Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 38: रुद्रसंहितायां तृतीये पार्वतीखण्डे पतिव्रताधर्मवर्णनं

Containing 87 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 38: रुद्रसंहितायां तृतीये पार्वतीखण्डे पतिव्रताधर्मवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 38: रुद्रसंहितायां तृतीये पार्वतीखण्डे पतिव्रताधर्मवर्णनं, Verse 1

द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे २.३.५४. चतुःपञ्चाशत्तमोऽध्यायः ।

पतिव्रताधर्मवर्णनम् ।

ब्रह्मोवाच ।

अथ सप्तर्षयस्ते च प्रोचुर्हिमगिरीश्वरम् ।

कारय स्वात्मजादेव्या यात्रामद्योचितां गिरे ॥ १॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 38: रुद्रसंहितायां तृतीये पार्वतीखण्डे पतिव्रताधर्मवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 38: रुद्रसंहितायां तृतीये पार्वतीखण्डे पतिव्रताधर्मवर्णनं, Verse 2

इति श्रुत्वा गिरीशो हि बुद्ध्वा तद्विरहं परम् ।

विषण्णोऽभून्महाप्रेम्णा कियत्कालं मुनीश्वर ॥ २॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 38: रुद्रसंहितायां तृतीये पार्वतीखण्डे पतिव्रताधर्मवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 38: रुद्रसंहितायां तृतीये पार्वतीखण्डे पतिव्रताधर्मवर्णनं, Verse 3

कियत्कालेन सम्प्राप्य चेतनां शैलराट् ततः ।

तथास्त्विति गिरामुक्त्वा मेनां सन्देशमब्रवीत् ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 38: रुद्रसंहितायां तृतीये पार्वतीखण्डे पतिव्रताधर्मवर्णनं, Verse 4

शैलसन्देशमाकर्ण्य हर्षशोकवशा मुने ।

मेना संयापयामास कर्तुमासीत्समुद्यता ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 38: रुद्रसंहितायां तृतीये पार्वतीखण्डे पतिव्रताधर्मवर्णनं, Verse 5

श्रुतिस्वकुलजाचारं चचार विधिवन्मुने ।

उत्सवं विविधं तत्र सा मेना क्षितिभृत्प्रिया ॥ ५॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 38: रुद्रसंहितायां तृतीये पार्वतीखण्डे पतिव्रताधर्मवर्णनं, Verse 6

गिरिजां भूषयामास नानारत्नांशुकैर्वरैः ।

द्वादशाभरणैश्चैव श‍ृङ्गारैर्नृपसम्मितैः ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 38: रुद्रसंहितायां तृतीये पार्वतीखण्डे पतिव्रताधर्मवर्णनं, Verse 7

मेनामनोगतिं बुद्ध्वा साध्व्येका द्विजकामिनी ।

गिरिजां शिक्षयामास पातिव्रत्यव्रतं परम् ॥ ७॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 38: रुद्रसंहितायां तृतीये पार्वतीखण्डे पतिव्रताधर्मवर्णनं, Verse 8

द्विजपत्न्युवाच ।

गिरिजे श‍ृणु सुप्रीत्या मद्वचो धर्मवर्धनम् ।

इहामुत्रानन्दकरं श‍ृण्वतां च सुखप्रदम् ॥ ८॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 38: रुद्रसंहितायां तृतीये पार्वतीखण्डे पतिव्रताधर्मवर्णनं, Verse 9

धन्या पतिव्रता नारी नान्या पूज्या विशेषतः ।

पावनी सर्वलोकानां सर्वपापौघनाशिनी ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 38: रुद्रसंहितायां तृतीये पार्वतीखण्डे पतिव्रताधर्मवर्णनं, Verse 10

सेवते या पतिं प्रेम्णा परमेश्वरवच्छिवे ।

इह भुक्त्वाखिलान् भोगानन्ते पत्या शिवां गतिम् ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 38: रुद्रसंहितायां तृतीये पार्वतीखण्डे पतिव्रताधर्मवर्णनं, Verse 11

पतिव्रता च सावित्री लोपामुद्रा ह्यरुन्धती ।

शाण्डिल्या शतरूपानसूया लक्ष्मीः स्वधा सती ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 38: रुद्रसंहितायां तृतीये पार्वतीखण्डे पतिव्रताधर्मवर्णनं, Verse 12

संज्ञा च सुमतिः श्रद्धा मेना स्वाहा तथैव च ।

अन्या बह्व्योऽपि साध्व्यो हि नोक्ता विस्तारजाद्भयात् ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 38: रुद्रसंहितायां तृतीये पार्वतीखण्डे पतिव्रताधर्मवर्णनं, Verse 13

