Complete Upanishad, Verse 1
पञ्चब्रह्मोपनिषत्
ब्रह्मादिपञ्चब्रह्माणो यत्र विश्रान्तिमाप्नुयुः ।
तदखण्डसुखाकारं रामचन्द्रपदं भजे ॥
ॐ सह नाववतु ॥
सह नौ भुनक्तु ॥
सह वीर्यं करवावहै ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
हरिः ॐ ॥
अथ पैप्पलादो भगवान्भो किमादौ किं जातमिति ।
सद्यो जातमिति ।
किं भगव इति ।
अघोर इति ।
किं भगव इति ।
वामदेव इति ।
किं वा पुनरिमे भगव इति ।
तत्पुरुष इति ।
किं वा पुनरिमे भगव इति ।
सर्वेषां दिव्यानां प्रेरयिता ईशान इति ।
ईशानो भूतभव्यस्य
सर्वेषां देवयोगिनाम् ।
कति वर्णाः ।
कति भेदाः ।
कति शक्तयः ।
यत्सर्वं तद्गुह्यम् ।
तस्मै नमो महादेवाय महारुद्राय प्रोवाच
तस्मै भगवान्महेशः ।
गोप्याद्गोप्यतरं लोके यद्यस्ति श्रुणु शाकल ।
सद्यो जातं मही पूषा रमा ब्रह्मः त्रिवृत्स्वरः