Rudraksha Jabala Upanishad

Complete Upanishad

Containing 42 sacred Sanskrit shlokas with multi-author commentaries and translations.

Rudraksha Jabala Upanishad

Complete Upanishad, Verse 1

रुद्राक्षजाबालोपनिषत्

रुद्राक्षोपनिषद्वेद्यं महारुद्रतयोज्ज्वलम् ।

प्रतियोगिविनिर्मुक्तशिवमात्रपदं भजे ॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः

श्रोत्रमथो बलमिन्द्रियाणि च ॥

सर्वाणि सर्वं ब्रह्मोपनिषदं

माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणम-

सन्तु ते मयि सन्तु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ ॥

अथ हैनं कालाग्निरुद्रं भुसुण्डः पप्रच्छ कथं

रुद्राक्षोत्पत्तिः ।

तद्धारणात्किं फलमिति ।

तं होवाच

भगवान्कालाग्निरुद्रः ।

त्रिपुरवधार्थमहं निमीलिताक्षोऽभवम् ।

तेभ्यो जलबिन्दवो भूमौ पतितास्ते रुद्राक्षा जाताः ।

सर्वानुग्रहार्थाय तेषां नामोच्चारणमात्रेण

दशगोप्रदानफलं दर्शनस्पर्शनाभ्यां द्विगुणं

फलमत ऊर्ध्वं वक्तुं न शक्नोमि ।

तत्रैते श्लोका भवन्ति ।

कस्मिंस्थितं तु किं नाम कथं वा धार्यते नरैः ।

कतिभेदमुखान्यत्र कैर्मन्त्रैर्धार्यते कथम्

Rudraksha Jabala Upanishad

Complete Upanishad, Verse 2

दिव्यवर्षसहस्राणि चक्षुरुन्मीलितं मया ।

भूमावक्षिपुटाभ्यां तु पतिता जलबिन्दवः

Rudraksha Jabala Upanishad

Complete Upanishad, Verse 3

तत्राश्रुबिन्दवो जाता महारुद्राक्षवृक्षकाः ।

स्थावरत्वमनुप्राप्य भक्तानुग्रहकारणात्

Rudraksha Jabala Upanishad

Complete Upanishad, Verse 4

भक्तानां धारणात्पापं दिवारात्रिकृतं हरेत् ।

लक्षं तु दर्शनात्पुण्यं कोटिस्तद्धारणाद्भवेत्

Rudraksha Jabala Upanishad

Complete Upanishad, Verse 5

तस्य कोटिशतं पुण्यं लभते धारणान्नरः ।

लक्षकोटिसहस्राणि लक्षकोटिशतानि च

Rudraksha Jabala Upanishad

Complete Upanishad, Verse 6

तज्जपाल्लभते पुण्यं नरो रुद्राक्षधारणात् ।

धात्रीफलप्रमाणं यच्छ्रेष्ठमेतदुदाहृतम्

Rudraksha Jabala Upanishad

Complete Upanishad, Verse 7

बदरीफलमात्रं तु मध्यमं प्रोच्यते बुधैः ।

अधमं चणमात्रं स्यात्प्रक्रियैषा मयोच्यते

Rudraksha Jabala Upanishad

Complete Upanishad, Verse 8

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चेति शिवाज्ञया ।

वृथा जाताः पृथिव्यां तु तज्जातीयाः शुभाक्षकाः

Rudraksha Jabala Upanishad

Complete Upanishad, Verse 9

श्वेतास्तु ब्राह्मणा ज्ञेयाः क्षत्रिया रक्तवर्णकाः ।

पीतास्तु वैश्या विज्ञेयाः कृष्णाः शूद्रा उदाहृताः

Rudraksha Jabala Upanishad

Complete Upanishad, Verse 10

ब्राह्मणो बिभृयाच्छ्वेतात्रक्तात्राजा तु धारयेत् ।

पीतान्वैश्यस्तु बिभृयात्कृष्णाञ्छूद्रस्तु धारयेत्

Rudraksha Jabala Upanishad

Complete Upanishad, Verse 11

समाः स्निग्धा दृढाः स्थूलाः कण्टकैः संयुताः शुभाः ।

कृमिदष्टं भिन्नभिन्नं कण्टकैर्हीनमेव च

Rudraksha Jabala Upanishad

Complete Upanishad, Verse 12

व्रणयुक्तमयुक्तं च षड्रुद्राक्षाणि वर्जयेत् ।

स्वयमेव कृतं द्वारं रुद्राक्षं स्यादिहोत्तमम्

Rudraksha Jabala Upanishad

Complete Upanishad, Verse 13

यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत् ।

समान्स्निग्धान्दृढान्स्थूलान्क्षौमसूत्रेण धारयेत्

Rudraksha Jabala Upanishad

Complete Upanishad, Verse 14

सर्वगात्रेण सौम्येन सामान्यानि विचक्षणः ।

निकषे हेमरेखाभा यस्य रेखा प्रदृश्यते

Rudraksha Jabala Upanishad

Complete Upanishad, Verse 15

तदक्षममुत्तमं विद्यात्तद्धार्यं शिवपूजकैः ।

शिखायामेकरुद्राक्षं त्रिशतं शिरसा वहेत्

Rudraksha Jabala Upanishad

Complete Upanishad, Verse 16

षट्त्रिंशतं गले दध्यात्बाहोः षोडशषोडश ।

मणिबन्धे द्वादशैव स्कन्धे पञ्चशतं वहेत्

Rudraksha Jabala Upanishad

Complete Upanishad, Verse 17

अष्टोत्तरशतैर्मालामुपवीतं प्रकल्पयेत् ।

द्विसरं त्रिसरं वापि सराणां पञ्चकं तथा

Rudraksha Jabala Upanishad

Complete Upanishad, Verse 18

सराणां सप्तकं वापि बिभृयात्कण्ठदेशतः ।

मुकुटे कुण्डले चैव कर्णिकाहारकेऽपि वा

Rudraksha Jabala Upanishad

Complete Upanishad, Verse 19

केयूरकटके सूत्रं कुक्षिबन्धे विशेषतः ।

सुप्ते पीते सदाकालं रुद्राक्षं धारयेन्नरः

Rudraksha Jabala Upanishad

Complete Upanishad, Verse 20

त्रिशतं त्वधमं पञ्चशतं मध्यममुच्यते ।

सहस्रमुत्तमं प्रोक्तमेवं भेदेन धारयेत्

Rudraksha Jabala Upanishad

Complete Upanishad, Verse 21

शिरसीशानमन्त्रेण कण्ठे तत्पुरुषेण तु ।

अघोरेण गले धार्यं तेनैव हृदयेऽपि च

Rudraksha Jabala Upanishad

Complete Upanishad, Verse 22

अघोरबीजमन्त्रेण करयोर्धारयेत्सुधीः ।

पञ्चाशदक्षग्रथितान्व्योमव्याप्यपि चोदरे

Rudraksha Jabala Upanishad

Complete Upanishad, Verse 23

पञ्च ब्रह्मभिरङ्गैशच त्रिमाला पञ्च सप्त च ।

ग्रथित्वा मूलमन्त्रेण सर्वाण्यक्षाणि धारयेत्

Rudraksha Jabala Upanishad

Complete Upanishad, Verse 24

अथ हैनं भगवन्तं कालाग्निरुद्रं भुसुन्डः पप्रच्छ

रुद्राक्षाणां भेदेन यदक्षं यत्स्वरूपं यत्फलमिति ।

तत्स्वरूपं मुखयुक्तमरिष्टनिरसनं कामाभीष्टफलं

ब्रूहीति होवाच ।

तत्रैते श्लोका भवन्ति ॥

एकवक्त्रं तु रुद्राक्षं परतत्त्वस्वरूपकम् ।

तद्धारणात्परे तत्त्वे लीयते विजितेन्द्रियः

Rudraksha Jabala Upanishad

Complete Upanishad, Verse 25

द्विवक्त्रं तु मुनिश्रेष्ठ चार्धनारीश्वरात्मकम् ।

धारणादर्धनारीशः प्रीयते तस्य नित्यशः

Rudraksha Jabala Upanishad

Complete Upanishad, Verse 26

त्रिमुखं चैव रुद्राक्षमग्नित्रयस्वरूपकम् ।

तद्धारणाच्च हुतभुक्तस्य तुष्यति नित्यदा

Rudraksha Jabala Upanishad

Complete Upanishad, Verse 27

चतुर्मुखं तु रुद्राक्षं चतुर्वक्त्रस्वरूपकम् ।

तद्धारणाच्चतुर्वक्त्रः प्रीयते तस्य नित्यदा

Rudraksha Jabala Upanishad

Complete Upanishad, Verse 28

पञ्चवक्त्रं तु रुद्राक्षं पञ्चब्रह्मस्वरूपकम् ।

पञ्चवक्त्रः स्वयं ब्रह्म पुंहत्यां च व्यपोहति

Rudraksha Jabala Upanishad

Complete Upanishad, Verse 29

षड्वक्त्रमपि रुद्राक्षं कार्तिकेयाधिदैवतम् ।

तद्धारणान्महाश्रीः स्यान्महदारोग्यमुत्तमम्

Rudraksha Jabala Upanishad

Complete Upanishad, Verse 30

मतिविज्ञानसम्पत्तिशुद्धये धारयेत्सुधीः ।

विनायकाधिदैवं च प्रवदन्ति मनीषिणः