माहात्म्यम्, अध्याय १, Verse 1
श्रीशिवमहापुराणमाहात्म्यम् ०.१. प्रथमोऽध्यायः ।
तन्महिमवर्णनम् ।
शौनक उवाच ।
हे हे सूत महाप्राज्ञ सर्वसिद्धान्तवित् प्रभो ।
आख्याहि मे कथासारं पुराणानां विशेषतः ॥ १॥
Containing 381 sacred Sanskrit shlokas with multi-author commentaries and translations.
श्रीशिवमहापुराणमाहात्म्यम् ०.१. प्रथमोऽध्यायः ।
तन्महिमवर्णनम् ।
शौनक उवाच ।
हे हे सूत महाप्राज्ञ सर्वसिद्धान्तवित् प्रभो ।
आख्याहि मे कथासारं पुराणानां विशेषतः ॥ १॥
०.२. द्वितीयोऽध्यायः ।
देवराजमुक्तिवर्णनम् ।
शौनक उवाच ।
सूत सूत महाभाग धन्यस्त्वं परमार्थवित् ।
अद्भुतेयं कथा दिव्या श्राविता कृपया हि नः ॥ १॥
०.३. तृतीयोऽध्यायः ।
चञ्चुलावैराग्यवर्णनम् ।
शौनक उवाच ।
सूत सूत महाभाग सर्वज्ञोऽसि महामते ।
त्वत्प्रसादात् कृतार्थोऽहं कृतार्थोऽहं पुनः पुनः ॥ १॥
०.४. चतुर्थोऽध्यायः ।
चञ्चुलासद्गतिवर्णनम् ।
ब्राह्मण उवाच ।
दिष्ट्या काले प्रबुद्धासि शिवानुग्रहतो वराम् ।
इमां शिवपुराणस्य श्रुत्वा वैराग्यवत्कथाम् ॥ १॥
०.५. पञ्चमोऽध्यायः ।
बिन्दुगसद्गतिवर्णनम् ।
शौनक उवाच ।
सूत सूत महाभाग धन्यस्त्वं शिवसक्तधीः ।
श्रावितेयं कथास्माकमद्भुता भक्तिवर्धिनी ॥ १॥
०.६. षष्ठोऽध्यायः ।
श्रवणविधिवर्णनम् ।
शौनक उवाच ।
सूत सूत महाप्राज्ञ व्यासशिष्य नमोऽस्तु ते ।
धन्यस्त्वं शैववर्योऽसि वर्णनीयमहद्गुणः ॥ १॥
०.७. सप्तमोऽध्यायः ।
विधिनिषेधपुस्तकवक्तृपूजनवर्णनम् ।
शौनक उवाच ।
सूत सूत महाप्राज्ञ धन्यस्त्वं शैवपुङ्गव ।
श्रावितेयं कथास्माकमद्भुतेयं शुभावहा ॥ १॥
सदाचारश्च सद्भक्तिर्विवेको वर्धते कथम् ।
स्वविकारनिरासश्च सज्जनैः क्रियते कथम् ॥ २॥
अघौघविध्वंसकरी मनःशुद्धिविधायिनि ।
शिवसन्तोषजननी कथेयं नः श्रुताद्भुता ॥ २॥
इतिहासमिमं श्रुत्वा मनो मेऽतीव मोदते ।
अन्यामपि कथां शम्भोर्वद प्रेमविवर्धिनीम् ॥ २॥
मा भैषीर्द्विजपत्नि त्वं शिवस्य शरणं व्रज ।
शिवानुग्रहतः सर्वं पापं सद्यो विनश्यति ॥ २॥
तत्र गत्वा किं चकार चञ्चुला प्राप्तसद्गतिः ।
तत् त्वं वद विशेषेण तत्पतेश्च महामते ॥ २॥
श्रीमच्छिवपुराणस्य श्रवणस्य विधिं वद ।
येन सर्वं लभेच्छ्रोता सम्पूर्णं फलमुत्तमम् ॥ २॥
पुंसां शिवपुराणस्य श्रवणव्रतिनां मुने ।
सर्वलोकहितार्थाय दयया नियमं वद ॥ २॥
जीवाश्चासुरतां प्राप्ताः प्रायो घोरे कलाविह ।
तस्य संशोधने किं हि विद्यते परमायनम् ॥ ३॥
एतत्कथासमानं न भुवि किञ्चित् परात्परम् ।
निश्चयेनेति विज्ञातमस्माभिः कृपया तव ॥ ३॥
नामृतं पिबतां लोके मुक्तिः क्वापि सभाज्यते ।
शम्भोः कथासुधापानं प्रत्यक्षं मुक्तिदायकम् ॥ ३॥
वक्ष्यामि ते परं वस्तु शिवकीर्तिसमन्वितम् ।
भविष्यति गतिर्येन सर्वदा ते सुखावहा ॥ ३॥
सूत उवाच ।
सा कदाचिदुमां देवीमुपगम्य प्रणम्य च ।
सुतुष्टाव करौ बद्ध्वा परमानन्दसम्प्लुता ॥ ३॥
सूत उवाच ।
अथ ते सम्प्रवक्ष्यामि सम्पूर्णफलहेतवे ।
विधिं शिवपुराणस्य शौनक श्रवणे मुने ॥ ३॥
सूत उवाच ।
नियमं शृणु सद्भक्त्या पुंसां तेषां च शौनक ।
नियमात् सत्कथां श्रुत्वा निर्विघ्नफलमुत्तमम् ॥ ३॥
यदस्ति वस्तु परमं श्रेयसां श्रेय उत्तमम् ।
पावनं पावनानां च साधनं तद्वदाधुना ॥ ४॥
के के विशुध्यन्त्यनया कथया पापिनः कलौ ।
वद तान् कृपया सूत कृतार्थं भुवनं कुरु ॥ ४॥
धन्या धन्या कथा शम्भोस्त्वं धन्यो धन्य एव च ।
यदाकर्णनमात्रेण शिवलोकं व्रजेन्नरः ॥ ४॥
सत्कथाश्रवणादेव जाता ते मतिरीदृशी ।
पश्चात्तापान्विता शुद्धा वैराग्यं विषयेषु च ॥ ४॥
चञ्चुलोवाच ।
गिरिजे स्कन्दमातस्त्वं सेविता सर्वदा नरैः ।
सर्वासौख्यप्रदे शम्भुप्रिये ब्रह्मस्वरूपिणि ॥ ४॥
दैवज्ञं च समाहूय सन्तोष्य च जनान्वितः ।
मुहूर्तं शोधयेच्छुद्धं निर्विघ्नेन समाप्तये ॥ ४॥
पुंसां दीक्षाविहीनानां नाधिकारः कथाश्रवे ।
श्रोतुकामैरतो वक्तुर्दीक्षा ग्राह्या च तैर्मुने ॥ ४॥
येन तत्साधनेनाशु शुध्यत्यात्मा विशेषतः ।
शिवप्राप्तिर्भवेत्तात सदा निर्मलचेतसः ॥ ५॥
सूत उवाच ।
ये मानवाः पापकृतो दुराचाररताः खलाः ।
कामादिनिरता नित्यं तेऽपि शुध्यन्त्यनेन वै ॥ ५॥