Complete Upanishad, Verse 1
प्राणाग्निहोत्रोपनिषत्
शरीरयज्ञसंशुद्धचित्तसंजातबोधतः ।
मुनयो यत्पदं यान्ति तद्रामपदमाश्रये ॥
ॐ सह नाववतु ॥
सह नौ भुनक्तु ॥
सह वीर्यं
करवावहै ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
हरिः ॐ ॥
अथातः सर्वोपनिषत्सारं संसारज्ञानातीत-
मन्त्रसूक्तं शारीरयज्ञं व्याख्यास्यामः ।
यस्मिन्नेव
पुरुषः शरीरे विनाप्यग्निहोत्रेण विनापि सांख्ययोगेन
संसारविमुक्तिर्भवतीति ।
स्वेन विधिनान्नं भूमौ निक्षिप्य
या ओषधीः सोमराज्ञीरिति तिसृभिरन्नपत इति द्वाभ्या-
मनुमन्त्रयते ।
या ओषधयः सोमराज्ञीर्बह्वीः शतविचक्षणाः ।
बृहस्पतिप्रसूतास्ता नो मुञ्चत्वंहसः