Saubhagya Lakshmi Upanishad

Complete Upanishad

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Saubhagya Lakshmi Upanishad

Complete Upanishad, Verse 1

सौभाग्यलक्ष्म्युपनिषत्

(ऋग्वेदीया)

सौभाग्यलक्ष्मीकैवल्यविद्यावेद्यसुखाकृति ।

त्रिपान्नारायणानन्दरमचन्द्रपदं भजे ॥

ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि

प्रतिष्ठितमाविरावीर्म एधि ॥

वेदस्य म आणीस्थः श्रुतं मे मा

प्रहासीरनेनाधीतेनाहोरात्रान्सन्दधाम्यृतं

वदिष्यामि सत्यं वदिष्यामि ॥

तन्मामवतु तद्वक्तारमवतु अवतु मामवतु

वक्तारमवतु वक्तारम् ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

(सौभाग्यलक्ष्मीविद्याजिज्ञासा)

हरिः ॐ ॥

अथ भगवन्तं देवा ऊचुर्हे

भगवन्नः कथय सौभाग्यलक्ष्मीविद्याम् ।

तथेत्यवोचद्भगवानादिनारायणः सर्वे देवा

यूयं सावधानमनसो भूत्वा श‍ृणुत

तुरीयरूपां तुरीयातीतान् सर्वोत्कटां

सर्वमन्त्रासनगतां पीठोपपीठदेवतापरिवृतां

चतुर्भुजां श्रियं हिरण्यवर्णामिति

पञ्चदशर्ग्भिर्ध्यायेत् ।

अथ पञ्चदश

ऋगात्मकस्य श्रीसूक्तस्यानन्दकर्दमचिक्लीतेन्दिरासुता

ऋषयः ।

श्रीऋष्याद्या ऋचः

चतुर्दशानमृचामानन्दाद्यृषयः ।

हिरण्यवर्णाद्याद्यत्रयस्यानुष्टुप् छन्दः ।

कांसोस्मीत्यस्य बृहती छन्दः ।

तदन्ययोर्द्वयोस्त्रिष्टुप् ।

पुनरष्टकस्यानुष्टुप् ।

शेषस्य प्रस्तारपङ्क्तिः ।

श्र्यग्निर्देवता ।

हिरण्यवर्णामिति बीजम् ।

कांसोऽस्मीति शक्तिः ।

हिरण्मया चन्द्रा रजतस्रजा हिरण्या हिरण्यवर्णेति

प्रणवादिनमोन्तैश्चतुर्थ्यन्तैरङ्गन्यासः ।

अथ वक्त्रत्रयैरङ्गन्यासः ।

मस्तकलोचनश्रुतिघ्राण-

वदनकण्ठबाहुद्वयहृदयनाभिगुह्यपायूरुजानुजङ्घेषु

श्रीसूक्तैरेव क्रमशो न्यसेत् ।

अरुणकमलसंस्था

तद्रजःपुञ्जवर्णा करकमलधृतेष्टाऽभीतियुग्माम्बुजा च ।

मणिकटकविचित्रालङ्कृताकल्पजालैः सकलभुवनमाता

सन्ततं श्रीः श्रियै नः

Saubhagya Lakshmi Upanishad

Complete Upanishad, Verse 2

(सौभग्यलक्ष्मीचक्रम्)

तत्पीठकर्णिकायां ससाध्यं श्रीबीजम् ।

वस्वादित्यकलापद्मेषु श्रीसूक्तगतार्धार्धर्चा

तद्बहिर्यः शुचिरिति मातृकया च श्रियं यन्त्राङ्गदशकं

च विलिख्य श्रियमावाहयेत् ।

अङ्गैः प्रथमा वृत्तिः ।

पद्मादिभिर्द्वितीया ।

सोकेशैस्तृतीया ।

तदायुधैस्तुरीया

वृत्तिर्भवति ।

श्रीसूक्तैरावाहनादि ।

षोडशसहस्रजपः ।

(एकाक्षरीमन्त्रस्य ऋष्यादि)

