२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 36: रुद्रसंहितायां तृतीये पार्वतीखण्डे वरवर्गभोजनशिवशयनवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 91 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे २.३.५१. एकपञ्चाशत्तमोऽध्यायः ।
शिवाज्ञयाकामसञ्जीवनप्रकारकथनम् ।
ब्रह्मोवाच ।
तस्मिन्नवसरे ज्ञात्वानुकूलं समयं रतिः ।
सुप्रसन्ना च तं प्राह शङ्करं दीनवत्सलम् ॥ १॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे २.३.५२. द्विपञ्चाशत्तमोऽध्यायः ।
हिमालयगृहेवरपक्षीयभोजनवर्णनम् ।
ब्रह्मोवाच ।
अथ शैलवरस्तात हिमवान्भाग्यसत्तमः ।
प्राङ्गणं रचयामास भोजनार्थं विचक्षणः ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
रतिरुवाच ।
गृहीत्वा पार्वतीं प्राप्तं सौभाग्यमतिदुर्लभम् ।
किमर्थं प्राणनाथो मे निस्स्वार्थं भस्मसात्कृतः ॥ २॥
मार्जनं लेपनं सम्यक्कारयामास तस्य सः ।
स सुगन्धैरलञ्चक्रे नानावस्तुभिरादरात् ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
जीवयात्र पतिं मे हि कामव्यापारमात्मनि ।
कुरु दूरं च सन्तापं समविश्लेषहेतुकम् ॥ ३॥
अथ शैलः सुरान् सर्वानन्यानपि च सेश्वरान् ।
भोजनायाह्वयामास पुत्रैः शैलैः परैरपि ॥ ३॥
विवाहोत्सव एतस्मिन् सुखिनो निखिला जनाः ।
अहमेका महेशान दुःखिनी स्वपतिं विना ॥ ४॥
शैलाह्वानमथाकर्ण्य स प्रभुः साच्युतो मुने ।
सर्वैःसुरादिभिस्तत्र भोजनाय ययौ मुदा ॥ ४॥
सनाथां कुरु मां देव प्रसन्नो भव शङ्कर ।
स्वोक्तं सत्यं विधेहि त्वं दीनबन्धो पर प्रभो ॥ ५॥
गिरिः प्रभुं च सर्वांस्तान् सुसत्कृत्य यथाविधि ।
मुदोपवेशयामास सत्पीठेषु गृहान्तरे ॥ ५॥
त्वां विना कः समर्थोऽत्र त्रैलोक्ये सचराचरे ।
नाशने मम दुःखस्य ज्ञात्वेति करुणां कुरु ॥ ६॥
नानासुभोज्यवस्तूनि परिवेष्य च तत्पुनः ।
साञ्चलिर्भोजनायाज्ञां चक्रे विज्ञप्तिमानतः ॥ ६॥
सोत्सवे स्वविवाहेऽस्मिन्सर्वानन्दप्रदायिनी ।
सोत्सवामपि मां नाथ कुरु दीनकृपाकर ॥ ७॥
अथ सम्मानितास्तत्र देवा विष्णुपुरोगमाः ।
सदाशिवं पुरस्कृत्य बुभुजुः सकलाश्च ते ॥ ७॥
जीविते मम नाथे हि पार्वत्या प्रियया सह ।
सुविहारः प्रपूर्णश्च भविष्यति न संशयः ॥ ८॥
तदा सर्वे हि मिलिता ऐकपद्येन सर्वशः ।
पङ्क्तिभूताश्च बुभुजुर्विहसन्तः पृथक्पृथक् ॥ ८॥
सर्वं कर्तुं समर्थोऽसि यतस्त्वं परमेश्वरः ।
किं बहूक्त्यात्र सर्वेश जीवयाशु पतिं मम ॥ ९॥
नन्दिभृङ्गिवीरभद्रवीरभद्रगणाः पृथक् ।
बुभुजुस्ते महाभागाः कुतूहलसमन्विताः ॥ ९॥
ब्रह्मोवाच ।
तदित्युक्त्वा कामभस्म ददौ सग्रन्थिबन्धनम् ।
रुदोद पुरतः शम्भोर्नाथ नाथेत्युदीर्य च ॥ १०॥
देवाः सेन्द्रा लोकपाला नानाशोभासमन्विताः ।
बुभुजुस्ते महाभागा नानाहास्यरसैस्सह ॥ १०॥
रतिरोदनमाकर्ण्य सरस्वत्यादयः स्त्रियः ।
रुरुदुः सकला देव्यः प्रोचुर्दीनतरं वचः ॥ ११॥
सर्वे च मुनयो विप्रा भृग्वाद्या ऋषयस्तथा ।
बुभुजुः प्रीतितः सर्वे पृथक् पङ्क्तिगतास्तदा ॥ ११॥
देव्य ऊचुः ।
भक्तवत्सलनामा त्वं दीनबन्धुर्दयानिधिः ॥
कामं जीवय सोत्साहां रतिं कुरु नमोऽस्तु ते ॥ १२॥
तथा चण्डीगणाः सर्वे बुभुजुः कृतभोजनाः ।
कुतूहलं प्रकुर्वन्तो नानाहास्यकरा मुदा ॥ १२॥
ब्रह्मोवाच ।
इति तद्वचनं श्रुत्वा प्रसन्नोऽभून्महेश्वरः ।
कृपादृष्टिं चकाराशु करुणासागरः प्रभुः ॥ १३॥
एवं ते भुक्तवन्तश्चाचम्य सर्वे मुदान्विताः ।
विश्रामार्थं गताः प्रीत्या विष्ण्वाद्याः स्वं स्वमाश्रमम् ॥ १३॥