Sarva Sara Upanishad

Complete Upanishad

Containing 5 sacred Sanskrit shlokas with multi-author commentaries and translations.

Sarva Sara Upanishad

Complete Upanishad, Verse 1

सर्वसारोपनिषत्

समस्तवेदान्तसारसिद्धान्तार्थकलेवरम् ।

विकलेवरकैवल्यं रामचन्द्रपदं भजे ॥

सर्वसारं निरालम्बं रहस्यं वज्रसूचिकम् ।

तेजोनादध्यानविद्यायोगतत्त्वात्मबोधकम् ॥

ॐ सह नाववतु ॥

सह नौ भुनक्तु ॥

सह वीर्यं करवावहै ॥

तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

कथं बन्धः कथं मोक्षः का विद्या काऽविद्येति ।

जाग्रत्स्वप्नसुषुप्तितुरीयं च कथम् ।

अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमयकोशाः कथम् ।

कर्ता जीवः पञ्चवर्गः क्षेत्रज्ञः साक्षी कूटस्थोऽन्तर्यामी कथम् ।

प्रत्यगात्मा परात्मा माया चेति कथम् ।

आत्मेश्वरजीवः अनात्मनां देहादीनामात्मत्वेनाभिमन्यते

सोऽभिमान आत्मनो बन्धः ।

तन्निवृत्तिर्मोक्षः ।

या तदभिमानं कारयति सा अविद्या ।

सोऽभिमानो यया

निवर्तते सा विद्या ।

मन आदिचतुर्दशकरणैः

पुष्कलैरादित्याद्यनुगृहीतैः शब्दादीन्विषयान्-

स्थूलान्यदोपलभते तदात्मनो जागरणम् ।

तद्वासनासहितैश्चतुर्दशकरणैः शब्दाद्यभावेऽपि

वासनामयाञ्छब्दादीन्यदोपलभते तदात्मनः स्वप्नम् ।

चतुर्दशकरणो परमाद्विशेषविज्ञानाभावाद्यदा

शब्दादीन्नोपलभते तदात्मनः सुषुप्तम् ।

अवस्थात्रयभावाभावसाक्षी स्वयंभावरहितं

नैरन्तर्यं चैतन्यं यदा तदा तुरीयं चैतन्यमित्युच्यते ।

अन्नकार्याणां कोशानां समूहोऽन्नमयः कोश उच्यते ।

प्राणादिचतुर्दशवायुभेदा अन्नमयकोशे यदा वर्तन्ते

तदा प्राणमयः कोश इत्युच्यते ।

एतत्कोशद्वयसंसक्तं मन आदि चतुर्दशकरणैरात्मा

शब्दादिविषयसङ्कल्पादीन्धर्मान्यदा करोति तदा मनोमयः

कोश इत्युच्यते ।

एतत्कोशत्रयसंसक्तं तद्गतविशेषज्ञो

यदा भासते तदा विज्ञानमयः कोश इत्युच्यते ।

एतत्कोशचतुष्टयं संसक्तं स्वकारणाज्ञाने

वटकणिकायामिव वृक्षो यदा वर्तते तदानन्दमयः कोश

इत्युच्यते ।

सुखदुःखबुद्ध्या श्रेयोऽन्तः कर्ता यदा तदा

इष्टविषये बुद्धिः सुखबुद्धिरनिष्टविषये बुद्धिर्दुःखबुद्धिः ।

शब्दस्पर्शरूपरसगन्धाः सुखदुःखहेतवः ।

पुण्यपापकर्मानुसारी भूत्वा प्राप्तशरीरसंयोग-

मप्राप्तशरीरसंयोगमिव कुर्वाणो यदा दृश्यते

तदोपहितजीव इत्युच्यते ।

मन आदिश्च

प्राणादिश्चेच्छादिश्च सत्त्वादिश्च पुण्यादिश्चैते

पञ्चवर्गा इत्येतेषां पञ्चवर्गाणां धर्मीभूतात्मा