सौभाग्यरमैकाक्षर्या भृगुनिचृद्गायत्री ।

श्रिय ऋष्यादयः ।

शमिति बीजशक्तिः ।

श्रीमित्यादि षडङ्गम् ।

भूयाद्भूयो

द्विपद्माभयवरदकरा तप्तकार्तस्वराभा शुभ्राभ्राभेभयुग्म-

द्वयकरधृतकुम्भाद्भिरासिच्यमाना ।

रक्तौघाबद्धमौलि-

र्विमलतरदुकूलार्तवालेपनाढ्या पद्माक्षी पद्मनाभोरसि

कृतवसतिः पद्मगा श्रीः श्रियै नः

Saubhagya Lakshmi Upanishad

Complete Upanishad, Verse 3

(एकाक्षरीचक्रम्)

तत्पीठम् ।

अष्टपत्रं वृत्तत्रयं द्वादशराशिखण्डं

चतुरस्रं रमापीठं भवति ।

कर्णिकायां ससाध्यं श्रीबीजम् ।

विभूतिरुन्नतिः कान्तिः सृष्टिः कीर्तिः सन्नतिर्व्युष्टिः

सत्कृष्टिरृद्धिरिति प्रणवादिनमो तैश्चतुर्थ्यन्तैर्नवशक्तिं

यजेत् ।

अङ्गे प्रथमा वृतिः ।

वासुदेवाभिर्द्वितीया ।

बालाक्यादिभिस्तृतीया ।

इन्द्रादिभिश्चतुर्थी भवति ।

द्वादशलक्षजपः ।

(लक्ष्मीमन्त्रविशेषाः)

श्रीलक्ष्मीर्वरदा विष्णुपत्नी

वसुप्रदा हिरण्यरूपा

स्वर्णमालिनी रजतस्रजा स्वर्णप्रभा स्वर्णप्राकारा

पद्मवासिनी पद्महस्ता

पद्मप्रिया मुक्तालङ्कारा चन्द्रसूर्या बिल्वप्रिया ईश्वरी

भुक्तिर्मुक्तिर्विभूतिरृद्धिः समृद्धिः कृष्टिः

पुष्टिर्धनदा धनेश्वरी

श्रद्धा भोगिनी भोगदा सावित्री धात्री

विधात्रीत्यादिप्रणवादिनमोन्ताश्चतुर्थ्यन्ता

मन्त्राः ।

एकाक्षरवदङ्गादिपीठम् ।

लक्षजपः ।

दशांशं तर्पणम् ।

दशांशं हवनम् ।

द्विजतृप्तिः ।

निष्कामानामेव

श्रीविद्यासिद्धिः ।

न कदापि सकामानामिति

Saubhagya Lakshmi Upanishad

Complete Upanishad, Verse 4

द्वितीयः खण्डः

(उत्तमाधिकारिणां ज्ञानयोगः)

अथ हैनं देवा ऊचुस्तुरीयया मायया निर्दिष्टं

तत्त्वं ब्रूहीति ।

तथेति स होवाच ।

योगेन योगो ज्ञातव्यो योगो योगात्प्रवर्धते ।

योऽप्रमत्तस्तु योगेन स योगी रमते चिरम्

Saubhagya Lakshmi Upanishad

Complete Upanishad, Verse 5

समापय्य निद्रां सिजीर्णेऽल्पभोजी

श्रमत्याज्यबाधे विविक्ते प्रदेशे ।

सदा शीतनिस्तृष्ण एष प्रयत्नोऽथ

वा प्राणरोधो निजाभ्यासमार्गात्

Saubhagya Lakshmi Upanishad

Complete Upanishad, Verse 6

वक्त्रेणापूर्य वायुं हुतवलनिलयेऽपानमाकृष्य धृत्वा

स्वाङ्गुष्ठाद्यङ्गुलीभिर्वरकरतलयोः षड्भिरेवं निरुध्य ।

श्रोत्रे नेत्रे च नासापुटयुगलमतोऽनेन मार्गेण सम्यक्-

पश्यन्ति प्रत्ययाशं प्रणवबहुविधध्यानसंलीनचित्ताः

Saubhagya Lakshmi Upanishad

Complete Upanishad, Verse 7

(नादाविर्भावपूर्वको ग्रन्थित्रयभेदः)

