Complete Upanishad, Verse 1
परब्रह्मोपनिषत्
परब्रह्मोपनिषदि वेद्याखण्डसुखाकृति ।
परिव्राजकहृद्गेयं परितस्त्रैपदं भजे ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥
भद्रं पश्येमाक्षभिर्यजत्राः ॥
स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः ॥
व्यशेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः ॥
स्वस्ति नः पूषा विश्ववेदाः ॥
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥
स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
हरिः ॐ ॥
अथ हैनं महाशालः शौनकोऽङ्गिरसं भगवन्तं पिप्पलादं
विधिवदुपसन्नः पप्रच्छ दिव्ये ब्रह्मपुरे के सम्प्रतिष्ठिता भवन्ति ।
कथं
सृज्यन्ते ।
नित्यात्मन एष महिमा ।
विभज्य एष महिमा विभुः ।
क एषः ।
तस्मै स होवाच ।
एतत्सत्यं यत्प्रब्रवीमि ब्रह्मविद्यां वरिष्ठां देवेभ्यः
प्राणेभ्यः ।
परब्रह्मपुरे विरजं निष्कलं शुभमक्षरं विरजं विभाति ।
स नियच्छति मधुकरः श्वेव विकर्मकः ।
अकर्मा स्वामीव स्थितः ।
कर्मतरः
कर्षकवत्फलमनुभवति ।
कर्ममर्मज्ञाता कर्म करोति ।
कर्ममर्म ज्ञात्वा
कर्म कुर्यात् ।
को जालं विक्षिपेदेको नैनमपकर्षत्यपकर्षति ।
प्राणदेवा-
श्चत्वारः ।
ताः सर्वा नाड्यः सुषुप्तश्येनाकाशवत् ।
यथा श्येनः
खमाश्रित्य याति स्वमालयं कुलायम् ।
एवं सुषुप्तं ब्रूत ।
अयं च परश्च
स सर्वत्र हिरण्मये परे कोशे ।
अमृता ह्येषा नाडी त्रयं संचरति ।
तस्य
त्रिपादं ब्रह्म ।
एषात्रेष्य ततोऽनुतिष्ठति ।
अन्यत्र ब्रूत ।
अयं च परं च
सर्वत्र हिरण्मये कोशे ।
यथैष देवदत्तो यष्ट्या च ताड्यमानो नैवैति ।
एवमिष्टापूर्तकर्मशुभाशुभैर्न लिप्यते ।
यथा
कुमारको निष्काम आनन्दमभियाति ।
तथैष देवः
स्वप्न आनन्दमभियाति वेद एव परं ज्योतिः ।
ज्योतिषामा
ज्योतिरानन्दयत्येवमेव ।
तत्परं यच्चित्तं परमात्मान-
मानन्दयति ।
शुभ्रवर्णमाजायतेश्वरात् ।
भूयस्तेनैव
मार्गेण स्वप्नस्थानं नियच्छति ।
जलूकाभाववद्यथा-
काममाजायतेश्वरात् ।
तावतात्मानमानन्दयति ।
परसन्धि
यदपरसन्धीति ।
तत्परं नापरं त्यजति ।
तदैव कपालष्टकं
सन्धाय य एष स्तन इवावलम्बते सेन्द्रयोनिः स वेदयोनिरिति ।
अत्र जाग्रति ।
शुभाशुभातिरिक्तः शुभाशुभैरपि कर्मभिर्न लिप्यते ।
य एष देवोऽन्यदेवास्य सम्प्रसादोऽन्तर्याम्यसङ्गचिद्रूपः
पुरुषः ।
प्रणवहंसः परं ब्रह्म ।
न प्राणहंसः ।
प्रणवो
जीवः ।
आद्या देवता निवेदयति ।
य एवं वेद ।
तत्कथं निवेदयते ।
जीवस्य ब्रह्मत्वमापादयति ।
