Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 10: विद्येश्वरसंहितायां शिवक्षेत्रवर्णनं

Containing 45 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 10: विद्येश्वरसंहितायां शिवक्षेत्रवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 10: विद्येश्वरसंहितायां शिवक्षेत्रवर्णनं, Verse 1

विद्येश्वरसंहिता १.१२. द्वादशोऽध्यायः ।

शिवक्षेत्रवर्णनम् ।

सूत उवाच ।

श‍ृणुध्वमृषयः प्राज्ञाः शिवक्षेत्रं विमुक्तिदम् ।

तदागमांस्ततो वक्ष्ये लोकरक्षार्थमेव हि ॥ १॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 10: विद्येश्वरसंहितायां शिवक्षेत्रवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 10: विद्येश्वरसंहितायां शिवक्षेत्रवर्णनं, Verse 2

पञ्चाशत्कोटिविस्तीर्णा सशैलवनकानना ।

शिवाज्ञया हि पृथिवी लोकं धृत्वा च तिष्ठति ॥ २॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 10: विद्येश्वरसंहितायां शिवक्षेत्रवर्णनं, Verse 3

तत्र तत्र शिवक्षेत्रं तत्र तत्र निवासिनाम् ।

मोक्षार्थं कृपया देवः क्षेत्रं कल्पितवान्प्रभुः ॥ ३॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 10: विद्येश्वरसंहितायां शिवक्षेत्रवर्णनं, Verse 4

परिग्रहाद् ॠषीणां च देवानां च परिग्रहात् ।

स्वयम्भूतान्यथान्यानि लोकरक्षार्थमेव हि ॥ ४॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 10: विद्येश्वरसंहितायां शिवक्षेत्रवर्णनं, Verse 5

तीर्थे क्षेत्रे सदा कार्यं स्नानदानजपादिकम् ।

अन्यथा रोगदारिद्र्यमूकत्वाद्याप्नुयान्नरः ॥ ५॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 10: विद्येश्वरसंहितायां शिवक्षेत्रवर्णनं, Verse 6

अथास्मिन्भारते वर्षे प्राप्नोति मरणं नरः ।

स्वयम्भूस्थानवासेन पुनर्मानुष्यमाप्नुयात् ॥ ६॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 10: विद्येश्वरसंहितायां शिवक्षेत्रवर्णनं, Verse 7

क्षेत्रे पापस्य करणं दृढं भवति भूसुराः ।

पुण्यक्षेत्रे निवासे हि पापमण्वपि नाचरेत् ॥ ७॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 10: विद्येश्वरसंहितायां शिवक्षेत्रवर्णनं, Verse 8

येन केनाप्युपायेन पुण्यक्षेत्रे वसेन्नरः ।

सिन्धोः शतनदीतीरे सन्ति क्षेत्राण्यनेकशः ॥ ८॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 10: विद्येश्वरसंहितायां शिवक्षेत्रवर्णनं, Verse 9

सरस्वती नदी पुण्या प्रोक्ता षष्टिमुखा तथा ।

तत्तत्तीरे वसेत्प्राज्ञः क्रमाद् ब्रह्मपदं लभेत् ॥ ९॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 10: विद्येश्वरसंहितायां शिवक्षेत्रवर्णनं, Verse 10

हिमवद्गिरिजा गङ्गा पुण्या शतमुखा नदी ।

तत्तीरे चैव काश्यादिपुण्यक्षेत्राण्यनेकशः ॥ १०॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 10: विद्येश्वरसंहितायां शिवक्षेत्रवर्णनं, Verse 11

तत्र तीरं प्रशस्तं हि मृगे मृगबृहस्पतौ ।

शोणभद्रो दशमुखः पुण्योऽभीष्टफलप्रदः ॥ ११॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 10: विद्येश्वरसंहितायां शिवक्षेत्रवर्णनं, Verse 12

तत्र स्नानोपवासेन पदं वैनायकं लभेत् ।

चतुर्वींशमुखा पुण्या नर्मदा च महानदी ॥ १२॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 10: विद्येश्वरसंहितायां शिवक्षेत्रवर्णनं, Verse 13

तस्यां स्नानेन वासेन पदं वैष्णवमाप्नुयात् ।

तमसा द्वादशमुखा रेवा दशमुखा नदी ॥ १३॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 10: विद्येश्वरसंहितायां शिवक्षेत्रवर्णनं, Verse 14

