Sarabha Upanishad

Complete Upanishad

Containing 35 sacred Sanskrit shlokas with multi-author commentaries and translations.

Sarabha Upanishad

Complete Upanishad, Verse 1

शरभोपनिषत्

सर्वं सन्त्यज्य मुनयो यद्भजन्त्यात्मरूपतः ।

तच्छारभं त्रिपाद्ब्रह्म स्वमात्रमवशिष्यते ॥

ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः ।

भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः ।

व्यशेम देवहितं यदायुः ।

स्वस्ति न इन्द्रो वृद्धश्रवाः ।

स्वस्ति नः पूषा विश्वदेवाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।

स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

अथ हैनं पैप्पलादो ब्रह्माणमुवाच भो भगवन्

ब्रह्मविष्णुरुद्राणां मध्ये को वा अधिकतरो ध्येयः

स्यात्तत्त्वमेव नो ब्रूहीति ।

तस्मै स होवाच पितामहश्च

हे पैप्पलाद श‍ृणु वाक्यमेतत् ।

बहूनि पुण्यानि कृतानि येन

तेनैव लभ्यः परमेश्वरोऽसौ ।

यस्याङ्गजोऽहं हरिरिन्द्रमुख्या

मोहान्न जानन्ति सुरेन्द्रमुख्याः

Sarabha Upanishad

Complete Upanishad, Verse 2

प्रभुं वरेण्यं पितरं महेशं

यो ब्रह्माणं विदधाति तस्मै ।

वेदांश्च सर्वान्प्रहिणोति चाग्र्यं

तं वै प्रभुं पितरं देवतानाम्

Sarabha Upanishad

Complete Upanishad, Verse 3

ममापि विष्णोर्जनकं देवमीड्यं

योऽन्तकाले सर्वलोकान्संजहार

Sarabha Upanishad

Complete Upanishad, Verse 4

स एकः श्रेष्ठश्च सर्वशास्ता स एव वरिष्ठश्च ।

यो घोरं वेषमास्थाय शरभाख्यं महेश्वरः ।

नृसिंहं लोकहन्तारं संजघान महाबलः

Sarabha Upanishad

Complete Upanishad, Verse 5

हरिं हरन्तं पादाभ्यामनुयान्ति सुरेश्वराः ।

मावधीः पुरुषं विष्णुं विक्रमस्व महानसि

Sarabha Upanishad

Complete Upanishad, Verse 6

कृपया भगवान्विष्णुं विददार नखैः खरैः ।

चर्माम्बरो महावीरो वीरभद्रो बभूव ह

Sarabha Upanishad

Complete Upanishad, Verse 7

स एको रुद्रो ध्येयः सर्वेषां सर्वसिद्धये ।

यो ब्रह्मणः पञ्चवक्रहन्ता

तस्मै रुद्राय नमो अस्तु

Sarabha Upanishad

Complete Upanishad, Verse 8

यो विस्फुलिङ्गेन ललाटजेन सर्वं जगद्भस्मसात्संकरोति ।

पुनश्च सृष्ट्वा पुनरप्यरक्षदेवं स्वतन्त्रं प्रकटीकरोति ।

तस्मै रुद्राय नमो अस्तु

Sarabha Upanishad

Complete Upanishad, Verse 9

यो वामपादेन जघान कालं घोरं पपेऽथो हालहलं दहन्तम् ।

तस्मै रुद्राय नमो अस्तु

Sarabha Upanishad

Complete Upanishad, Verse 10

यो वामपादार्चितविष्णुनेत्रस्तस्मै ददौ चक्रमतीव हृष्टः ।

तस्मै रुद्राय नमो अस्तु

Sarabha Upanishad

Complete Upanishad, Verse 11

यो दक्षयज्ञे सुरसङ्घान्विजित्य

विष्णुं बबन्धोरगपाशेन वीरः ।

तस्मै रुद्राय नमो अस्तु

Sarabha Upanishad

Complete Upanishad, Verse 12

यो लीलयैव त्रिपुरं ददाह

विष्णुं कविं सोमसूर्याग्निनेत्रः ।

सर्वे देवाः पशुतामवापुः

स्वयं तस्मात्पशुपतिर्बभूव ।

तस्मै रुद्राय नमो अस्तु

Sarabha Upanishad

Complete Upanishad, Verse 13

यो मत्स्यकूर्मादिवराहसिंहा-

न्विष्णुं क्रमन्तं वामनमादिविष्णुम् ।

विविक्लवं पीड्यमानं सुरेशं

