२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 33: रुद्रसंहितायां तृतीये पार्वतीखण्डे वरागमादिवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे २.३.४६. षट्चत्शरिंशोऽध्यायः ।
मण्डपद्वारे वरागमनवर्णनम् ।
ब्रह्मोवाच ।
अथ शम्भुः प्रसन्नात्मा सदूतं स्वगणैःसुरैः ।
सर्वैरन्यैर्गिरेर्धाम जगाम सकुतूहलम् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
मेनापि स्त्रीगणैस्तैश्च हिमाचलवरप्रिया ।
तत उत्थाय स्वगृहाभ्यन्तरं सा जगाम ह ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
नीराजनार्थं शम्भोश्च दीपपात्रकरा सती ।
सर्वर्षिस्त्रीगणैस्साकमगच्छद् द्वारमादरात् ॥ ३॥
तत्रागतं महेशानं शङ्करं गिरिजावरम् ।
ददर्श प्रीतितो मेना सेवितं सकलैः सुरैः ॥ ४॥
चारुचम्पकवर्णाभं पञ्चवक्त्रं त्रिलोचनम् ।
ईषद्धास्यप्रसन्नास्यं रत्नस्वर्णादिभूषितम् ॥ ५॥
मालतीमालया युक्तं सद्रत्नमुकुटोज्ज्वलम् ।
सत्कण्ठाभरणं चारुवलयाङ्गदभूषितम् ॥ ६॥
वह्निशौचेनातुलेन त्वतिसूक्ष्मेण चारुणा ।
अमूल्यवस्त्रयुग्मेन विचित्रेणातिराजितम् ॥ ७॥
चन्दनागरुकस्तूरीचारुकुङ्कुमभूषितम् ।
रत्नदर्पणहस्तं च कज्जलोज्ज्वललोचनम् ॥ ८॥
सर्वस्वप्रभयाच्छन्नमतीव सुमनोहरम् ।
अतीव तरुणं रम्यं भूषिताङ्गैश्च भूषितम् ॥ ९॥
कामिनीकान्तमव्यग्रं कोटिचन्द्राननाम्बुजम् ।
कोटिस्मराधिकतनुच्छविं सर्वाङ्गसुन्दरम् ॥ १०॥
ईदृग्विधं सुदेवं तं स्थितं स्वपुरतः प्रभुम् ।
दृष्ट्वा जामातरं मेना जहौ शोकं मुदान्विता ॥ ११॥
प्रशशंस स्वभाग्यं सा गिरिजां भूधरं कुलम् ।
मेने कृतार्थमात्मानं जहर्ष च पुनः पुनः ॥ १२॥
नीराजनं चकारासौ प्रफुल्लवदना सती ।
अवलोकपरा तत्र मेना जामातरं मुदा ॥ १३॥
गिरिजोक्तमनुस्मृत्य मेना विस्मयमागता ।
मनसैव ह्युवाचेदं हर्षफुल्लाननाम्बुजा ॥ १४॥
यद्वै पुरोक्तं च तया पार्वत्या मम तत्र च ।
ततोऽधिकं प्रपश्यामि सौन्दर्यं परमेशितुः ॥ १५॥
महेशस्य सुलावण्यमनिर्वाच्यं च सम्प्रति ।
एवं विस्मयमापन्ना मेना स्वगृहमाययौ ॥ १६॥
प्रशशंसुर्युवतयो धन्या धन्या गिरेः सुता ।
दुर्गा भगवतीत्येवमूचुः काश्चन कन्यकाः ॥ १७॥
न दृष्टो वर इत्येवमस्माभिर्दानगोचरः ।
धन्या हि गिरिजादेवीमूचुः काश्चन कन्यकाः ॥ १८॥
जगुर्गन्धर्वप्रवरा ननृतुश्चाप्सरोगणाः ।
दृष्ट्वा शङ्कररूपं च प्रहृष्टाः सर्वदेवताः ॥ १९॥
नानाप्रकारवाद्यानि वादका मधुराक्षरम् ।
नानाप्रकारशिल्पेन वादयामासुरादरात् ॥ २०॥
हिमाचलोऽपि मुदितो द्वाराचारमथाकरोत् ।
मेनापि सर्वनारीभिर्महोत्सवपुरस्सरम् ॥ २१॥
परपृच्छां चकारासौ मुदिता स्वगृहं ययौ ।
शिवो निवेदितं स्थानं जगाम गणनिर्जरैः ॥ २२॥
एतस्मिन्नन्तरे दुर्गां शैलान्तः पुरचारिकाः ।
बहिर्जग्मुः समादाय पूजितुं कुलदेवताम् ॥ २३॥
तत्र तां ददृशुर्देवा निमेषरहिता मुदा ।
सुनीलाञ्जनवर्णाभां स्वाङ्गैश्च प्रतिभूषिताम् ॥ २४॥
त्रिनेत्रादृतनेत्रां तामन्यवारितलोचनाम् ।
ईषद्धास्यप्रसन्नास्यां सकटाक्षां मनोहराम् ॥ २५॥
सुचारुकबरीभारां चारुपत्रकशोभिताम् ।
कस्तूरीबिन्दुभिस्सार्धं सिन्दूरबिन्दुशोभिताम् ॥ २६॥
रत्नेन्द्रसारहारेण वक्षसा सुविराजिताम् ।
रत्नकेयूरवलयां रत्नकङ्कणमण्डिताम् ॥ २७॥