२ रुद्रसंहिता - ४ कुमारखण्डः, अध्याय 1: रुद्रसंहितायां चतुर्थे कुमारखण्डे शिवविहारवर्णनं, Verse 1
श्रीशिवमहापुराणम् २४ रुद्रसंहितायां कुमारखण्डः ॥
श्रीगणेशाय नमः ॥
Containing 66 sacred Sanskrit shlokas with multi-author commentaries and translations.
श्रीशिवमहापुराणम् २४ रुद्रसंहितायां कुमारखण्डः ॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां चतुर्थः कुमारखण्डे २.४.१. प्रथमोऽध्यायः ।
तारकार्दितसुराणां शङ्करसन्निधौ दुःखनिवेदनम् ।
वन्दे वन्दनतुष्टमानसमतिप्रेमप्रियं प्रेमदं पूर्णं पूर्णकरं प्रपूर्णनिखिलैश्वर्यैकवासं शिवम् ।
सत्यं सत्यमयं त्रिसत्यविभवं सत्यप्रियं सत्यदं विष्णुब्रह्मनुतं स्वकीयकृपयोपात्ताकृतिं शङ्करम् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
नारद उवाच ।
विवाहयित्वा गिरिजां शङ्करो लोकशङ्करः ।
गत्वा स्वपर्वतं ब्रह्मन् किमकार्षीद्धि तद्वद ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
कथं हि तनयो जज्ञे शिवस्य परमात्मनः ।
यदर्थमात्मारामोऽपि समुवाह शिवां प्रभुः ॥ ३॥
तारकस्य कथं ब्रह्मन् वधोऽभूद्देवशङ्कर ।
एतत्सर्वमशेषेण वद कृत्वा दयां मयि ॥ ४॥
सूत उवाच ।
इत्याकर्ण्य वचस्तस्य नारदस्य प्रजापतिः ।
सुप्रसन्नमनाः स्मृत्वा शङ्करं प्रत्युवाच ह ॥ ५॥
ब्रह्मोवाच ।
चरितं शृणु वक्ष्यामि शशिमौलेस्तु नारद ।
गुहजन्मकथां दिव्यां तारकासुरसद्वधम् ॥ ६॥
श्रूयतां कथयाम्यद्य कथां पापप्रणाशिनीम् ।
यां श्रुत्वा सर्वपापेभ्यो मुच्यते मानवो ध्रुवम् ॥ ७॥
इदमाख्यानमनघं रहस्यं परमाद्भुतम् ।
पापसन्तापहरणं सर्वविघ्नविनाशनम् ॥ ८॥
सर्वमङ्गलदं सारं सर्वश्रुतिमनोहरम् ।
सुखदं मोक्षबीजं च कर्ममूलनिकृन्तनम् ॥ ९॥
कैलासमागत्य शिवां विवाह्य शोभां प्रपेदे नितरां शिवोऽपि ।
विचारयामास च देवकृत्यं पीडां जनस्यापि च देवकृत्ये ॥ १०॥
शिवःस भगवान् साक्षात्कैलासमगमद्यदा ।
सौख्यं च विविधं चक्रुर्गणाः सर्वे सुहर्षिताः ॥ ११॥
महोत्सवो महानासीच्छिवे कैलासमागते ।
देवाः स्वविषयं प्राप्ता हर्षनिर्भरमानसाः ॥ १२॥
अथ शम्भुर्महादेवो गृहीत्वा गिरिजां शिवाम् ।
जगाम निर्जनं स्थानं महादिव्यं मनोहरम् ॥ १३॥
शय्यां रतिकरीं कृत्वा पुष्पचन्दनचर्चिताम् ।
अद्भुतां तत्र परमां भोगवस्त्वन्वितां शुभाम् ॥ १४॥
स रेमे तत्र भगवान् शम्भुर्गिरिजया सह ।
सहस्रवर्षपर्यन्तं देवमानेन मानदः ॥ १५॥
दुर्गाङ्गस्पर्शमात्रेण लीलया मूर्च्छितः शिवः ।
मूर्च्छिता सा शिवस्पर्शाद्बुबुधे न दिवानिशम् ॥ १६॥
हरे भोगप्रवृत्ते तु लोकधर्मप्रवर्तिनि ।
महान् कालो व्यतीयाय तयोः क्षण इवानघ ॥ १७॥
अथ सर्वे सुरास्तात एकत्रीभूय चैकदा ।
मन्त्रयाञ्चक्रुरागत्य मेरौ शक्रपुरोगमाः ॥ १८॥
सुरा ऊचुः ।
विवाहं कृतवाञ्छम्भुरस्मत्कार्यार्थमीश्वरः ।
योगीश्वरो निर्विकारो स्वात्मारामो निरञ्जनः ॥ १९॥
नोत्पन्नस्तनयस्तस्य न जानीमोऽत्र कारणम् ।
विलम्बः क्रियते तेन कथं देवेश्वरेण ह ॥ २०॥
ब्रह्मोवाच ।
एतस्मिन्नन्तरे देवा नारदाद्देवदर्शनात् ।
बुबुधुस्तन्मितं भोगं तयोश्च रममाणयोः ॥ २१॥
चिरं ज्ञात्वा तयोर्भोगं चिन्तामापुः सुराश्च ते ।
ब्रह्माणं मां पुरस्कृत्य ययुर्नारायणान्तिकम् ॥ २२॥
तं नत्वा कथितं सर्वं मया वृत्तान्तमीप्सितम् ।
सन्तस्थिरे सर्वदेवाः चित्रे पुत्तलिका यथा ॥ २३॥
सहस्रवर्षपर्यन्तं देवमानेन शङ्करः ।
रतौ रतश्च निश्चेष्टो योगी विरमते न हि ॥ २४॥
श्रीभगवानुवाच ।
चिन्ता नास्ति जगद्धातः सर्वं भद्रं भविष्यति ।
शरणं व्रज देवेश शङ्करस्य महाप्रभोः ॥ २५॥
महेशशरणापन्ना ये जना मनसा मुदा ।
तेषां प्रजेश भक्तानां न कुतश्चिद्भयं क्वचित् ॥ २६॥
शृङ्गारभङ्गः समये भविता नाधुना विधे ।
कालप्रयुक्तं कार्यं च सिद्धिं प्राप्नोति नान्यथा ॥ २७॥