Complete Upanishad, Verse 1
श्रीसरस्वतीरहस्योपनिषत्
प्रतियोगिविनिर्मुक्तब्रह्मविद्यैकगोचरम् ।
अखण्डनिर्विकल्पं तद्रामचन्द्रपदं भजे ॥
ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठित-
माविरावीर्म एधि ॥
वेदस्य म आणीस्थः श्रुतं मे
प्रहासीरनेनाधीतेनाहोरात्रान्सन्दधामि ऋतं वदिष्यामि
सत्यं वदिष्यामि तन्मामवतु अवतु मामवतु वक्तार-
मवतु वक्तारम् ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
हरिः ॐ ॥
ऋषयो ह वै भगवन्तमाश्वलायनं सम्पूज्य
पप्रच्छुः केनोपायेन तज्ज्ञानं तत्पदार्थावभासकम् ।
यदुपासनया तत्त्वं जानासि भगवन्वद