Complete Upanishad, Verse 1
संन्यासोपनिषत्
संन्यासोपनिषद्वेद्यं संन्यासिपटलाश्रयम् ।
सत्तासामान्यविभवं स्वमात्रमिति भावये ॥
ॐ आप्यायन्तु मामाङ्गानि वाक्प्राणश्चक्षुः
श्रोत्रमथो बलमिन्द्रियाणि च ॥
सर्वाणि सर्वं ब्रह्मोपनिषदं
माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरण-
मयि सन्तु ते मयि सन्तु ।
ॐ शान्तिः शान्तिः शान्तिः ॥
हरिः ॐ अथातः संन्यासोपनिषदं व्याख्यास्यामो
योऽनुक्रमेण संन्यस्यति स संन्यस्तो भवति ।
कोऽयं संन्यास
उच्यते कथं संन्यस्तो भवति ।
य आत्मानं क्रियाभिर्गुप्तं करोति
मातरं पितरं भार्यां पुत्रान्बन्धूननुमोदयित्वा ये
चास्यर्त्विजस्तान्सर्वांश्च पूर्ववत्प्राणित्वा वैश्वानरेष्टिं
निर्वपेत्सर्वस्वं दद्याद्यजमानस्य गा ऋत्विजः सर्वैः पात्रैः
समारोप्य यदाहवनीये गार्हपत्ये वान्वहार्यपचने
सभ्यावसथ्योश्च प्राणापानव्यानोदानसमानान्सर्वान्सर्वेषु
समारोपयेत् ।
सशिखान्केशान्विसृज्य यज्ञोपवीतं छित्त्वा पुत्रं
दृष्ट्वा त्वं यज्ञस्त्वं सर्वमित्यनुमन्त्रयेत् ।
यद्यपुत्रो भवत्यात्मानमेवेमं ध्यात्वाऽनवेक्षमाणः
प्राचीमुदीचिं वा दिशं प्रव्रजेच्च ।
त्रिषु वर्णेषु
भिक्षाचर्यं चरेत् ।
पाणिपात्रेणानाशनं कुर्यात् ।
औषधवदहनमाचरेत् ।
औषधवदशनं प्राश्नीयात् ।
यथालाभमश्नीयात्प्राणसन्धारणार्थं यथा मेदोवृद्धिर्न
जायते ।
कृशो भूत्वा ग्राम एकरात्रं नगरे पञ्चरात्रं
चतुरोमासान्वार्षिकान्ग्रामे वा नगरे वापि वसेत् ।
विशीर्णवस्त्रं वल्कलं वा प्रतिगृह्णीयानान्यत्प्रतिगृह्णीयाद्यद्यशक्तो
भवति क्लेशतस्तप्यते तप इति ।
यो वा एवं क्रमेण संन्यस्यति यो वा
एवं पश्यति किमस्य यज्ञोपवीतं कास्य शिखा कथं वास्योपस्पर्शनमिति ।
तं होवाचेदमेवास्य तद्यज्ञोपवीतं यदात्मध्यानं विद्या शिखा
नीरैः सर्वत्रावस्थितैः कार्यं निर्वर्तयन्नुदरपात्रेण जलतीरे निकेतनम् ।
ब्रह्मवादिनो वदन्त्यस्तमित आदित्ये कथं वास्योपस्पर्शनमिति ।
तान्होवाच यथाहनि तथा रात्रौ नास्य नक्तं न दिवा तदप्येतदृषिणोक्तम् ।
संकृद्दिवा हैवास्मै भवति य एवंविद्वानेतेनात्मानं संधत्ते ॥
इति प्रथमोऽध्यायः