Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 2: रुद्रसंहितायां चतुर्थे कुमारखण्डे शिवपुत्रजननवर्णनं

Containing 77 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 2: रुद्रसंहितायां चतुर्थे कुमारखण्डे शिवपुत्रजननवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 2: रुद्रसंहितायां चतुर्थे कुमारखण्डे शिवपुत्रजननवर्णनं, Verse 1

द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे २.४.२. द्वितीयोऽध्यायः ।

शरवणे कार्तिकेयोत्पत्तिवर्णनम् ।

ब्रह्मोवाच ।

तदाकर्ण्य महादेवो योगज्ञानविशारदः ।

त्यक्तकामो न तत्याज सम्भोगं पार्वतीभयात् ॥ १॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 2: रुद्रसंहितायां चतुर्थे कुमारखण्डे शिवपुत्रजननवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 2: रुद्रसंहितायां चतुर्थे कुमारखण्डे शिवपुत्रजननवर्णनं, Verse 2

आजगाम गृहद्वारि सुराणां निकटं शिवः ।

दैत्येन पीडितानां च शङ्करो भक्तवत्सलः ॥ २॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 2: रुद्रसंहितायां चतुर्थे कुमारखण्डे शिवपुत्रजननवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 2: रुद्रसंहितायां चतुर्थे कुमारखण्डे शिवपुत्रजननवर्णनं, Verse 3

देवाःसर्वे प्रभुं दृष्ट्वा हरिणा च मया शिवम् ।

बभूबुः सुखिनश्चाति तदा वै भक्तवत्सलम् ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 2: रुद्रसंहितायां चतुर्थे कुमारखण्डे शिवपुत्रजननवर्णनं, Verse 4

इत्याकर्ण्य वचस्तेषां सुराणां भगवान्भवः ।

प्रत्युवाच विषण्णात्मा दूयमानेन चेतसा ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 2: रुद्रसंहितायां चतुर्थे कुमारखण्डे शिवपुत्रजननवर्णनं, Verse 5

प्रणम्य सुमहाप्रीत्या नतस्कन्धाश्च निर्जराः ।

तुष्टुवुः शङ्करं सर्वे मया च हरिणा मुने ॥ ५॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 2: रुद्रसंहितायां चतुर्थे कुमारखण्डे शिवपुत्रजननवर्णनं, Verse 6

देवा ऊचुः ।

देवदेव महादेव करुणासागर प्रभो ।

अन्तर्यामी हि सर्वेषां सर्वं जानासि शङ्कर ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 2: रुद्रसंहितायां चतुर्थे कुमारखण्डे शिवपुत्रजननवर्णनं, Verse 7

देवकार्यं कुरु विभो रक्ष देवान् महेश्वर ।

जहि दैत्यान् कृपां कृत्वा तारकादीन् महाप्रभो ॥ ७॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 2: रुद्रसंहितायां चतुर्थे कुमारखण्डे शिवपुत्रजननवर्णनं, Verse 8

शिव उवाच ।

हे विष्णो हे विधे देवाः सर्वेषां वो मनोगतिः ।

यद्भावि तद्भवत्येव कोऽपि नो तन्निवारकः ॥ ८॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 2: रुद्रसंहितायां चतुर्थे कुमारखण्डे शिवपुत्रजननवर्णनं, Verse 9

यज्जातं तज्जातमेव प्रस्तुतं श‍ृणुतामराः ।

शिवरेतस्खलितं वीर्यं को ग्रहीष्यति मेऽधुना ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 2: रुद्रसंहितायां चतुर्थे कुमारखण्डे शिवपुत्रजननवर्णनं, Verse 10

स गृह्णीयादिति प्रोच्य पातयामास तद्भुवि ।

अग्निर्भूत्वा कपोतो हि प्रेरितःसर्वनिर्जरैः ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 2: रुद्रसंहितायां चतुर्थे कुमारखण्डे शिवपुत्रजननवर्णनं, Verse 11

अभक्षच्छाम्भवं वीर्यं चञ्च्वा तु निखिलं तदा ।

एतस्मिन्नन्तरे तत्राजगाम गिरिजा मुने ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 2: रुद्रसंहितायां चतुर्थे कुमारखण्डे शिवपुत्रजननवर्णनं, Verse 12

शिवागमविलम्बे च ददर्श सुरपुङ्गवान् ॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 2: रुद्रसंहितायां चतुर्थे कुमारखण्डे शिवपुत्रजननवर्णनं, Verse 12

ज्ञात्वा तद्वृत्तमखिलं महाक्रोधयुता शिवा ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 2: रुद्रसंहितायां चतुर्थे कुमारखण्डे शिवपुत्रजननवर्णनं, Verse 13

