Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 37: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवयात्रावर्णनं

Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 37: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवयात्रावर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 37: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवयात्रावर्णनं, Verse 1

द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे २.३.५३. त्रिपञ्चाशत्तमोऽध्यायः ।

वधूवरयोः यात्राप्रस्थानवर्णनम् ।

ब्रह्मोवाच ।

अथ विष्ण्वादयो देवा मुनयश्च तपोधनाः ।

कृत्वावश्यककर्माणि यात्रां सन्तेनिरे गिरेः ॥ १॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 37: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवयात्रावर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 37: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवयात्रावर्णनं, Verse 2

ततो गिरिवरः स्नात्वा स्वेष्टं सम्पूज्य यत्नतः ।

पौरबन्धून्समाहूय जनवासं ययौ मुदा ॥ २॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 37: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवयात्रावर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 37: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवयात्रावर्णनं, Verse 3

तत्र प्रभुं प्रपूज्याथ चक्रे सम्प्रार्थनां मुदा ।

कियद्दिनानि सन्तिष्ठ मद्गेहे सकलैः सह ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 37: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवयात्रावर्णनं, Verse 4

विलोकनेन ते शम्भो कृतार्थोऽहं न संशयः ।

धन्यश्च यस्य मद्गेहे आयातोऽसि सुरैः सह ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 37: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवयात्रावर्णनं, Verse 5

ब्रह्मोवाच ।

इत्युक्त्वा बहु शैलेशः करौ बद्ध्वा प्रणम्य च ।

प्रभुं निमन्त्रयामास सह विष्णुसुरादिभिः ॥ ५॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 37: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवयात्रावर्णनं, Verse 6

अथ ते मनसा गत्वा शिव संयुतमादरात् ।

प्रत्यूचुर्मुनयो देवा हृष्टा विष्णुसुरादिभिः ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 37: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवयात्रावर्णनं, Verse 7

देवा ऊचुः ।

धन्यस्त्वं गिरिशार्दूल तव कीर्तिर्महीयसी ।

त्वत्समो न त्रिलोकेषु कोऽपि पुण्यतमो जनः ॥ ७॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 37: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवयात्रावर्णनं, Verse 8

यस्य द्वारि महेशानः परब्रह्म सतां गतिः ।

समागतः सदासैश्च कृपया भक्तवत्सलः ॥ ८॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 37: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवयात्रावर्णनं, Verse 9

जनावासोऽतिरम्यश्च सम्मानो विविधः कृतः ।

भोजनानि त्वपूर्वाणि न वर्ण्यानि गिरीश्वर ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 37: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवयात्रावर्णनं, Verse 10

चित्रं न खलु तत्रास्ति यत्र देवी शिवाम्बिका ।

परिपूर्णमशेषं च वयं धन्या यदागताः ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 37: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवयात्रावर्णनं, Verse 11

ब्रह्मोवाच ।

इत्थं परस्परं तत्र प्रशंसाभवदुत्तमा ।

उत्सवो विविधो जातो वेदसाधुजयध्वनिः ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 37: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवयात्रावर्णनं, Verse 12

अभून्मङ्गलगानं च ननर्ताप्सरसाङ्गणः ।

नुतिं चक्रुर्मागधाद्या द्रव्यदानमभूद् बहु ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 37: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवयात्रावर्णनं, Verse 13

तत आमन्त्रय देवेशं स्वगेहमगमद्गिरिः ।

भोजनोत्सवमारेभे नानाविधिविधानतः ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 37: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवयात्रावर्णनं, Verse 14

भोजनार्थं प्रभुं प्रीत्यानयामास यथोचितम् ।

परिवारसमेतं च सकुतूहलमीश्वरम् ॥ १४॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 37: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवयात्रावर्णनं, Verse 15

प्रक्षाल्य चरणौ शम्भोर्विष्णोर्मम वरादरात् ।

सर्वेषाममराणां च मुनीनां च यथार्थतः ॥ १५॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 37: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवयात्रावर्णनं, Verse 16

परेषां च गतानां च गिरीशो मण्डपान्तरे ।

आसयामास सुप्रीत्या तांस्तान्बन्धुभिरन्वितः ॥ १६॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 37: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवयात्रावर्णनं, Verse 17

सुरसैर्विविधान्नैश्च तर्पयामास तान् गिरिः ।

बुभुजुर्निखिलास्ते वै शम्भुना विष्णुना मया ॥ १७॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 37: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवयात्रावर्णनं, Verse 18

तदानीं पुरनार्यश्च गालीदानं व्यधुर्मुदा ।

मृदुवाण्या हसन्त्यश्च पश्यन्त्यो यत्नतश्च तान् ॥ १८॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 37: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवयात्रावर्णनं, Verse 19

ते भुक्त्वाचम्य विधिवद्गिरिमामन्त्र्य नारद ।

स्वस्थानं प्रययुः सर्वे मुदितास्तृप्तिमागताः ॥ १९॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 37: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवयात्रावर्णनं, Verse 20

इत्थं तृतीये घस्त्रेऽपि मानितास्तेऽभवन्मुने ।

गिरीश्वरेण विधिवद्दानमानादरादिभिः ॥ २०॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 37: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवयात्रावर्णनं, Verse 21

चतुर्थे दिवसे प्राप्ते चतुर्थीकर्म शुद्धितः ।

बभूव विधिवद्येन विना खण्डित एव सः ॥ २१॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 37: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवयात्रावर्णनं, Verse 22

उत्सवो विविधश्चासीत्साधुवादजयध्वनिः ।

बहुदानं सुगानं च नर्तनं विविधं तथा ॥ २२॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 37: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवयात्रावर्णनं, Verse 23

पञ्चमे दिवसे प्राप्ते सर्वे देवा मुदान्विताः ।

विज्ञप्तिं चक्रिरे शैलं यात्रार्थमतिप्रेमतः ॥ २३॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 37: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवयात्रावर्णनं, Verse 24

तदाकर्ण्य गिरीशश्चोवाच देवान् कृताञ्जलिः ।

कियद्दिनानि तिष्ठन्तु कृपां कुर्वन्तु मां सुराः ॥ २४॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 37: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवयात्रावर्णनं, Verse 25

इत्युक्त्वा स्नेहतस्ताँश्च प्रभुं विष्णुं च मां परान् ।

वासयामास दिवसान् बहून्नित्यं समादरात् ॥ २५॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 37: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवयात्रावर्णनं, Verse 26

इत्थं व्यतीयुर्दिवसा बहवो वसतां च तत् ।

सप्तर्षीन्प्रेषयामासुर्गिरीशान्ते ततः सुराः ॥ २६॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 37: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवयात्रावर्णनं, Verse 27

ते तं सम्बोधयामासुर्मेनां च समयोचितम् ।

शिवतत्त्वं परं प्रोचुः प्रशंसन्विधिवन्मुदा ॥ २७॥