२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 34: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवहिमगिरिगृहाभ्यन्तरगमनोत्सववर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 58 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे २.३.४७. सप्तचत्वारिंशोऽध्यायः ।
शिवस्यहिमगिरिगृहाभ्यन्तरगमनोत्सववर्णनम् ।
ब्रह्मोवाच ।
ततः शैलवरः सोऽपि प्रीत्या दुर्गोपवीतकम् ।
कारयामास सोत्साहं वेदमन्त्रैश्शिवस्य च ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
अथ विष्ण्वादयो देवा मुनयः सकुतूहलम् ।
हिमाचलप्रार्थनया विवेशान्तर्गृहं गिरेः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
श्रुत्याचारं भवाचारं विधाय च यथार्थतः ।
शिवामलङ्कृतां चक्रुः शिवदत्तविभूषणैः ॥ ३॥
प्रथमं स्नापयित्वा तां भूषयित्वाथ सर्वशः ।
नीराजिता सखीभिश्च विप्रपत्नीभिरेव च ॥ ४॥
अहताम्बरयुग्मेन शोभिता वरवर्णिनी ।
विरराज महाशैलदुहिता शङ्करप्रिया ॥ ५॥
कञ्चुकी परमा दिव्या नानारत्नान्विताद्भुता ।
विधृता च तया देव्या विलसन्त्यधिकं मुने ॥ ६॥
सा बभार तथा हारं दिव्यरत्नसमन्वितम् ।
वलयानि महार्हाणि शुद्धचामीकराणि च ॥ ७॥
स्थिता तत्रैव सुभगा ध्यायन्ती मनसा शिवम् ।
शुशुभेऽति महाशैलकन्यका त्रिजगत्प्रसूः ॥ ८॥
तदोत्सवो महानासीदुभयत्र मुदावहः ।
दानं बभूव विविधं ब्राह्मणेभ्यो विवर्णितम् ॥ ९॥
अन्येषां द्रव्यदानं च बभूव विविधं महत् ।
गीतवाद्यविनोदश्च तत्रोत्सवपुरस्सरम् ॥ १०॥
अथ विष्णुरहं धाता शक्राद्या अमरास्तथा ।
मुनयश्च महाप्रीत्या निखिलाः सोत्सवा मुदा ॥ ११॥
सुप्रणम्य शिवां भक्त्या स्मृत्वा शिवपदाम्बुजम् ।
सम्प्राप्य हिमगिर्याज्ञां स्वं स्वं स्थानं समाश्रिताः ॥ १२॥
एतस्मिन्नन्तरे तत्र ज्योतिः शास्त्रविशारदः ।
हिमवन्तं गिरीन्द्रं तं गर्गो वाक्यमभाषत ॥ १३॥
गर्ग उवाच ।
हिमाचल धराधीश स्वामिन् कालीपतिः प्रभो ।
पाणिग्रहार्थं शम्भुं चानय त्वं निजमन्दिरम् ॥ १४॥
ब्रह्मोवाच ।
अथ तं समयं ज्ञात्वा कन्यादानोचितं गिरिः ।
निवेदितं च गर्गेण मुमुदेऽतीव चेतसि ॥ १५॥
महीधरान्द्विजांश्चैव परानपि मुदा गिरिः ।
प्रेषयामास सुप्रीत्या शिवानयनकाम्यया ॥ १६॥
ते पर्वता द्विजाश्चैव सर्वमङ्गलपाणयः ।
सञ्जग्मुः सोत्सवाः प्रीत्या यत्र देवो महेश्वरः ॥ १७॥
तदा वादित्रघोषेण ब्रह्मघोषेण भूयसा ।
महोत्साहोऽभवत्तत्र गीतनृत्यान्वितेन हि ॥ १८॥
श्रुत्वा वादित्रनिर्घोषं सर्वे शङ्करसेवकाः ।
उत्थितास्त्वैकपद्येन सदेवर्षिगणा मुदा ॥ १९॥
परस्परं समूचुस्ते हर्षनिर्भरमानसाः ।
अत्रागच्छन्ति गिरयः शिवानयनकाम्यया ॥ २०॥
पाणिग्रहणकालो हि नूनं सद्यः समागतः ।
महद्भाग्यं हि सर्वेषां सम्प्राप्तमिह मन्महे ॥ २१॥
धन्या वयं विशेषेण विवाहं शिवयोर्ध्रुवम् ।
द्रक्ष्यामः परमप्रीत्या जगतां मङ्गलालयम् ॥ २२॥
ब्रह्मोवाच ।
एवं यावदभूत्तेषां संवादस्तत्र चादरात् ।
तावत्सर्वे समायाताः पर्वतेन्द्रस्य मन्त्रिणः ॥ २३॥
ते गत्वा प्रार्थयाञ्चक्रुः शिवं विष्ण्वादिकानपि ।
कन्यादानोचितः कालो वर्तते गम्यतामिति ॥ २४॥
ते तच्छ्रुत्वा सुराः सर्वे मुने विष्ण्वादयोऽखिलाः ।
मुमुदुश्चेतसातीव जयेत्यूचुर्गिरिं द्रुतम् ॥ २५॥
शिवोऽपि मुमुदेऽतीव कालीप्रापणलालसः ।
गुप्तं चकार तच्चिह्नं मनस्येवाद्भुताकृतिः ॥ २६॥
अथ स्नानं कृतं तेन मङ्गलद्रव्यसंयुतम् ।
शूलिना सुप्रसन्नेन लोकानुग्रहकारिणा ॥ २७॥