Complete Upanishad, Verse 1
निर्वाणोपनिषत्
(ऋग्वेदीय संन्यासोपनिषत्)
Containing 5 sacred Sanskrit shlokas with multi-author commentaries and translations.
निर्वाणोपनिषत्
(ऋग्वेदीय संन्यासोपनिषत्)
निर्वाणोपनिषद्वेद्यं निर्वाणानन्दतुन्दिलम् ।
त्रैपदानन्दसाम्राज्यं स्वमात्रमिति चिन्तयेत् ॥
ॐ वाङ्मे मनसि प्रतिष्ठिता ।
मनो मे वाचि प्रतिष्ठितम् ।
आविरावीर्म एधि ।
वेदस्य मा आणीस्थः ।
श्रुतं मे मा प्रहासीः ।
अनेनाधीतेनाहोरात्रान्सन्दधामि ।
ऋतं वदिष्यामि ।
सत्यं वदिष्यामि ।
तन्मामवतु ।
तद्वक्तारमवतु ।
अवतु मामवतु वक्तारम् ।
ॐ शान्तिः शान्तिः शान्तिः ॥
अथ निर्वाणोपनिषदं व्याख्यास्यामः ।
परमहंसः सोऽहम् ।
परिव्राजकाः पश्चिमलिङ्गाः ।
मन्मथ क्षेत्रपालाः ।
गगनसिद्धान्तः अमृतकल्लोलनदी ।
अक्षयं निरञ्जनम् ।
निःसंशय ऋषिः ।
निर्वाणोदेवता ।
निष्कुलप्रवृत्तिः ।
निष्केवलज्ञानम् ।
ऊर्ध्वाम्नायः ।
निरालम्ब पीठः ।
संयोगदीक्षा ।
वियोगोपदेशः ।
दीक्षासन्तोषपानं च ।
द्वादशावदित्यावलोकनम् ।
विवेकरक्षा ।
करुणैव केलिः ।
आनन्दमाला ।
एकान्तगुहायां मुक्तासनसुखगोष्टी ।
अकल्पितभिक्षाशी ।
हंसाचारः ।
सर्वभूतान्तर्वर्ती हंस इति प्रतिपादनम् ।
धैर्यकन्था ।
उदासीन कौपीनम् ।
विचारदण्डः ।
ब्रह्मावलोकयोगपट्टः ।
श्रियां पादुका ।
परेच्छाचरणम् ।
कुण्डलिनीबन्धः ।
परापवादमुक्तो जीवन्मुक्तः ।
शिवयोगनिद्रा च ।
खेचरीमुद्रा च ।
परमानन्दी ।
निर्गतगुणत्रयम् ।
विवेकलभ्यं मनोवागगोचरम् ।
अनित्यं जगद्यज्जनितं स्वप्नजगदभ्रगजादितुल्यम् ।
तथा देहादिसङ्घातं मोहगुणजालकलितं तद्रज्जुसर्पवत्कल्पितम् ।
विष्णुविद्यादिशताभिधानलक्ष्यम् ।
अङ्कुशो मार्गः ।
शून्यं न सङ्केतः ।
परमेश्वरसत्ता ।
सत्यसिद्धयोगो मठः ।
अमरपदं तत्स्वरूपम् ।
आदिब्रह्मस्वसंवित् ।
अजपा गायत्री ।
विकारदण्डो ध्येयः ।
मनोनिरोधिनी कन्था ।
योगेन सदानन्दस्वरूपदर्शनम् ।
आनन्द भिक्षाशी ।
महाश्मशानेऽप्यानन्दवने वासः ।
एकान्तस्थानम् ।
आनन्दमठम् ।
उन्मन्यवस्था ।
शारदा चेष्टा ।
उन्मनी गतिः ।
निर्मलगात्रम् ।
निरालम्बपीठम् ।
अमृतकल्लोलानन्दक्रिया ।
पाण्डरगगनम् ।
महासिद्धान्तः ।
शमदमादिदिव्यशक्त्याचरणे क्षेत्रपात्रपटुता ।
परावरसंयोगः ।
तारकोपदेशाः ।
अद्वैतसदानन्दो देवता ।
नियमः स्वातरिन्द्रियनिग्रहः ।
भयमोहशोकक्रोधत्यागस्त्यागः ।
अनियामकत्वनिर्मलशक्तिः ।
स्वप्रकाशब्रह्मतत्त्वे शिवशक्तिसम्पुटित प्रपञ्चच्छेदनम् ।
तथा पत्राक्षाक्षिकमण्डलुः ।
भवाभावदहनम् ।
बिभ्रत्याकाशाधारम् ।
शिवं तुरीयं यज्ञोपवीतम् ।
तन्मया शिखा ।
चिन्मयं चोत्सृष्टिदण्डम् ।
सन्तताक्षिकमण्डलुम् ।
कर्मनिर्मूलनं कन्था ।
मायाममताहङ्कारदहनम् ।
स्प्रशाने अनाहताङ्गी ।
निस्त्रैगुण्यस्वरूपानुसन्धानं समयम् ।
भ्रान्तिहरणम् ।
कामादिवृत्तिदहनम् ।
काठिन्यदृढकौपीनम् ।
चीराजिनवासः ।
अनाहतमन्त्रः ।
अक्रिययैव जुष्टम् ।
स्वेच्छाचारस्वस्वभावो मोक्षः परं ब्रह्म ।
प्लववदाचरणम् ।
ब्रह्मचर्यशान्तिसंग्रहणम् ।
ब्रह्मचर्याश्रमेऽधीत्य ससर्वसंविन्न्यासं संन्यासम् ।
अन्ते ब्रह्माखण्डाकारम् ।
नित्यं सर्वसन्देहनाशनम् ।
एतन्निर्वाणदर्शनम् ।
शिष्यं पुत्रं विना न देयमित्युपनिषत् ।
ॐ वाङ्मे मनसीति शान्तिः ॥
इति निर्वाणोपनिषत् समाप्ता ।