उवाच त्रिदशान् सर्वान् हरिप्रभृतिकाँस्तदा ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 2: रुद्रसंहितायां चतुर्थे कुमारखण्डे शिवपुत्रजननवर्णनं, Verse 14

देव्युवाच ।

रे रे सुरगणाःसर्वे यूयं दुष्टा विशेषतः ।

स्वार्थसंसाधका नित्यं तदर्थं परदुःखदाः ॥ १४॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 2: रुद्रसंहितायां चतुर्थे कुमारखण्डे शिवपुत्रजननवर्णनं, Verse 15

स्वार्थहेतोर्महेशानमाराध्य परमं प्रभुम् ।

नष्टं चक्रुर्मद्विहारं वन्ध्याऽभवमहं सुराः ॥ १५॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 2: रुद्रसंहितायां चतुर्थे कुमारखण्डे शिवपुत्रजननवर्णनं, Verse 16

मां विरोध्य सुखं नैव केषाञ्चिदपि निर्जराः ।

तस्माद्दुःखं भवेद्वो हि दुष्टानां त्रिदिवौकसाम् ॥ १६॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 2: रुद्रसंहितायां चतुर्थे कुमारखण्डे शिवपुत्रजननवर्णनं, Verse 17

ब्रह्मोवाच ।

इत्युक्त्वा विष्णुप्रमुखान् सुरान् सर्वान् शशाप सा ।

प्रज्वलन्ती प्रकोपेन शैलराजसुता शिवा ॥ १७॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 2: रुद्रसंहितायां चतुर्थे कुमारखण्डे शिवपुत्रजननवर्णनं, Verse 18

पार्वत्युवाच ।

अद्यप्रभृति देवानां वन्ध्या भार्या भवन्त्विति ।

देवाश्च दुःखिताःसन्तु निखिला मद्विरोधिनः ॥ १८॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 2: रुद्रसंहितायां चतुर्थे कुमारखण्डे शिवपुत्रजननवर्णनं, Verse 19

ब्रह्मोवाच ।

इति शप्त्वाखिलान्देवान् विष्ण्वाद्यान्सकलेश्वरी ।

उवाच पावकं क्रुद्धा भक्षकं शिवरेतसः ॥ १९॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 2: रुद्रसंहितायां चतुर्थे कुमारखण्डे शिवपुत्रजननवर्णनं, Verse 20

पार्वत्युवाच ।

सर्वभक्षी भव शुचे पीडितात्मेति नित्यशः ।

शिवतत्त्वं न जानासि मूर्खोऽसि सुरकार्यकृत् ॥ २०॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 2: रुद्रसंहितायां चतुर्थे कुमारखण्डे शिवपुत्रजननवर्णनं, Verse 21

रे रे शठ महादुष्ट दुष्टानां दुष्टबोधवान् ।

अभक्षः शिववीर्यं यन्नाकार्षीरुचितं हितम् ॥ २१॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 2: रुद्रसंहितायां चतुर्थे कुमारखण्डे शिवपुत्रजननवर्णनं, Verse 22

ब्रह्मोवाच ।

इति शप्त्वा शिवा वह्निं सहेशेन नगात्मजा ।

जगाम स्वालयं शीघ्रमसन्तुष्टा ततो मुने ॥ २२॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 2: रुद्रसंहितायां चतुर्थे कुमारखण्डे शिवपुत्रजननवर्णनं, Verse 23

गत्वा शिवा शिवं सम्यक् बोधयामास यत्नतः ।

अजीजनत्परं पुत्रं गणेशाख्यं मुनीश्वर ॥ २३॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 2: रुद्रसंहितायां चतुर्थे कुमारखण्डे शिवपुत्रजननवर्णनं, Verse 24

तद्वृत्तान्तमशेषं च वर्णयिष्ये मुनेऽग्रतः ।

इदानीं श‍ृणु सुप्रीत्या गुहोत्पत्तिं वदाम्यहम् ॥ २४॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 2: रुद्रसंहितायां चतुर्थे कुमारखण्डे शिवपुत्रजननवर्णनं, Verse 25

पावकार्पितमन्नादि भुञ्जते निर्जराः खलु ।

वेदवाण्येति सर्वे ते सगर्भा अभवन्सुराः ॥ २५॥

Shiva Purana

२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 2: रुद्रसंहितायां चतुर्थे कुमारखण्डे शिवपुत्रजननवर्णनं, Verse 26

ततोऽसहन्तस्तद्वीर्यं पीडिता ह्यभवन् सुराः ।

विष्ण्वाद्या निखिलाश्चाति शिवाज्ञानष्टबुद्धयः ॥ २६॥