Niralamba Upanishad

Complete Upanishad

Containing 11 sacred Sanskrit shlokas with multi-author commentaries and translations.

Niralamba Upanishad

Complete Upanishad, Verse 1

निरालम्बोपनिषत्

Niralamba Upanishad

Complete Upanishad, Verse 2

यत्रालम्बालम्बिभावो विद्यते न कदाचन ।

ज्ञविज्ञसम्यग्ज्ञालम्बं निरालम्बं हरिं भजे ॥

Niralamba Upanishad

Complete Upanishad, Verse 3

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

Niralamba Upanishad

Complete Upanishad, Verse 4

ॐ शान्तिः शान्तिः शान्तिः ॥

Niralamba Upanishad

Complete Upanishad, Verse 5

ॐ नमः शिवाय गुरवे सच्चिदानन्द मूर्तये ।

निष्प्रपञ्चाय शान्ताय निरालम्बाय तेजसे ॥

Niralamba Upanishad

Complete Upanishad, Verse 6

निरालम्बं समाश्रित्य सालम्बं विजहाति यः ।

स संन्यासी च योगी च कैवल्यं पदमश्नुते ।

एषमज्ञानजन्तूनां समस्तारिष्टशान्तये ।

यद्यद्बोद्धव्यमखिलं तदाशङ्क्य ब्रवीम्यहम् ॥

Niralamba Upanishad

Complete Upanishad, Verse 7

किं ब्रह्म ।

क ईश्वरः ।

को जीवः ।

का प्रकृतिः ।

कः परमात्मा ।

को ब्रह्मा ।

को विष्णुः ।

को रुद्रः ।

क इन्द्रः ।

कः शमनः ।

कः सूर्यः ।

कश्चन्द्रः ।

के सुराः ।

के असुराः ।

के पिशाचाः ।

के मनुष्याः ।

काः स्त्रियः ।

के पश्वादयः ।

किं स्थावरम् ।

के ब्राह्मणादयः ।

का जातिः ।

किं कर्म ।

किमकर्म ।

किं ज्ञानम् ।

किमज्ञानम् ।

किं सुखम् ।

किं दुःखम् ।

कः स्वर्गः ।

को नरकः ।

को बन्धः ।

को मोक्षः ।

क उपास्यः ।

कः शिष्यः ।

को विद्वान् ।

को मूढः ।

किमासुरम् ।

किं तपः ।

किं परमं पदम् ।

किं ग्राह्यम् ।

किमग्राह्यम् ।

कः संन्यासीत्याहशङ्क्याह

ब्रह्मेति ।

स होवाच महदहङ्कारपृथिव्यप्तेजोवाय्वाकाशत्वेन

बृहद्रूपेणाण्डकोशेन कर्मज्ञानार्थरूपतया

भासमानमद्वितीयमखिलोपाधिविनिर्मुक्तं

तत्सकलशक्त्युपबृंहितमनाद्यनन्तं

शुद्धं शिवं शान्तं निर्गुणमित्यादि-

वाच्यमनिर्वाच्यं चैतन्यं ब्रह्म ॥

ईश्वर इति च ॥

Niralamba Upanishad

Complete Upanishad, Verse 8

ब्रह्मैव स्वशक्तिं प्रकृत्यभिधेयामाश्रित्य

लोकान्सृष्ट्वा प्रविश्यान्तर्यामित्वेन ब्रह्मादीनां

बुद्धीन्द्रियनियन्तृत्वादीश्वरः ॥

जीव इति च

ब्रह्मविष्ण्वीशानेन्द्रादीनां नामरूपद्वारा

स्थूलोऽहमिति मिथ्याध्यासवशाज्जीवः ।

सोऽहमेकोऽपि

देहारम्भकभेदवशाद्बहुजीवः ।

प्रकृतिरिति च

ब्रह्मणः सकाशान्नानाविचित्रजगन्निर्माण-

सामार्थ्यबुद्धिरूपा ब्रह्मशक्तिरेव प्रकृतिः ।

परमात्मेति च देहादेः परतरत्वद्ब्राह्मैव परमात्मा

स ब्रह्मा स विष्णुः स इन्द्रः स शमनः स सूर्यः

स चन्द्रस्ते सुरास्ते असुरास्ते पिशाचास्ते मनुष्यास्ताः

स्त्रियस्ते पश्वादयस्तत्स्थावरं ते ब्राह्मणादयः ।

सर्वं खल्विदं ब्रह्म नेह नानास्ति किञ्चन ।

जातिरिति च ।

न चर्मणो न रक्तस्य न मांसस्य न चास्थिनः ।

न जातिरात्मनो जातिर्व्यवहारप्रकल्पिता ।

कर्मेति च

क्रियमाणेन्द्रियैः कर्मण्यहं करोमीत्यध्यात्मनिष्ठतया

कृतं कर्मैव कर्म ।

अकर्मेति च कर्तृत्वभोक्तृत्वा-

द्यहङ्कारतया बन्धरूपं जन्मादिकारणं

नित्यनैमित्तिकयागव्रततपोदानादिषु फलाभिसन्धानं