ज्ञानादृते न विनश्यत्यात्मसन्निधौ नित्यत्वेन

प्रतीयमान आत्मोपाधिर्यस्तल्लिङ्गशरीरं

हृद्ग्रन्थिरित्युच्यते तत्र यत्प्रकाशते चैतन्यं स

क्षेत्रज्ञ इत्युच्यते ।

ज्ञातृज्ञानज्ञेयानामाविर्भाव-

तिरोभावज्ञाता स्वयमाविर्भावतिरोभावरहितः

स्वयंज्योतिः साक्षीत्युच्यते ।

ब्रह्मादिपिपीलिकापर्यन्तं सर्वप्राणिबुद्धिष्ववशिष्टत-

योपलभ्यमानः सर्वप्राणिबुद्धिस्थो यदा तदा कूटस्थ

इत्युच्यते ।

कूटस्थोपहितभेदानां स्वरूपलाभहेतुर्भूत्वा

मणिगणे सूत्रमिव सर्वक्षेत्रेष्वनुस्यूतत्वेन यदा काश्यते

आत्मा तदान्तर्यामीत्युच्यते ।

सत्यं ज्ञानमनन्तं ब्रह्म ।

सत्यमविनाशि ।

अविनाशि

नाम देशकालवस्तुनिमित्तेषु विनश्यत्सु यन्न विनश्यति

तदविनाशि ।

ज्ञानं नामोत्पत्तिविनाशरहितं नैरन्तर्यं

चैतन्यं ज्ञानमुच्यते ।

अनन्तं नाम मृद्विकारेषु

मृदिव स्वर्णविकारेषु स्वर्णमिव तन्तुविकारेषु

तन्तुरिवाव्यक्तादिसृष्टिप्रपञ्चेषु पूर्णं व्यापकं

चैतन्यमनन्तमित्युच्यते ।

आनन्दं नाम सुखचैतन्यस्वरूपोऽपरिमितानन्द-

समुद्रोऽवशिष्टसुखस्वरूपश्चानन्द इत्युच्यते ।

एतद्वस्तुचतुष्टयं यस्य लक्षणं देशकाल-

वस्तुनिमित्तेश्वव्यभिचारी तत्पदार्थः परमात्मेत्युच्यते ।

त्वंपदार्थादौपाधिकात्तत्पदार्थादौपाधिक-

भेदाद्विलक्षणमाकाशवत्सूक्ष्मं केवलसत्ता-

मात्रस्वभावं परं ब्रह्मेत्युच्यते ।

माया नाम

अनादिरन्तवती प्रमाणाप्रमाणसाधारणा न सती

नासती न सदसती स्वयमधिका विकाररहिता निरूप्यमाणा

सतीतरलक्षणशून्या सा मायेत्युच्यते ।

अज्ञानं

तुच्छाप्यसती कालत्रयेऽपि पामराणां वास्तवी च

सत्त्वबुद्धिर्लौकिकानामिदमित्थमित्यनिर्वचनीया वक्तुं न शक्यते ।

नाहं भवाम्यहं देवो नेन्द्रियाणि दशैव तु ।

न बुद्धिर्न मनः शश्वन्नाहङ्कारस्तथैव च

Sarva Sara Upanishad

Complete Upanishad, Verse 2

अप्राणो ह्यमनाः शुभ्रो बुद्ध्यादीनां हि सर्वदा ।

साक्ष्यहं सर्वदा नित्यश्चिन्मात्रोऽहं न संशयः

Sarva Sara Upanishad

Complete Upanishad, Verse 3

नाहं कर्ता नैव भोक्ता प्रकृतेः साक्षिरूपकः ।

मत्सान्निध्यात्प्रवर्तन्ते देहाद्या अजडा इव

Sarva Sara Upanishad

Complete Upanishad, Verse 4

स्थाणुर्नित्यः सदानन्दः शुद्धो ज्ञानमयोऽमलः ।

आत्माहं सर्वभूतानां विभुः साक्षी न संशयः

Sarva Sara Upanishad

Complete Upanishad, Verse 5

ब्रह्मैवाहं सर्ववेदान्तवेद्यं

नाहं वेद्यं व्योमवातादिरूपम् ।

रूपं नाहं नाम नाहं न कर्म

ब्रह्मैवाहं सच्चिदानन्दरूपम्