Narada Parivrajaka Upanishad

Complete Upanishad

Containing 244 sacred Sanskrit shlokas with multi-author commentaries and translations.

Narada Parivrajaka Upanishad

Complete Upanishad, Verse 1

नारदपरिव्राजकोपनिषत्

पारिव्राज्यधर्मपूगालङ्कारा यत्प्रबोधतः ।

दशप्रणवलक्ष्यार्थं यान्ति तं राममाश्रये ॥

ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः ॥

भद्रं पश्येमाक्षभिर्यजत्राः ॥

स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः ॥

व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः ॥

स्वस्ति नः पूषा विश्वदेवाः ॥

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥

स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

परिव्राट्त्रिशिखी सीताचूडानिर्वाणमण्डलम्

दक्षिणा शरभं स्कन्दं महानारायणाद्वयम् ॥

अथ कदाचित्परिव्राजकाभरणो नारदः सर्वलोकसंचारं

कुर्वन्नपूर्वपुण्यस्थलानि पुण्यतीर्थानि तीर्थीकुर्वन्नवलोक्य

चित्तशुद्धिं प्राप्य निर्वैरः शान्तो दान्तः सर्वतो

निर्वेदमासाद्य स्वरूपानुसन्धानमनुसन्धय

नियमानन्दविशेषगण्यं मुनिजनैरुपसंकीर्णं

नैमिषारण्यं पुण्यस्थलमवलोक्य सरिगमपधनिस-

संज्ञैर्वैराग्यबोधकरैः स्वरविशेषैः प्रापञ्चिक-

पराङ्मुखाइर्हरिकथालापैः स्थावरजङ्गमनामकै-

र्भगवद्भक्तिविशेषाइर्नरमृगकिंपुरुषामरकिंनर-

अप्सरोगणान्संमोहयन्नागतं ब्रह्मात्मजं भगवद्भक्तं

नारदमवलोक्य द्वादशवर्षसत्रयागोपस्थिताः

श्रुताध्ययनसम्पन्नाः सर्वज्ञास्तपोनिष्ठापराश्च

ज्ञानवैराग्यसम्पन्नाः शौनकादिमहर्षयः

प्रत्युत्थानं कृत्वा नत्वा यथोचितातिथ्यपूर्वकमुपवेशयित्वा

स्वयं सर्वेऽप्युपविष्टा भो भगवन्ब्रह्मपुत्र कथं

मुक्त्युपायोऽस्माकं वक्तव्य इत्युक्तस्तान्स होवाच नारदः

सत्कुलभवोपनीतः सम्यगुपनयनपूर्वकं चतुश्चत्वारिंशत्-

संस्कारसम्पन्नः स्वाभिमतैकगुरुसमीपे स्वशाखाध्ययन-

पूर्वकं सर्वविद्याभ्यासं कृत्वा द्वादशवर्षशुश्रूषा-

पूर्वकं ब्रह्मचर्यं पञ्चविंशतिवत्सरं गार्हस्थ्यं

पञ्चविंशतिवत्सरं वानप्रस्थाश्रमं तद्विधिवत्क्रमान्निर्वर्त्य

चतुर्विधब्रह्मचर्यं षड्विधं गार्हस्थ्यं चतुर्विधं

वानप्रस्थधर्मं सम्यगभ्यस्य तदुचितं कर्म सर्वं निर्वर्त्य

साधनचतुष्टयसम्पन्नः सर्वसंसारोपरि मनोवाक्काय-

कर्मभिर्यथाशानिवृत्तस्तथा वासनैषणोपर्यपि निर्वैरः

शान्तो दान्तः संन्यासी परमहंसाश्रमेणास्खलितस्वस्वरूप-

ध्यानेन देहत्यागं करोति स मुक्तो भवति स मुक्तो भवतीत्युपनिषत् ॥

इति प्रथमोपदेशः

Narada Parivrajaka Upanishad

Complete Upanishad, Verse 2

अथ हैनं भगवन्तं नारदं सर्वे शौनकादयः

पप्रच्छुर्भो भगवन्संन्यासविधिं नो ब्रूहीति

तानवलोक्य नारदस्तत्स्वरूपं सर्वं पितामहमुखेनैव

ज्ञातुमुचितमित्युक्त्वा सत्रयागपूर्त्यनन्तरं तैः सह

सत्यलोकं गत्वा विधिवद्ब्रह्मनिष्ठापरं परमेष्ठिनं

नत्वा स्तुत्वा यथोचितं तदाज्ञया तैः सहोपविश्य

