वायुप्त्रेणोक्तास्ते योगीन्द्रा ऋषयो विष्णुभक्ता
हनूमन्तं पप्रच्छुः रामस्याङ्गानि नो ब्रूहीति ।
हनूमान्होवाच ।
वायुपुत्रं विघ्नेशं वाणीं दुर्गां
क्षेत्रपालकं सूर्यं चन्द्रं नारायणं नारसिंहं
वायुदेवं वाराहं तत्सर्वान्त्समात्रान्त्सीतं लक्ष्मणं
शत्रुघ्नं भरतं विभीषणं सुग्रीवमङ्गदं
जाम्बवन्तं प्रणवमेतानि रामस्याङ्गानि जानीथाः ।
तान्यङ्गानि विना रामो विघ्नकरो भवति ।
पुनर्वायुपुत्रेणोक्तास्ते हनूमन्तं पप्रच्छुः ।
आञ्जनेय महाबल विप्राणां गृहस्थानां प्रणवाधिकारः
कथं स्यादिति ।
स होवाच श्रीराम एवोवाचेति ।
येषामेव
षडक्षराधिकारो वर्तते तेषां प्रणवाधिकारः स्यान्नान्येषाम् ।
केवलमकारोकारमकारार्धमात्रासहितं प्रणवमूह्य
यो राममन्त्रं जपति तस्य शुभकरोऽहं स्याम् ।
तस्य
प्रणवस्थाकारस्योकारस्य मकरास्यार्धमात्रायाश्च
ऋषिश्छन्दो देवता तत्तद्वर्णावर्णावस्थानं
स्वरवेदाग्निगुणानुच्चार्यान्वहं प्रणवमन्त्रद्द्विगुणं
जप्त्वा पश्चाद्राममन्त्रं यो जपेत् स रामो भवतीति
रामेणोक्तास्तस्माद्रामाङ्गं प्रणवः कथित इति ॥
विभीषण उवाच ॥
सिंहासने समासीनं रामं पौलस्त्यसूदनम् ।
प्रणम्य दण्डवद्भूमौ पौलस्त्यो वाक्यमब्रवीत् ।
। ७॥
रघुनाथ महाबाहो केवलं कथितं त्वया ।
अङ्गानां सुलभं चैव कथनीयं च सौलभम्