पातिव्रत्यवृषेणैव ता गताः सर्वपूज्यताम् ।

ब्रह्मविष्णुहरैश्चापि मान्या जाता मुनीश्वरैः ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 38: रुद्रसंहितायां तृतीये पार्वतीखण्डे पतिव्रताधर्मवर्णनं, Verse 14

सेव्यस्त्वया पतिस्तस्मात्सर्वदा शङ्करः प्रभुः ।

दीनानुग्रहकर्ता च सर्वसेव्यः सतां गतिः ॥ १४॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 38: रुद्रसंहितायां तृतीये पार्वतीखण्डे पतिव्रताधर्मवर्णनं, Verse 15

महान्पतिव्रताधर्मः श्रुतिस्मृतिषु नोदितः ।

यथैष वर्ण्यते श्रेष्ठो न तथान्योऽस्ति निश्चितम् ॥ १५॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 38: रुद्रसंहितायां तृतीये पार्वतीखण्डे पतिव्रताधर्मवर्णनं, Verse 16

भुञ्ज्याद्भुक्ते प्रिये पत्यौ पातिव्रत्यपरायणा ।

तिष्ठेत्तस्मिंञ्छिवे नारी सर्वथा सति तिष्ठति ॥ १६॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 38: रुद्रसंहितायां तृतीये पार्वतीखण्डे पतिव्रताधर्मवर्णनं, Verse 17

स्वप्यात्स्वपिति सा नित्यं बुध्येत्तु प्रथमं सुधीः ।

सर्वदा तद्धितं कुर्यादकैतवगतिः प्रिया ॥ १७॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 38: रुद्रसंहितायां तृतीये पार्वतीखण्डे पतिव्रताधर्मवर्णनं, Verse 18

अनलङ्कृतमात्मानं दर्शयेन्न क्वचिच्छिवे ।

कार्यार्थं प्रोषिते तस्मिन् भवेन्मण्डनवर्जिता ॥ १८॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 38: रुद्रसंहितायां तृतीये पार्वतीखण्डे पतिव्रताधर्मवर्णनं, Verse 19

पत्युर्नाम न गृह्णीयात् कदाचन पतिव्रता ।

आक्रुष्टापि न चाक्रोशेत्प्रसीदेत्ताडितापि च ॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 38: रुद्रसंहितायां तृतीये पार्वतीखण्डे पतिव्रताधर्मवर्णनं, Verse 20

हन्यतामिति च ब्रूयात्स्वामिन्निति कृपां कुरु । १९॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 38: रुद्रसंहितायां तृतीये पार्वतीखण्डे पतिव्रताधर्मवर्णनं, Verse 20

आहूता गृहकार्याणि त्यक्त्वा गच्छेत्तदन्तिकम् ।

सत्वरं साञ्जलिः प्रीत्या सुप्रणम्य वदेदिति ॥ २०॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 38: रुद्रसंहितायां तृतीये पार्वतीखण्डे पतिव्रताधर्मवर्णनं, Verse 21

किमर्थं व्याहृता नाथ स प्रसादो विधीयताम् ।

तदादिष्टा चरेत्कर्म सुप्रसन्नेन चेतसा ॥ २१॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 38: रुद्रसंहितायां तृतीये पार्वतीखण्डे पतिव्रताधर्मवर्णनं, Verse 22

चिरं तिष्ठेन्न च द्वारे गच्छेन्नैव परालये ।

आदाय तत्त्वं यत्किञ्चित्कस्मैचिन्नार्पयेत्क्वचित् ॥ २२॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 38: रुद्रसंहितायां तृतीये पार्वतीखण्डे पतिव्रताधर्मवर्णनं, Verse 23

पूजोपकरणं सर्वमनुक्ता साधयेत्स्वयम् ।

प्रतीक्षमाणावसरं यथाकालोचितं हितम् ॥ २३॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 38: रुद्रसंहितायां तृतीये पार्वतीखण्डे पतिव्रताधर्मवर्णनं, Verse 24

न गच्छेत्तीर्थयात्रां वै पत्याज्ञां न विना क्वचित् ।

दूरतो वर्जयेत्सा हि समाजोत्सवदर्शनम् ॥ २४॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 38: रुद्रसंहितायां तृतीये पार्वतीखण्डे पतिव्रताधर्मवर्णनं, Verse 25

तीर्थार्थिनी तु या नारी पतिपादोदकं पिबेत् ।

तस्मिन्सर्वाणि तीर्थानि क्षेत्राणि च न संशयः ॥ २५॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 38: रुद्रसंहितायां तृतीये पार्वतीखण्डे पतिव्रताधर्मवर्णनं, Verse 26

भुञ्ज्यात्सा भर्तुरुच्छिष्टमिष्टमन्नादिकं च यत् ।

महाप्रसाद इत्युक्त्वा पतिदत्तं पतिव्रता ॥ २६॥