श्रवणमुखनयननासानिरोधनेनैव कर्तव्यम् ।

शुद्धसुषुम्नासरणौ स्फुटममलं श्रूयते नादः

Saubhagya Lakshmi Upanishad

Complete Upanishad, Verse 8

विचित्रघोषसंयुक्तानाहते श्रूयते ध्वनिः ।

दिव्यदेहश्च तेजस्वी दिव्यगन्धोऽप्यरोगवान्

Saubhagya Lakshmi Upanishad

Complete Upanishad, Verse 9

सम्पूर्णहृदयः शून्ये त्वारम्भे योगवान्भवेत् ।

द्वितीया विघटीकृत्य वायुर्भवति मध्यगः

Saubhagya Lakshmi Upanishad

Complete Upanishad, Verse 10

दृढासनो भवेद्योगी पद्माद्यासनसंस्थितः ।

विष्णुग्रन्थेस्ततो भेदात्परमानन्दसम्भवः

Saubhagya Lakshmi Upanishad

Complete Upanishad, Verse 11

अतिशून्यो विमर्दश्च भेरीशब्दस्ततो भवेत् ।

तृतीयां यत्नतो भित्त्वा निनादो मर्दलध्वनिः

Saubhagya Lakshmi Upanishad

Complete Upanishad, Verse 12

(अखण्डब्रह्माकारवृत्तिः)

महाशून्यं ततो याति सर्वसिद्धिसमाश्रयम् ।

चित्तानन्दं ततो भित्त्वा सर्वपीठगतानिलः

Saubhagya Lakshmi Upanishad

Complete Upanishad, Verse 13

निष्पत्तौ वैष्णवः शब्दः क्वणतीति क्वणो भवेत् ।

एकीभूतं तदा चित्तं सनकादिमुनीडितम्

Saubhagya Lakshmi Upanishad

Complete Upanishad, Verse 14

अन्तेऽनन्तं समारोप्य खण्डेऽखण्डं समर्पयन् ।

भूमानं प्रकृतिं ध्यात्वा कृतकृत्योऽमृतो भवेत्

Saubhagya Lakshmi Upanishad

Complete Upanishad, Verse 15

(निर्विकल्पभावः)

योगेन योगं संरोध्य भावं भावेन चाञ्जसा ।

निर्विकल्पं परं तत्त्वं सदा भूत्वा परं भवेत्

Saubhagya Lakshmi Upanishad

Complete Upanishad, Verse 16

अहंभावं परित्यज्य जगद्भावमनीदृशम् ।

निर्विकल्पे स्थितो विद्वान्भूयो नाप्यनुशोचति

Saubhagya Lakshmi Upanishad

Complete Upanishad, Verse 17

सलिले सैन्धावं यद्वत्साम्यं भवति योगतः ।

तथात्ममनसौरेक्यं समाधिरभिधीयते

Saubhagya Lakshmi Upanishad

Complete Upanishad, Verse 18

यदा संक्षीयते प्राणो मानसं च प्रलीयते ।

तदा समरसत्वं यत्समाधिरभिधीयते

Saubhagya Lakshmi Upanishad

Complete Upanishad, Verse 19

यत्समत्वं तयोरत्र जीवात्मपरमात्मनोः ।

समस्तनष्टसङ्कल्पः समाधिरभिधीयते

Saubhagya Lakshmi Upanishad

Complete Upanishad, Verse 20

प्रभाशून्यं मनःशून्यं बुद्धिशून्यं निरामयम् ।

सर्वशून्यं निराभासं समाधिरभिधीयते

Saubhagya Lakshmi Upanishad

Complete Upanishad, Verse 21

तृतीय खण्डः

(आधारचकम्)

स्वयमुच्चलिते देहे देही नित्यसमाधिना ।

निश्चलं तं विजानीयात्समाधिरभिधीयते

Saubhagya Lakshmi Upanishad

Complete Upanishad, Verse 22

यत्रयत्र मनो याति तत्रतत्र परं पदम् ।

तत्रतत्र परं ब्रह्म सर्वत्र समवस्थितम्

Saubhagya Lakshmi Upanishad

Complete Upanishad, Verse 23

इति ॥