नारदः पितामहमुवाच गुरुस्त्वं जनकस्त्वं सर्वविद्या-

रहसज्ञः सर्वज्ञस्त्वमतो मत्तो मदिष्टं रहस्यमेकं

वक्तव्यं त्वद्विना मदभिमतरहस्यं वक्तुं कः समर्थः ।

किमितिचेत्पारिव्राज्यस्वरूपक्रमं नो ब्रूहीति नारदेन

प्रार्थितः परमेष्ठि सर्वतः सर्वानवलोक्य मुहूर्तमात्रं

समाधिनिष्ठो भूत्वा संसारातिनिवृत्यन्वेषण इति

निश्चित्य नारदमवलोक्य तमाह पितामहः ।

पुरा मत्पुत्र पुरुषसूक्तोपनिषद्रहस्यप्रकारं

निरतिशयाकारावलम्बिना विराट्पुरुषेणोपदिष्टं रहस्यं

ते विविच्योच्यते तत्क्रममतिरहस्यं बाढमवहितो भूत्वा

श्रूयतां भो नारद विधिवदादावनुपनीतोपनयानन्तरं

तत्सत्कुलप्रसूतः पितृमातृविधेयः पितृसमीपादन्यत्र

सत्सम्प्रदायस्थं श्रद्धावन्तं सत्कुलभवं श्रोत्रियं

शास्त्रवात्सल्यं गुणवन्तमकुटिलं सद्गुरुमासाद्य नत्वा

यथोपयोगशुश्रूषापूर्वकं स्वाभिमतं विज्ञाप्य

द्वादशवर्षसेवापुरःसरं सर्वविद्याभ्यासं कृत्वा

तदनुज्ञया स्वकुलानुरूपामभिमतकन्यां विवाह्य

पञ्चविंशतिवत्सरं गुरुकुलवासं कृत्वाथ गुर्वनुज्ञया

गृहस्थोचितकर्म कुर्वन्दौर्ब्राह्मण्यनिवृत्तिमेत्य

स्ववंशवृद्धिकामः पुत्रमेकमासाद्य गार्हस्थ्योचित-

पञ्चविंशतिवत्सरं तीर्त्वा ततः पञ्चचिंशतिवत्सरपर्यन्तं

त्रिषवणमुदकस्पर्शनपूर्वकं चतुर्थकालमेकवारमाहार-

माहरन्नयमेक एव वनस्थो भूत्वा पुरग्रामप्राक्तनसञ्चारं

विहाय निकारविरहिततदाश्रितकर्मोचितकृत्यं निर्वर्त्य

दृष्टश्रवणविषयवैतृष्ण्यमेत्य चत्वारिंशत्संकार-

सम्पन्नः सर्वतो विरक्तश्चित्तशुद्धिमेत्याशासूयेर्ष्याहङ्कारं

दग्ध्वा साधनचतुष्टयसम्पन्नः संन्यस्तुमर्हतीत्युपनिषत् ॥

इति द्वितीयोपदेशः

Narada Parivrajaka Upanishad

Complete Upanishad, Verse 3

अथ हैनं नारदः पितामहं पप्रच्छ भगवन्केन

संन्यासाधिकारी वेत्येवमादौ संन्यासाधिकारिणं

निरूप्य पश्चात्संन्यासविधिरुच्यते अवहितः श‍ृणु ।

अथ षण्डः पतितोऽङ्गविकलः स्त्रैणो बधिरोऽर्भको

मूकः पाषण्डश्चक्री लिङ्गी वैखानसहरद्विजौ

भृतकाध्यापकः शिपिविष्टोऽनग्निको वैराग्यवन्तोऽप्येते

न संन्यासार्हाः संन्यस्ता यद्यपि महावाक्योपदेशेन

अधिकारिणः पूर्वसंन्यासी परमहंसाधिकारी ॥

--

परेणैवात्मनश्चापि परस्यैवात्मना तथा ।

अभयं समवाप्नोति स परिव्राडिति स्मृतिः

Narada Parivrajaka Upanishad

Complete Upanishad, Verse 4

षण्डोऽथ विकलोऽप्यन्धो बालकश्चापि पातकी ।

पतितश्च परद्वारी वैखानसहरद्विजौ

Narada Parivrajaka Upanishad

Complete Upanishad, Verse 5

चक्री लिङ्गी च पाषण्डी शिपिविष्टोऽप्यनग्निकः ।

द्वित्रिवारेण संन्यस्तो भृतकाध्यापकोऽपि च ।

एते नार्हन्ति संन्यासमातुरेण विना क्रमम्

Narada Parivrajaka Upanishad

Complete Upanishad, Verse 6

आतुरकालः कथमार्यसंमतः ॥

--

प्राणस्योत्क्रमणासन्नकालस्त्वातुरसंज्ञकः ।

नेतरस्त्वातुरः कालो मुक्तिमार्गप्रवर्तकः

Narada Parivrajaka Upanishad

Complete Upanishad, Verse 7

