Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 32: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवसुन्दरस्वरूप-पुरवास्युत्सववर्णनं

Containing 49 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 32: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवसुन्दरस्वरूप-पुरवास्युत्सववर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 32: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवसुन्दरस्वरूप-पुरवास्युत्सववर्णनं, Verse 1

द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे २.३.४५. पञ्चचत्वारिंशोऽध्यायः ।

दिव्यस्वरूपेण शिवाविर्भावस्थितिवर्णनम् ।

ब्रह्मोवाच ।

एतस्मिन्नन्तरे त्वं हि विष्णुना प्रेरितो द्रुतम् ।

अनुकूलयितुं शम्भुमयास्तन्निकटे मुने ॥ १॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 32: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवसुन्दरस्वरूप-पुरवास्युत्सववर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 32: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवसुन्दरस्वरूप-पुरवास्युत्सववर्णनं, Verse 2

तत्र गत्वा स वै रुद्रो भवता सुप्रबोधितः ।

स्तोत्रैर्नानाविधैः स्तुत्वा देवकार्यचिकीर्षया ॥ २॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 32: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवसुन्दरस्वरूप-पुरवास्युत्सववर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 32: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवसुन्दरस्वरूप-पुरवास्युत्सववर्णनं, Verse 3

श्रुत्वा त्वद्वचनं प्रीत्या शम्भुना धृतमद्भुतम् ।

स्वरूपमुत्तमं दिव्यं कृपालुत्वं च दर्शितम् ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 32: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवसुन्दरस्वरूप-पुरवास्युत्सववर्णनं, Verse 4

तद् दृष्ट्वा सुन्दरं शम्भुं स्वरूपं मन्मथाधिकम् ।

अत्यहृष्यो मुने त्वं हि लावण्यपरमायनम् ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 32: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवसुन्दरस्वरूप-पुरवास्युत्सववर्णनं, Verse 5

स्तोत्रैर्नानाविधैः स्तुत्वा परमानन्दसंयुतः ।

आगच्छस्त्वं मुने तत्र यत्र मेना स्थिताखिलैः ॥ ५॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 32: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवसुन्दरस्वरूप-पुरवास्युत्सववर्णनं, Verse 6

तत्रागत्य सुप्रसन्नो मुनेऽतिप्रेमसङ्कुलः ।

हर्षयंस्तां शैलपत्नीं मेनां त्वं वाक्यमब्रवीः ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 32: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवसुन्दरस्वरूप-पुरवास्युत्सववर्णनं, Verse 7

नारद उवाच ।

मेने पश्य विशालाक्षि शिवरूपमनुत्तमम् ।

कृता शिवेन तेनैव सुकृपा करुणात्मना ॥ ७॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 32: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवसुन्दरस्वरूप-पुरवास्युत्सववर्णनं, Verse 8

ब्रह्मोवाच ।

श्रुत्वा सा तद्वचो मेना विस्मिता शैलकामिनी ।

ददर्श शिवरूपं तत्परमानन्ददायकम् ॥ ८॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 32: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवसुन्दरस्वरूप-पुरवास्युत्सववर्णनं, Verse 9

कोटिसूर्यप्रतीकाशं सर्वावयवसुन्दरम् ।

विचित्रवसनं चात्र नानाभूषणभूषितम् ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 32: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवसुन्दरस्वरूप-पुरवास्युत्सववर्णनं, Verse 10

सुप्रसन्नं सुहासं च सुलावण्यं मनोहरम् ।

गौराभं द्युतिसंयुक्तं चन्द्ररेखाविभूषितम् ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 32: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवसुन्दरस्वरूप-पुरवास्युत्सववर्णनं, Verse 11

सर्वैर्देवगणैः प्रीत्या विष्ण्वाद्यैः सेवितं तथा ।

सूर्येण च्छत्रितं मूर्ध्नि चन्द्रेण च विशोभितम् ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 32: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवसुन्दरस्वरूप-पुरवास्युत्सववर्णनं, Verse 12

सर्वथा रमणीयं च भूषितस्य विभूषणैः ।

वाहनस्य महाशोभा वर्णितुं नैव शक्यते ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 32: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवसुन्दरस्वरूप-पुरवास्युत्सववर्णनं, Verse 13