भस्मीचकार मन्मथं यमं च ।

तस्मै रुद्राय नमो अस्तु

Sarabha Upanishad

Complete Upanishad, Verse 14

एवं प्रकारेण बहुधा प्रतुष्ट्वा

क्षमापयामासुर्नीलकण्ठं महेश्वरम् ।

तापत्रयसमुद्भूतजन्ममृत्युजरादिभिः ।

नाविधानि दुःखानि जहार परमेश्वरः

Sarabha Upanishad

Complete Upanishad, Verse 15

एवं मन्त्रैः प्रार्थ्यमान आत्मा वै सर्वदेहिनाम् ।

शङ्करो भगवानाद्यो ररक्ष सकलाः प्रजाः

Sarabha Upanishad

Complete Upanishad, Verse 16

यत्पादाम्भोरुहद्वन्द्वं मृग्यते विष्णुना सह ।

स्तुत्वा स्तुत्यं महेशानमवाङ्मनसगोचरम्

Sarabha Upanishad

Complete Upanishad, Verse 17

भक्त्या नम्रतनोर्विष्णोः प्रसादमकरोद्विभुः ।

यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।

आनन्दं ब्रह्मणो विद्वान्न बिभेति कदाचनेति

Sarabha Upanishad

Complete Upanishad, Verse 18

अणोरणीयान्महतो महीया-

नात्मास्यजन्तोर्निहितो गुहायाम् ।

तमक्रतुं पश्यति वीतशोको

धातुःप्रसादान्महिमानमीशम्

Sarabha Upanishad

Complete Upanishad, Verse 19

वसिष्ठवैयासकिवामदेव-

विरिञ्चिमुख्यैर्हृदि भाव्यमानः ।

सनत्सुजातादिसनातनाद्यै-

रीड्यो महेशो भगवानादिदेवः

Sarabha Upanishad

Complete Upanishad, Verse 20

सत्यो नित्यः सर्वसाक्षी महेशो

नित्यानन्दो निर्विकल्पो निराख्यः ।

अचिन्त्यशक्तिर्भगवान्गिरीशः

स्वाविद्यया कल्पितमानभूमिः

Sarabha Upanishad

Complete Upanishad, Verse 21

अतिमोहकरी माया मम विष्णोश्च सुव्रत ।

तस्य पादाम्बुजध्यानाद्दुस्तरा सुतरा भवेत्

Sarabha Upanishad

Complete Upanishad, Verse 22

विष्णुर्विश्वजगद्योनिः स्वांशभूतैः स्वकैः सह ।

ममांशसंभवो भूत्वा पालयत्यखिलं जगत्

Sarabha Upanishad

Complete Upanishad, Verse 23

विनाशं कालतो याति ततोऽन्यत्सकलं मृषा ।

ॐ तस्मै महाग्रासाय महादेवाय शूलिने ।

महेश्वराय मृडाय तस्मै रुद्राय नमो अस्तु

Sarabha Upanishad

Complete Upanishad, Verse 24

एको विष्णुर्महद्भूतं पृथग्भूतायनेकशः ।

त्रींल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः

Sarabha Upanishad

Complete Upanishad, Verse 25

चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चमिरेव च ।

हूयते च पुनर्द्वाभ्यां स मे विष्णुः प्रसीदतु

Sarabha Upanishad

Complete Upanishad, Verse 26

ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।

ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना

Sarabha Upanishad

Complete Upanishad, Verse 27

शरा जीवास्तदङ्गेषु भाति नित्यं हरिः स्वयम् ।

ब्रह्मैव शरभः साक्षान्मोक्षदोऽयं महामुने

Sarabha Upanishad

Complete Upanishad, Verse 28

मायावशादेव देवा मोहिता ममतादिभिः ।

तस्य माहात्म्यलेशांशं वक्तुं केनाप्य शक्यते

Sarabha Upanishad

Complete Upanishad, Verse 29

परात्परतरं ब्रह्म यत्परात्परतो हरिः ।

परात्परतरो हीशस्तस्मात्तुल्योऽधिको न हि

Sarabha Upanishad

Complete Upanishad, Verse 30

एक एव शिवो नित्यस्ततोऽन्यत्सकलं मृषा ।

तस्मात्सर्वान्परित्यज्य ध्येयान्विष्ण्वादिकान्सुरान्