Complete Upanishad, Verse 1
परमहंसोपनिषत्
ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवंसस्तनूभिर्व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।
ॐ शान्तिः शान्तिः शान्तिः ।
हरिः ॐ ॥
अथ योगिनं परमहंसनं कोऽयं मार्नस्तेषं का स्थितिरिति नारदो
भगवन्तमुपगत्योवाच ।
तं भगवानाः ।
योऽयं परमहंसमार्गो
लोके दुर्लभतरो न तु बाहुल्यो यद्येको भवति स एव नित्यपूतस्थः
स एव वेदपुरुष इति विदुषो मन्यन्ते महापुरुषो यच्चित्तं
तत्सर्वदा मय्येवावतिष्टते तस्मादहं च तस्मिन्नेवावस्थीयते ।
असौ स्वपुत्रमित्रकलत्रबन्व्वादीञ्शिखायज्ञोपवीते
स्वाध्यायं च सर्वकर्माणि
संन्यस्यायं ब्रह्माण्डं च हित्वा कौपीनं दण्डमाच्छादनं च
स्वशरीरोपभोगार्थाय च लोकस्योपकारार्थाय च परिग्रहेत्तच्च न
मुख्योऽस्ति कोऽयं मुख्य इति चेदयं मुख्यः