गोदावरी महापुण्या ब्रह्मगोवधनाशिनी ।

एकविंशमुखा प्रोक्ता रुद्रलोकप्रदायिनी ॥ १४॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 10: विद्येश्वरसंहितायां शिवक्षेत्रवर्णनं, Verse 15

कृष्ण वेणी पुण्यनदी सर्वपापक्षयावहा ।

साष्टादशमुखा प्रोक्ता विष्णुलोकप्रदायिनी ॥ १५॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 10: विद्येश्वरसंहितायां शिवक्षेत्रवर्णनं, Verse 16

तुङ्गभद्रा दशमुखा ब्रह्मलोकप्रदायिनी ।

सुवर्णमुखरी पुण्या प्रोक्ता नवमुखा तथा ॥ १६॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 10: विद्येश्वरसंहितायां शिवक्षेत्रवर्णनं, Verse 17

तत्रैव सुप्रजायन्ते ब्रह्मलोकच्युतास्तथा ।

सरस्वती च पम्पा च कन्या श्वेतनदी शुभा ॥ १७॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 10: विद्येश्वरसंहितायां शिवक्षेत्रवर्णनं, Verse 18

एतासां तीरवासेन इन्द्रलोकमवाप्नुयात् ।

सह्याद्रिजा महापुण्या कावेरीति महानदी ॥ १८॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 10: विद्येश्वरसंहितायां शिवक्षेत्रवर्णनं, Verse 19

सप्तविंशमुखा प्रोक्ता सर्वाभीष्टप्रदायिनी ।

तत्तीराः स्वर्गदाश्चैव ब्रह्मविष्णुपदप्रदाः ॥ १९॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 10: विद्येश्वरसंहितायां शिवक्षेत्रवर्णनं, Verse 20

शिवलोकप्रदाः शैवास्तथाभीष्टफलप्रदाः ।

नैमिषे बदरे स्नायान्मेषगे च गुरौ रवौ ॥ २०॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 10: विद्येश्वरसंहितायां शिवक्षेत्रवर्णनं, Verse 21

ब्रह्मलोकप्रदं विद्यात्ततः पूजादिकं तथा ।

सिन्धुनद्यां तथा स्नानं सिंहे कर्कटगे रवौ ॥ २१॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 10: विद्येश्वरसंहितायां शिवक्षेत्रवर्णनं, Verse 22

केदारोदकपानं च स्नानं च ज्ञानदं विदुः ।

गोदावर्यां सिंहमासे स्नायात्सिंहबृहस्पतौ ॥ २२॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 10: विद्येश्वरसंहितायां शिवक्षेत्रवर्णनं, Verse 23

शिवलोकप्रदमिति शिवेनोक्तं तथा पुरा ।

यमुनाशोणयोः स्नायाद् गुरौ कन्यागते रवौ ॥ २३॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 10: विद्येश्वरसंहितायां शिवक्षेत्रवर्णनं, Verse 24

धर्मलोके दन्तिलोके महाभोगप्रदं विदुः ।

कावेर्यां च तथा स्नायात्तुलागे तु रवौ गुरौ ॥ २४॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 10: विद्येश्वरसंहितायां शिवक्षेत्रवर्णनं, Verse 25

विष्णोर्वचनमाहात्म्यात्सर्वाभीष्टप्रदं विदुः ।

वृश्चिके मासि सम्प्राप्ते तथार्के गुरुवृश्चिके ॥ २५॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 10: विद्येश्वरसंहितायां शिवक्षेत्रवर्णनं, Verse 26

नर्मदायां नदीस्नानाद्विष्णुलोकमवाप्नुयात् ।

सुवर्णमुखरीस्नानां चापगे च गुरौ रवौ ॥ २६॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 10: विद्येश्वरसंहितायां शिवक्षेत्रवर्णनं, Verse 27

शिवलोकप्रदमिति ब्राह्मणो वचनं यथा ।

मृगमासि तथा स्नायाज्जाह्नव्यां मृगगे गुरौ ॥ २७॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 10: विद्येश्वरसंहितायां शिवक्षेत्रवर्णनं, Verse 28

शिवलोकप्रदमिति ब्रह्मणो वचनं यथा ।

ब्रह्मविष्ण्वोः पदे भुक्त्वा तदन्ते ज्ञानमाप्नुयात् ॥ २८॥