२ रुद्रसंहिता - ३ पार्वतीखण्डः, अध्याय 31: रुद्रसंहितायां तृतीये पार्वतीखण्डे मेनाप्रबोधवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 106 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
द्वितीयायां रुद्रसंहितायां तृतीयः पार्वतीखण्डे २.३.४४. चतुश्चत्वारिंशोऽध्यायः ।
मेनाप्रबोधवर्णनम् ।
ब्रह्मोवाच ।
संज्ञां लब्ध्वा ततः सा च मेना शैलप्रिया सती ।
विललापातिसङ्क्षुब्धा तिरस्कारमथाकरोत् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
तत्र तावत्स्वपुत्रांश्च निनिन्द स्खलिता मुहुः ।
प्रथमं सा ततः पुत्रीं कथयामास दुर्वचः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
मेनोवाच ।
मुने पुरा त्वया प्रोक्तं वरिष्यति शिवा शिवम् ।
पश्चाद्धिमवतः कृत्यं पूजार्थं विनिवेशितम् ॥ ३॥
ततो दृष्टं फलं सत्यं विपरीतमनर्थकम् ।
मुनेऽधमाहं दुर्बुद्धे सर्वथा वञ्चिता त्वया ॥ ४॥
पुनस्तया तपस्तप्तं दुष्करं मुनिभिश्च यत् ।
तस्य लब्धं फलं ह्येतत्पश्यतां दुःखदायकम् ॥ ५॥
किं करोमि क्व गच्छामि को मे दुःखं व्यपोहताम् ।
कुलादिकं विनष्टं मे विहितं जीवितं मम ॥ ६॥
क्व गता ऋषयो दिव्याः श्मश्रूणि त्रोटयाम्यहम् ।
तपस्विनी च या पत्नी सा धूर्ता स्वयमागता ॥ ७॥
केषाञ्चैवापराधेन सर्वं नष्टं ममाधुना ।
इत्युक्त्वा वीक्ष्य च सुतामुवाच वचनं कटु ॥ ८॥
किं कृतं ते सुते दुष्टे कर्म दुःखकरं मम ।
हेम दत्त्वा त्वयानीतः काचो वै दुष्टया स्वयम् ॥ ९॥
हित्वा तु चन्दनं भूयो लेपितः कर्दमस्त्वया ।
हंसमुड्डीय काको वै गृहीतो हस्तपञ्जरे ॥ १०॥
हित्वा ब्रह्मजलं दूरे पीतं कूपोदकं त्वया ।
सूर्यं हित्वा तु खद्योतो गृहीतो यत्नतस्त्वया ॥ ११॥
तण्डुलांश्च तथा हित्वा कृतं वै तुषभक्षणम् ।
प्रक्षिप्याज्यं तथा तैलं कारण्डं भुक्तमादरात् ॥ १२॥
सिंहसेवां तथा मुक्त्वा शृगालः सेवितस्त्वया ।
ब्रह्मविद्यां तथा मुक्त्वा कुगाथा च श्रुता त्वया ॥ १३॥
गृहे यज्ञविभूतिं हि दूरीकृत्य सुमङ्गलाम् ।
गृहीतश्च चिताभस्म त्वया पुत्रि ह्यमङ्गलम् ॥ १४॥
सर्वान् देववरांस्त्यक्त्वा विष्ण्वादीन्परमेश्वरान् ।
कृतं त्वया कुबुद्ध्या वै शिवार्थं तप ईदृशम् ॥ १५॥
धिक्त्वां च तव बुद्धिं च धिग्रूपं चरितं तव ।
धिक् चोपदेशकर्तारं धिक्सख्यावपि ते तथा ॥ १६॥
आवां च धिक्तथा पुत्रि यौ ते जन्मप्रवर्तकौ ।
धिक्ते नारद बुद्धिञ्च सप्तर्षींश्च कुबुद्धिदान् ॥ १७॥
धिक्कुलं धिक् क्रियादाक्ष्यं सर्वं धिग्यत्कृतं त्वया ।
गृहं तु धुक्षितं त्वेतन्मरणं तु ममैव हि ॥ १८॥
पर्वतानामयं राजा नायातु निकटे मम ।
सप्तर्षयः स्वयं नैव दर्शयन्तु मुखं मम ॥ १९॥
साधितं किं च सर्वैस्तु मिलित्वा घातितं कुलम् ।
बन्ध्याहं न कथं जाता गर्भो न गलितः कथम् ॥ २०॥
अथो न वा मृता चाहं पुत्रिका न मृता कथम् ।
राक्षसाद्यैः कथं नो वा भक्षिता गगने पुनः ॥ २१॥
छेदयामि शिरस्तेऽद्य किं करोमि कलेवरैः ।
त्यक्त्वा त्वां च कुतो यायां हाहा मे जीवितं हतम् ॥ २२॥
ब्रह्मोवाच ।
इत्युक्त्वा पतिता सा च मेना भूमौ विमूर्छिता ।
व्याकुला शोकरोषाद्यैर्न गता भर्तृसन्निधौ ॥ २३॥
हाहाकारो महानासीत्तस्मिन्काले मुनीश्वर ।
सर्वे समागतास्तत्र क्रमात्तत्सन्निधौ सुराः ॥ २४॥
पुरा देवमुने चाहमागतस्तु स्वयं तदा ।
मां दृष्ट्वा त्वं वचस्तां वै प्रावोच ऋषिसत्तम ॥ २५॥
नारद उवाच ।
यथार्थं सुन्दरं रूपं न ज्ञातं ते शिवस्य वै ।
लीलयेदं धृतं रूपं न यथार्थं शिवेन च ॥ २६॥
तस्मात्क्रोधं परित्यज्य स्वस्था भव पतिव्रते ।
कार्यं कुरु हठं त्यक्त्वा शिवां देहि शिवाय च ॥ २७॥