सत्त्वमथास्य पुरुषस्यान्तः
शिखोपवीतत्वं ब्राह्मणस्य ।
मुमुक्षोरन्तः शिखोपवीतधारणम् ।
बहिर्लक्ष्यमाणशिखायज्ञोपवीतधारणं कर्मिणो गृहस्थस्य ।
अन्तरुपवीतलक्षणं तु बहिस्तन्तुवदव्यक्तमन्तस्तत्त्वमेलनम् ।
न सन्नासन्न सदसद्भिन्नाभिन्नं न चोभयम् ।
न सभागं
न निर्भागं न चाप्युभयरूपकम् ॥
ब्रह्मात्मैकत्वविज्ञानं हेयं मिथ्यत्वकारणादिति ।
पञ्चपाद्ब्रह्मणो न किंचन ।
चतुष्पादन्तर्वर्तिनोऽन्त-
र्जीवब्रह्मणश्चत्वारि स्थानानि ।
नाभिहृदयकण्ठमूर्धसु
जाग्रत्स्वप्नसुषुप्तितुरीयावस्थाः ।
आहवनीयगार्हपत्य-
दक्षिणसभ्याग्निषु ।
जागरिते ब्रह्मा स्वप्ने विष्णुः
सुषुप्तौ रुद्रस्तुरीयमक्षरं चिन्मयम् ।
तस्माच्चतुरवस्था ।
चतुरङ्गुलवेष्टनमिव षण्णवतितत्त्वानि तन्तुवद्विभज्य तदा
हितं त्रिगुणीकृत्य द्वात्रिंशत्तत्त्वनिष्कर्षमापाद्य
ज्ञानपूतं त्रिगुणस्वरूपं त्रिमूर्तित्वं पृथग्विज्ञाय
नवब्रह्माख्यनवगुणोपेतं ज्ञात्वा नवमानमितस्त्रिगुणीकृत्य
सूर्येन्द्वग्निकलास्वरूपत्वेनैकीकृत्याद्यन्तरेकत्वमपि मध्ये
त्रिरावृत्य ब्रह्मविष्णुमहेश्वरत्वमनुसंधायाद्यन्तमेकीकृत्य
चिद्ग्रन्थावद्वैतग्रन्थिं कृत्वा नाभ्यादिब्रह्मबिलप्रमाणं
पृथक् पृथक् सप्तविंशतितत्त्वसंबन्धं त्रिगुणोपेतं
त्रिमूर्तिलक्षणलक्षितमप्येकत्वमापाद्य वामांसादिदक्षिणकण्ठ्यन्तं
विभाव्याद्यन्तग्रहसंमेलनमेकं ज्ञात्वा मूलमेकं सत्यं
मृण्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ।
हंसेति वर्णद्वयेनान्तः शिखोपवीतित्वं निश्चित्य ब्राह्मणत्वं ब्रह्मध्यानार्हत्वं
यतित्वमलक्षितान्तःशिखोपवीतित्वमेवं बहिर्लक्षितकर्मशिखा ज्ञानोपवीतं
गृहस्थस्याभासब्रह्मणत्वस्य केशसमूहशिखाप्रत्यक्षकार्पासतन्तु-
कृतोपवीतत्वं चतुर्गुणीकृत्य चतुर्विंशतितत्त्वापादनतन्तुकृत्त्वं
नवतत्त्वमेकमेव ॥
परंब्रह्म तत्प्रतिसरयोग्यत्वाद्बहुमार्गप्रवृत्तिं
कल्पयन्ति ।
सर्वेषां ब्रह्मादीनां देवर्षीणां मनुष्याणां मूर्तिरेका ।
ब्रह्मैकमेव ।
ब्राह्मणत्वमेकमेव ।
वर्णाश्रमाचारविशेषाः पृथक्पृथक्
शिखावर्णाश्रमिणामेककैव ।
अपवर्गस्य यतेः शिखायज्ञोपवीतमूलं
प्रणवमेकमेव वदन्ति ।
हंसः शिखा ।
प्रणव उपवीतम् ।
नादः संधानम् ।
एष धर्मो नेतरो धर्मः ।
तत्कथमिति ।
प्रणवहंसो नादस्त्रिवृत्सूत्रं
स्वहृदि चैतन्ये तिष्ठति त्रिविधं ब्रह्म ।
तद्विद्धि प्रापञ्चिकशिखोपवीतं त्यजेत् ।
सशिखं वपनं कृत्वा बहिःसूत्रं त्यजेद्बुधः ।
यदक्षरं परंब्रह्म तत्सूत्रमिति धारयेत्