अथ हैनमथर्वाणं शाण्डिल्यः पप्रच्छ केनोपायेन
नाड्यः शुद्धाः स्युः ।
नाड्यः कतिसंख्याकाः ।
तासामुत्पत्तिः कीदृशी ।
तासु कति वयवस्तिष्ठन्ति ।
तेषां कानि स्थानानि ।
तत्कर्माणि कानि ।
देहे यानि यानि विज्ञातव्यानि तत्सर्वं मे ब्रूहीति ।
स होवाच अथर्वाण अथेदं शरीरं षण्णवत्यङ्गुलात्मकं
भवति ।
शरीरात्प्राणो द्वादशाङ्गुलाधिको भवति ।
शरीरस्थं प्राणमग्निना सह योगाभ्यासेन समं न्यूनं वा
यः करोति स योगिपुङ्गवो भवति ।
देहमध्ये शिखिस्थानं
त्रिकोणं तप्तजाम्बूनदप्रभं मनुष्याणाम् ।
चतुष्पदां चतुरस्रम् ।
विहङ्गानां वृत्ताकारम् ।
तन्मध्ये शुभा तन्वी पावकी शिखा तिष्ठति ।
गुदाद्व्यङ्गुलादूर्ध्वं मेढ्राद्व्यङ्गुलादधो देहमध्यं
मनुष्याणां भवति ।
चतुष्पदां हृन्मध्यम् ।
विहङ्गानां तुङ्गमध्यम् ।
देहमध्यं नवाङ्गुलं
चतुरङ्गुलमुत्सेधायतमण्डाकृति ।
तन्मध्ये नाभिः ।
तत्र द्वादशारयुतं चक्रम् ।
तच्चक्रमध्ये
पुण्यपापप्रचोदितो जीवो भ्रमति ।
तन्तुपञ्जरमध्यस्थलूतिका
यथा भ्रमति तथा चासौ तत्र प्राणश्चरति ।
देहेऽस्मिञ्जीवः
प्राणारूढो भवेत् ।
नाभेस्तिर्यगधऊर्ध्वं कुण्डलिनीस्थानम् ।
अष्टप्रकृतिरूपाष्टधा कुण्डलीकृता कुण्डलिनी शक्तिर्भवति ।
यथावद्वायुसंचारं जलान्नादीनि परितः स्कन्धः पार्श्वेषु
निरुध्यैनं मुखेनैव समावेष्ट्य ब्रह्मरन्ध्रं योगकाले
चापानेनाग्निना च स्फुरति ।
हृदयाकाशे महोज्ज्वला
ज्ञानरूपा भवति ।
मध्यस्थकुण्डलिनीमाश्रित्य
मुख्या नाड्यश्चतुर्दश भवन्ति ।
तत्र सुषुम्ना
विश्वधारिणी मोक्षमार्गेति चाचक्षते ।
गुदस्य पृष्ठभागे वीणादण्डाश्रिता मूर्धपर्यन्तं
ब्रह्मरन्ध्रे विज्ञेया व्यक्ता सूक्ष्मा वैष्णवी भवति ।
सुषुम्नायाः सव्यभागे इडा तिष्ठति ।
दक्षिणभागे
पिङ्गला इडायां चन्द्रश्चरति ।
पिङ्गलायां रविः ।
तमोरूपश्चन्द्रः ।
रजोरूपो रविः ।
विषभागो रविः ।
अमृतभागश्चन्द्रमाः ।
तावेव सर्वकालं धत्ते ।
सुषुम्ना कालभोक्त्री भवति ।
सुषुम्ना पृष्ठपार्श्वयोः
सरस्वतीकुहू भवतः ।
यशस्विनीकुहूमध्ये वारुणी प्रतिष्ठिता
भवति ।
पूषासरस्वतीमध्ये पयस्विनी भवति ।
गान्धारी-
सरस्वतिमध्ये यशस्विनी भवति ।
कन्दमयेऽलम्बुसा भवति ।
सुषुम्नापूर्वभागे मेढ्रान्तं कुहूर्भवति ।
कुण्डलिन्या
अधश्चोर्ध्वं वारुणी सर्वगामिनी भवति ।
