देवा ह वै प्रजापतिमब्रुवन्नथ कस्मादुच्यत
उग्रमिति स होवाच प्रजापतिर्यस्मात्स्वमहिम्ना
सर्वाꣳल्लोकान्सर्वान्देवान्सर्वानात्मनः सर्वाणि
भूतान्युद्वृह्णात्यजस्रं सृजति विसृजति
विवासयत्त्युद्ग्राह्यत उद्गृह्यते स्तुहि श्रुतं गर्तसदं
युवानं मृगं न भीममुपहन्तुमुग्रं
मृडाजरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निवपन्तु सेनाः
तस्मादुच्यत उग्रमिति ॥
अथ कस्मादुच्यते वीरमिति यस्मात्स्वमहिम्ना
भूतानि विरमति विरामयत्यजस्रं सृजति विसृजति वासयति
यतो वीरः कर्मण्यः सुदृक्षो युक्तग्रावा जायते
देवकामस्तस्मादुच्यते वीरमिति ॥
अथ कस्मादुच्यते महाविष्णुमिति यस्मात्स्वमहिम्ना
भूतानि व्याप्नोति व्यापयति स्नेहो यथा
पललपिण्डं शान्तमूलमोतं प्रोतमनुव्यासं
व्यतिषिक्तो व्यापयते
यस्मान्न जातः परो अन्यो अस्ति य आविवेश भुवनानि विश्वा
प्रजापतिः प्रजया संविदानः त्रीणि ज्योतींषि सचते
सषोडषीं तस्मादुच्यते महाविष्णुमिति ॥
अथ कस्मादुच्यते ज्वलन्तमिति यस्मात्स्वमहिम्ना
सर्वाॅंल्लोकान्सर्वान्देवान्सर्वानात्मनः सर्वाणि
स्वतेजसा ज्वलति ज्वालयति ज्वाल्यते ज्वालयते सविता प्रसविता
दीप्तो दीपयन्दीप्यमानः ज्वलं ज्वलिता
तपन्वितपन्त्संतपन्रोचनो
रोचमानः शोभनः शोभमानः कल्याणस्तस्मादुच्यते
ज्वलन्तमिति ॥
अथ कस्मादुच्यते सर्वतोमुखमिति यस्मात्स्वमहिम्ना
स्वयमनिन्द्रियोऽपि सर्वतः पश्यति सर्वतः शृणोति
सर्वतो गच्छति सर्वत आदत्ते सर्वगः सर्वगतस्तिष्ठति ।
एकः पुरस्ताद्य इदं बभूव यतो बभूव भुवनस्य गोपाः ।
यमप्येति भुवनं साम्पराये नमामि तमहं
सर्वतोमुखमिति तस्मादुच्यते सर्वतोमुखमिति ॥
अथ कस्मादुच्यते नृसिंहमिति यस्मात्सर्वेषां भूतानां
ना वीर्यतमः श्रेष्ठतमश्च सिंहो वीर्यतमः
श्रेष्ठतमश्च ।
तस्मान्नृसिंह आसीत्परमेश्वरो
जगद्धितं वा एतद्रूपं यदक्षरं भवति प्रतद्विष्णुस्तवते
वीर्याय मृगो न भीमः कुचरो गिरिष्ठाः ।
यस्योरुषु
त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा तस्मादुच्यते
नृसिंहमिति ॥
अथ कस्मादुच्यते भीषणमिति यस्माद्भीषणं
यस्य रूपं दृष्ट्वा सर्वे लोकाः सर्वे देवाः
सर्वाणि भूतानि भीत्या पलायन्ते स्वयं यतः कुतश्च
न बिभेति भीषास्माद्वातः पवते भीषोदेति सूर्यः
भीषास्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चम
इति तस्मादुच्यते भीषणमिति ॥
अथ कस्मादुच्यते भद्रमिति यस्मात्स्वयं भद्रो भूत्वा
सर्वदा भद्रं ददाति रोचनो रोचमानः शोभनः
शोभमानः कल्याणः ।
भद्रं कर्णेभिः शृणुयाम
देवाः भद्रं पश्येमाक्षभिर्यजत्राः
स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिर्व्यशेम देवहितं
यदायुः तस्मादुच्यते भद्रमिति ॥
अथ कस्मादुच्यते मृत्युमृत्युमिति यस्मात्स्वमहिम्ना
स्वभक्तानां स्मृत एव मृत्युमपमृत्युं च मारयति ।
य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य
देवाः यस्य छायामृतं यो मृत्युमृत्युः कस्मै
देवाय हविषा विधेम तस्मादुच्यते मृत्युमृत्युमिति ॥
अथ कस्मादुच्यते नमामीति यस्माद्यं सर्वे देवा नमन्ति
मुमुक्षवो ब्रह्मवादिनश्च ।
प्र नूनं ब्रह्मणस्पतिर्मन्त्रं
वदत्युक्थ्यं
यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि
चक्रिरे तस्मादुच्यते नमामीति ॥
अथ कस्मादुच्यतेऽहमिति ।
अहमस्मि प्रथमजा ऋतास्य
यो मा ददाति स इदेवमावाः अहमन्नमन्नमदन्तमद्मि अहं विश्वं
भुवनमभ्यभवां सुवर्णज्योतिर्य एवं वेदेति महोपनिषत्