, Verse 16

पुरोहितं चकारासौ विश्वामित्रं शुचेस्सुतः ।

तदारभ्य द्विजवरो नानालीलाविशारदः ॥ १६॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 3: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्तिकेयलीलावर्णनं, Verse 17

इत्थं लीला कृता तेन कथिता सा मया मुने ।

तल्लीलामपरां तात श‍ृणु प्रीत्या वदाम्यहम् ॥ १७॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 3: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्तिकेयलीलावर्णनं, Verse 18

तस्मिन्नवसरे तात श्वेतनामा च सम्प्रति ।

तत्राऽपश्यत्सुतं दिव्यं निजं परमपावनम् ॥ १८॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 3: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्तिकेयलीलावर्णनं, Verse 19

ततस्तं पावको गत्वा दृष्ट्वालिङ्ग्य चुचुम्ब च ।

पुत्रेति चोक्त्वा तस्मै स शस्त्रं शक्तिं ददौ च सः ॥ १९॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 3: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्तिकेयलीलावर्णनं, Verse 20

गुहस्तां शक्तिमादाय तच्छृङ्गं चारुरोह ह ।

तं जघान तया शक्त्या श‍ृङ्गो भुवि पपात सः ॥ २०॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 3: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्तिकेयलीलावर्णनं, Verse 21

दशपद्ममिता वीरा राक्षसाः पूर्वमागताः ।

तद्वधार्थं द्रुतं नष्टा बभूवुस्तत्प्रहारतः ॥ २१॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 3: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्तिकेयलीलावर्णनं, Verse 22

हाहाकारो महानासीच्चकम्पे साचला मही ।

त्रैलोक्यं च सुरेशानःसदेवस्तत्र चागमत् ॥ २२॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 3: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्तिकेयलीलावर्णनं, Verse 23

दक्षिणे तस्य पार्श्वे च वज्रेण स जघान च ।

शाखनामा ततो जातः पुमांश्चैको महाबलः ॥ २३॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 3: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्तिकेयलीलावर्णनं, Verse 24

पुनश्शक्रो जघानाशु वामपार्श्वे हि तं तदा ।

वज्रेणाऽन्यः पुमाञ्जातो विशाखाख्योऽपरो बली ॥ २४॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 3: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्तिकेयलीलावर्णनं, Verse 25

ततस्तद्धृदयं शक्रो जघान पविना तदा ।

परोऽभून्नैगमोपाख्यः पुमांस्तद्वन्महाबलः ॥ २५॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 3: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्तिकेयलीलावर्णनं, Verse 26

तदा स्कन्दादिचत्वारो महावीरा महाबलाः ।

इन्द्रं हन्तुं द्रुतं जग्मुः सोऽयं तच्छरणं ययौ ॥ २६॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 3: रुद्रसंहितायां चतुर्थे कुमारखण्डे कार्तिकेयलीलावर्णनं, Verse 27

शक्रः ससामरगणो भयं प्राप्य गृहात्ततः ।

ययौ स्वलोकं चकितो न भेदं ज्ञातवान्मुने ॥ २७॥