Complete Upanishad, Verse 1
नारायणोपनिषत् अथवा नारायण अथर्वशीर्ष
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
नारायणोपनिषत् अथवा नारायण अथर्वशीर्ष
कृष्णयजुर्वेदीया
ॐ सह नाववतु सह नौ भुनक्तु ।
सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु ।
मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
(प्रथमः खण्डः
नारायणात् सर्वचेतनाचेतनजन्म)
ॐ अथ पुरुषो ह वै नारायणोऽकामयत प्रजाः सृजेयेति ।
नारायणात्प्राणो जायते ।
मनः सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ।
नारायणाद् ब्रह्मा जायते ।
नारायणाद् रुद्रो जायते ।
नारायणादिन्द्रो जायते ।
नारायणात्प्रजापतयः प्रजायन्ते ।
नारायणाद्द्वादशादित्या रुद्रा वसवः सर्वाणि च छन्दाꣳसि ।
नारायणादेव समुत्पद्यन्ते ।
नारायणे प्रवर्तन्ते ।
नारायणे प्रलीयन्ते ॥
(एतदृग्वेदशिरोऽधीते ।
)
(द्वितीयः खण्डः
नारायणस्य सर्वात्मत्वम्)
ॐ ।
अथ नित्यो नारायणः ।
ब्रह्मा नारायणः ।
शिवश्च नारायणः ।
शक्रश्च नारायणः ।
द्यावापृथिव्यौ च नारायणः ।
कालश्च नारायणः ।
दिशश्च नारायणः ।
ऊर्ध्वंश्च नारायणः ।
अधश्च नारायणः ।
अन्तर्बहिश्च नारायणः ।
नारायण एवेदꣳ सर्वम् ।
यद्भूतं यच्च भव्यम् ।
निष्कलो निरञ्जनो निर्विकल्पो निराख्यातः
शुद्धो देव एको नारायणः ।
न द्वितीयोऽस्ति कश्चित् ।
य एवं वेद ।
स विष्णुरेव भवति स विष्णुरेव भवति ॥
(एतद्यजुर्वेदशिरोऽधीते ।
)
(तृतीयः खण्डः
नारायणाष्टाक्षरमन्त्रः)
ओमित्यग्रे व्याहरेत् ।
नम इति पश्चात् ।
नारायणायेत्युपरिष्टात् ।
ओमित्येकाक्षरम् ।
नम इति द्वे अक्षरे ।
नारायणायेति पञ्चाक्षराणि ।
एतद्वै नारायणस्याष्टाक्षरं पदम् ।
यो ह वै नारायणस्याष्टाक्षरं पदमध्येति ।
अनपब्रुवस्सर्वमायुरेति ।
विन्दते प्राजापत्यꣳ रायस्पोषं गौपत्यम् ।
ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुत इति ।
य एवं वेद ॥
(एतत्सामवेदशिरोऽधीते ।
ओं नमो नारायणाय)
(चतुर्थः खण्डः
नारायणप्रणवः)
प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपम् ।
अकार उकार मकार इति ।
तानेकधा समभरत्तदेतदोमिति ।
यमुक्त्वा मुच्यते योगी जन्मसंसारबन्धनात् ।
ॐ नमो नारायणायेति मन्त्रोपासकः ।
वैकुण्ठभुवनलोकं गमिष्यति ।
तदिदं परं पुण्डरीकं विज्ञानघनम् ।
तस्मात्तटिदाभमात्रम् ।
सर्वभूतस्थमेकं नारायणम् ।
कारणरूपमकार परं ब्रह्मोम् ।
एतदथर्वशिरोयोधीते ॥
विद्याऽध्ययनफलम् ।
प्रातरधीयानो रात्रिकृतं पापं नाशयति ।
सायमधीयानो दिवसकृतं पापं नाशयति ।
माध्यन्दिनमादित्याभिमुखोऽधीयानः पञ्चमहापातकोपपातकात् प्रमुच्यते ।
सर्व वेद पारायण पुण्यं लभते ।
नारायणसायुज्यमवाप्नोति नारायण सायुज्यमवाप्नोति ।
य एवं वेद ।
इत्युपनिषत् ॥
ॐ सह नाववतु सह नौ भुनक्तु ।
सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु ।
मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