यशस्विनी सौम्या च
पादाङ्गुष्ठान्तमिष्यते ।
पिङ्गला चोर्ध्वगा याम्यनासान्तं
भवति ।
पिङ्गलायाः पृष्ठतो याम्यनेत्रानतं पूषा भवति ।
याम्यकर्णान्तं यशस्विनी भवति ।
जिह्वाया ऊर्ध्वानतं सरस्वती भवति ।
आसव्यकर्णान्तमूर्ध्वगा शङ्खिनी भवति ।
इडापृष्ठभागा-
त्सव्यनेत्रान्तगा गान्धारी भवति ।
पायुमूलादधोर्ध्वगालम्बुसा
भवति ।
एताश्च चतुर्दशसु नाडीष्वन्या नाड्यः संभवन्ति ।
तास्वन्यास्तास्वन्या भवन्तीति विज्ञेयाः ॥
यथाश्वत्थादिपत्रं शिराभिर्व्याप्तमेवं शरीरं नाडीभिर्व्याप्तम् ।
प्राणापानसमानोदानव्याना नागकूर्मकृकरदेवदत्तधनञ्जया
एते दश वायवः सर्वासु नाडीषु चरन्ति ।
आस्यनासिकाकण्ठनाभि-
पादाङ्गुष्ठद्वयकुण्डल्यधश्चोर्ध्वभागेषु प्राणः संचरति ।
श्रोत्राक्षिकटिगुल्फघ्राणगलस्फिग्देशेषु व्यानः संचरति ।
गुदमेढ्रोरुजानूदरवृषणकटिजङ्घानाभिगुदाग्न्यगारेष्वपानः
संचरति ।
सर्वसन्धिस्थ उदानः ।
पादहस्तयोरपि सर्वगात्रेषु सर्वव्यापी
समानः ।
भुक्तान्नरसादिकं गात्रेग्निना सह व्यापयन्द्विसप्ततिसहस्रेषु
नाडीमार्गेषु चरन्समानवायुरग्निना सह साङ्गोपाङ्गकलेवरं
व्याप्नोति ।
नागादिवायवः पञ्चत्वगस्थ्यादिसंभवाः ।
तुन्दस्थं
जलमन्नं च रसादिषु समीरितं तुन्दमध्यगतः प्रागस्तानि पृथक्कुर्यात् ।
अग्नेरुपरि जलं स्थाप्य जलोपर्यन्नादीनि संस्थाप्य स्वयमपानं सम्प्राप्य
तेनैव सह मारुतः प्रयाति देहमध्यगतं ज्वलनम् ।
वायुना पालितो
वह्निरपानेन शनैर्देहमध्ये ज्वलति ।
ज्वलनो ज्वालाभिः प्राणेन कोष्ठमध्यगतं
जलमत्युष्णमकरोत् ।
जलोपरि समर्पितव्यञ्जनसंयुक्तमन्नं वह्निसंयुक्तवारिणा
पक्वमकरोत् ।
तेन स्वेदमूत्रजलरक्तवीर्यरूपरसपुरीषादिकं प्राणः
पृथक्कुर्यात् ।
समानवायुना सह सर्वासु नाडीषु रसं व्यापयञ्छ्वासरूपेण
देहे वायुश्चरति ।
नवभिर्व्योमरन्ध्रैः शरीरस्य वायवः कुर्वन्ति विण्मूत्रादिविसर्जनम् ।
निश्वासोच्छ्वासकासश्च प्राणकर्मोच्यते ।
विण्मूत्रादिविसर्जनमपानवायुकर्म ।
हानोपादानचेष्टादि व्यानकर्म ।
देहस्योन्नयनादिकमुदानकर्म ।
शरीरपोषणादिकं समानकर्म ।
उद्गारादि नागकर्म ।
निमीलनादि कूर्मकर्म ।
क्षुत्करणं कृकरकर्म ।
तन्द्रा देवदत्तकर्म ।
श्लेष्मादि धनञ्जयकर्म ।
एवं नाडीस्थानं वायुस्थानं तत्कर्म च सम्यग्ज्ञात्वा नाडीसंशोधनं कुर्यात्