यत्तदकर्म ।

ज्ञानमिति च देहेन्द्रियनिग्रहसद्गुरूपासन-

श्रवणमनननिदिध्यासनैर्यद्यदृग्दृश्यस्वरूपं

सर्वान्तरस्थं सर्वसमं घटपटादिपदार्थ-

मिवाविकारं विकारेषु चैतन्यं विना किञ्चिन्नास्तीति

साक्षात्कारानुभवो ज्ञानम् ।

अज्ञानमिति च

रज्जौ सर्पभ्रान्तिरिवाद्वितीये सर्वानुस्यूते सर्वमये

ब्रह्मणि देवतिर्यङ्नरस्थावरस्त्रीपुरुषवर्णाश्रम-

बन्धमोक्षोपाधिनानात्मभेदकल्पित ज्ञानमज्ञानम् ।

सुखमिति च सच्चिदानन्दस्वरूपं ज्ञात्वानन्दरूपा

या स्थितिः सैव सुखम् ।

दुःखमिति अनात्मरूपः

विषयसङ्कल्प एव दुःखम् ।

स्वर्ग इति च सत्संसर्गः

स्वर्गः ।

नरक इति च असत्संसारविषयजनसंसर्ग एव

नरकः ।

बन्ध इति च अनाद्यविद्यावासनया जातोऽहमि-

त्यादिसङ्कल्पो बन्धः ।

पितृमातृसहोदरदारापत्य-

गृहारामक्षेत्रममता संसारावरणसङ्कल्पो बन्धः ।

कर्तृत्वाद्यहङ्कारसङ्कल्पो बन्धः ।

अणिमाद्यष्टैश्व-

र्याशासिद्धसङ्कल्पो बन्धः ।

देवमनुष्याद्युपासना-

कामसङ्कल्पो बन्धः ।

यमाद्यष्टाङ्गयोगसङ्कल्पो

बन्धः ।

वर्णाश्रमधर्मकर्मसङ्कल्पो बन्धः ।

आज्ञाभयसंशयात्मगुणसङ्कल्पो बन्धः ।

यागव्रत-

तपोदानविधिविधानज्ञानसम्भवो बन्धः ।

केवलमोक्षा-

पेक्षासङ्कल्पो बन्धः ।

सङ्कल्पमात्रसंभवो बन्धः ।

मोक्ष इति च नित्यानित्यवस्तुविचारादनित्यसंसारसुख-

दुःखविषयसमस्तक्षेत्रममताबन्धक्षयो मोक्षः ।

उपास्य इति च सर्वशरीरस्थचैतन्यब्रह्मप्रापको गुरुरुपास्यः ।

शिष्य इति च विद्याध्वस्तप्रपञ्चावगाहितज्ञानावशिष्टं

ब्रह्मैव शिष्यः ।

विद्वानिति च सर्वान्तरस्थस्वसंविद्रूपवि-

द्विद्वान् ।

मूढ इति च कर्तृत्वाद्यहङ्कारभावारूढो मूढः ।

आसुरमिति च ब्रह्मविष्ण्वीशानेन्द्रादीना-

मैश्वर्यकामनया निरशनजपाग्निहोत्रादि-

ष्वन्तरात्मानं सन्तापयति चात्युग्रराग-

द्वेषविहिंसा दम्भाद्यपेक्षितं तप आसुरम् ।

तप इति च ब्रह्म सत्यं जगन्मिथ्येत्यपरोक्ष-

ज्ञानाग्निना ब्रह्माद्यैश्वर्याशासिद्धसङ्कल्प-

बीजसन्तापं तपः ।

परमं पदमिति च

प्राणेन्द्रियाद्यन्तःकरणगुणादेः परतरं

सच्चिदानन्दमयं नित्यमुक्तब्रह्मस्थानं

परमं पदम् ।

ग्राह्यमिति च देशकालवस्तु-

परिच्छेदराहित्यचिन्मात्रस्वरूपं ग्राह्यम् ।

अग्राह्यमिति च स्वस्वरूपव्यतिरिक्तमायामय-

बुद्धीन्द्रियगोचरजगत्सत्यत्वचिन्तनमग्राह्यम् ।

संन्यासीति च सर्वधर्मान्परित्यज्य निर्ममो

निरहङ्कारो भूत्वा ब्रह्मेष्टं शरणमुपगम्य

तत्त्वमसि अहं ब्रह्मास्मि सर्वं खल्विदं ब्रह्म

नेह नानास्ति किञ्चनेत्यादिमहावाक्यार्था-

नुभवज्ञानाद्ब्रह्मैवाहमस्मीति निश्चित्य

निर्विकल्पसमाधिना स्वतन्त्रो यतिश्चरति स संन्यासी

स मुक्तः स पूज्यः स योगी स परमहंसः सोऽवधूतः

स ब्राह्मण इति ।

इदं निरालम्बोपनिषदं योऽधीते

गुर्वनुग्रहतः सोऽग्निपूतो भवति स वायुपूतो भवति

न स पुनरावर्तते न स पुनरावर्तते पुनर्नाभिजायते

पुनर्नाभिजायत इत्युपनिषत् ॥

Niralamba Upanishad

Complete Upanishad, Verse 9

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

Niralamba Upanishad

Complete Upanishad, Verse 10

ॐ शान्तिः शान्तिः शान्तिः ॥

Niralamba Upanishad

Complete Upanishad, Verse 11

इति निरालम्बोपनिषत्समाप्ता ॥