Complete Upanishad, Verse 1
शारीरकोपनिषत्
तत्त्वग्रामोपायसिद्धं परतत्त्वस्वरूपकम् ।
शारीरोपनिषद्वेद्यं श्रीरामब्रह्म मे गतिः ॥
ॐ सह नाववतु ।
सह नौ भुनक्तु ।
सह वीर्यं करवावहै ।
तेजस्वि नावधीतमस्तु ।
मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ अथातः पृथिव्यादिमहाभूतानां समवायं शरीरम् ।
यत्कठिनं सा पृथिवी यद्द्रवं तदापो यदुष्णं तत्तेजो यत्संचरति
स वायुर्यत्सुषिअरं तदाकाशम्
श्रोत्रादीनि ज्ञानेन्द्रियाणि ।
श्रोत्रमाकाशे वायौ त्वगग्नौ चक्षुरप्सु
जिह्वा पृथिव्यां घ्राणमिति ।
एवमिन्द्रियाणां यथाक्रमेण शब्दस्पर्शरूपरसगन्धाश्चैते
विषयाः पृथिव्यादिमहाभूतेषु क्रमेणोत्पन्नाः ।
वाक्पाणिपादपायूपस्थाख्यानि कर्मेन्द्रियाणि ।
तेषां क्रमेण वचनादानगमनविसर्गानन्दश्चैते विषयाः
पृथिव्यादिमहाभूतेषु क्रमेणोत्पनाः ।
मनोबुद्धिरहङ्कारश्चित्तमत्यन्तःकरणचतुष्टयम् ।
तेषां क्रमेण सङ्कल्पविकल्पाध्यवसायाभिमानावधारणास्वरूपश्चैते
विषयाः ।
मनःस्थानं गलान्तं बुद्धेर्वदनमहङ्कारस्य हृदयं चित्तस्य नाभिरिति ।
अस्थिचर्मनाडीरोममांसाश्चेति पृथिव्यंशाः ।
मूत्रश्लेष्मरक्तशुक्रस्वेदा अबंशाः ।
क्षुत्तृष्णालस्यमोहमैथुनान्यग्नेः ।
प्रचारणविलेखनस्थूलाक्ष्युन्मेषनिमेषादि वायोः ।
कामक्रोधलोभमोहभयान्याकाशस्य ।
शब्दस्पर्शरूपरसगन्धाः पृथिवीगुणाः ।
शब्दस्पर्शरूपरसाश्चापां गुणाः ।
शब्दस्पर्शरूपाण्यग्निगुणाः ।
शब्दस्पर्षाविति वायुगुणौ ।
शब्द एक आकाशस्य ।
सात्त्विकराजसतामसलक्षणानि त्रयो गुणाः ॥
अहिंसा सत्यमस्तेयब्रह्मचर्यापरिग्रहाः ।
अक्रोधो गुरुशुश्रुषा शौचं सन्तोष आर्जवम्