गङ्गा च यमुना चैव विधत्तः स्म सुचामरे ।

सिद्धयोऽष्टौ पुरस्तस्य कुर्वन्ति स्म सुनर्तनम् ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 32: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवसुन्दरस्वरूप-पुरवास्युत्सववर्णनं, Verse 14

मया चैव तदा विष्णुरिन्द्राद्या ह्यमरास्तथा ।

स्वं स्वं वेषं सुसम्भूष्य गिरिशेनाचरन्युताः ॥ १४॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 32: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवसुन्दरस्वरूप-पुरवास्युत्सववर्णनं, Verse 15

तथा जयेति भाषन्तो नानारूपा गणास्तदा ।

स्वलङ्कृतमहामोदा गिरीशपुरतोऽचरन् ॥ १५॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 32: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवसुन्दरस्वरूप-पुरवास्युत्सववर्णनं, Verse 16

सिद्धाश्चोपसुराः सर्वे मुनयश्च महासुखाः ।

ययुः शिवेन सुप्रीताः सकलाश्चापरे तथा ॥ १६॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 32: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवसुन्दरस्वरूप-पुरवास्युत्सववर्णनं, Verse 17

एवं देवादयः सर्वे कुतूहलसमन्विताः ।

परं ब्रह्म गृणन्तस्ते स्वपत्नीभिरलङ्कृताः ॥ १७॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 32: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवसुन्दरस्वरूप-पुरवास्युत्सववर्णनं, Verse 18

विश्वावसुमुखास्तत्र ह्यप्सरोगणसंयुताः ।

गायन्तोऽप्यग्रतस्तस्य परमं शाङ्करं यशः ॥ १८॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 32: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवसुन्दरस्वरूप-पुरवास्युत्सववर्णनं, Verse 19

इत्थं महोत्सवस्तत्र बभूव मुनिसत्तम ।

नानाविधो महेशे हि शैलद्वारि च गच्छति ॥ १९॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 32: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवसुन्दरस्वरूप-पुरवास्युत्सववर्णनं, Verse 20

तस्मिंश्च समये तत्र सुषमा या परात्मनः ।

वर्णितुं तां विशेषेण कः शक्नोति मुनीश्वर ॥ २०॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 32: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवसुन्दरस्वरूप-पुरवास्युत्सववर्णनं, Verse 21

तथाविधं च तं दृष्ट्वा मेना चित्रगता इव ।

क्षणमासीत्ततः प्रीत्या प्रोवाच वचनं मुने ॥ २१॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 32: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवसुन्दरस्वरूप-पुरवास्युत्सववर्णनं, Verse 22

मेनोवाच ।

धन्या पुत्री मदीया च यया तप्तं महत्तपः ।

यत्प्रभावान्महेशान त्वं प्राप्त इह मद्गृहे ॥ २२॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 32: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवसुन्दरस्वरूप-पुरवास्युत्सववर्णनं, Verse 23

मया कृता पुरा या वै शिवनिन्दा दुरत्यया ।

तां क्षमस्व शिवास्वामिन्सुप्रसन्नो भवाधुना ॥ २३॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 32: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवसुन्दरस्वरूप-पुरवास्युत्सववर्णनं, Verse 24

ब्रह्मोवाच ।

इत्थं सम्भाष्य सा मेना संस्तूयेन्दुललाटकम् ।

साञ्जलिः प्रणता शैलप्रिया लज्जापराभवत् ॥ २४॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 32: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवसुन्दरस्वरूप-पुरवास्युत्सववर्णनं, Verse 25

तावत्स्त्रियः समाजग्मुर्हित्वा कामाननेकशः ।

वह्व्यस्ताः पुरवासिन्यः शिवदर्शनलालसाः ॥ २५॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 32: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवसुन्दरस्वरूप-पुरवास्युत्सववर्णनं, Verse 26

मज्जनं कुर्वती काचित्तच्चूर्णसहिता ययौ ।

द्रष्टुं कुतूहलाढ्या च शङ्करं गिरिजावरम् ॥ २६॥

Shiva Purana

२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 32: रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवसुन्दरस्वरूप-पुरवास्युत्सववर्णनं, Verse 27

काचित्तु स्वामिनःसेवां सखीयुक्ता विहाय च ।

सुचामरकरा प्रीत्यागाच्छम्भोर्दर्शनाय वै ॥ २७॥