आतुरेऽपि च संन्यासे तत्तन्मन्त्रपुरःसरम् ।

मन्त्रावृत्तिं च कृत्वैव संन्यसेद्विधिवद्बुधः

Narada Parivrajaka Upanishad

Complete Upanishad, Verse 8

आतुरेऽपि क्रमे वापि प्रैषभेदो न कुत्रचित् ।

न मन्त्रं कर्मरहितं कर्म मन्त्रमपेक्षते

Narada Parivrajaka Upanishad

Complete Upanishad, Verse 9

अकर्म मन्त्ररहितं नातो मन्त्रं परित्यजेत् ।

मन्त्रं विना कर्म कुर्याद्भस्मन्याहुतिवद्भवेत्

Narada Parivrajaka Upanishad

Complete Upanishad, Verse 10

विध्युक्तकर्मसंक्षेपात्संन्यासस्त्वातुरः स्मृतः ।

तस्मादातुरसंन्यासे मन्त्रावृत्तिविधिर्मुने

Narada Parivrajaka Upanishad

Complete Upanishad, Verse 11

आहिताग्निर्विरक्तश्चेद्देशान्तरगतो यदि ।

प्राजापत्येष्टिमप्स्वेव निर्वृत्यैवाथ संन्यसेत्

Narada Parivrajaka Upanishad

Complete Upanishad, Verse 12

मनसा वाथ विध्युक्तमन्त्रावृत्त्याथवा जले ।

श्रुत्यनुष्ठानमार्गेण कर्मानुष्ठानमेव वा

Narada Parivrajaka Upanishad

Complete Upanishad, Verse 13

समाप्य संन्यसेद्विद्वान्नो चेत्पातित्यमाप्नुयात्

Narada Parivrajaka Upanishad

Complete Upanishad, Verse 14

यदा मनसि सञ्जातं वैतृष्ण्यं सर्ववस्तुषु ।

तदा संन्यासमिच्छेत पतितः स्याद्विपर्यये

Narada Parivrajaka Upanishad

Complete Upanishad, Verse 15

विरक्तः प्रव्रजेद्धीमान्सरक्तस्तु गृहे वसेत् ।

सरागो नरकं याति प्रव्रजन्हि द्विजाधमः

Narada Parivrajaka Upanishad

Complete Upanishad, Verse 16

यस्यैतानि सुगुप्तानि जिह्वोपस्थोदरं करः ।

संन्यसेदकृतोद्वाहो ब्राह्मणो ब्रह्मचर्यवान्

Narada Parivrajaka Upanishad

Complete Upanishad, Verse 17

संसारमेव निःसारं दृष्ट्वा सारदिदृक्षया ।

प्रव्रजन्त्यकृतोद्वाहाः परं वैराग्यमाश्रिताः

Narada Parivrajaka Upanishad

Complete Upanishad, Verse 18

प्रवृत्तिलक्षणं कर्म ज्ञानं संन्यासलक्षणम् ।

तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिवान्

Narada Parivrajaka Upanishad

Complete Upanishad, Verse 19

यदा तु विदितं तत्त्वं परं ब्रह्म सनातनम् ।

तदैकदण्डं संगृह्य सोपवीतां शिखां त्यजेत्

Narada Parivrajaka Upanishad

Complete Upanishad, Verse 20

परमात्मनि यो रक्तो विरक्तोऽपरमात्मनि ।

सर्वैषणाविनिर्मुक्तः स भैक्षं भोक्तुमर्हति

Narada Parivrajaka Upanishad

Complete Upanishad, Verse 21

पूजितो वन्दितश्चैव सुप्रसन्नो यथा भवेत् ।

तथा चेत्ताड्यमानस्तु तदा भवति भैक्षभुक्

Narada Parivrajaka Upanishad

Complete Upanishad, Verse 22

अहमेवाक्षरं ब्रह्म वासुदेवाख्यमद्वयम् ।

इति भावो ध्रुवो यस्य तदा भवति भैक्षभुक्

Narada Parivrajaka Upanishad

Complete Upanishad, Verse 23

यस्मिञ्शान्तिः शमः शौचं सत्यं सन्तोष आर्जवम् ।

अकिञ्चनमदम्भश्च स कैवल्याश्रमे वसेत्

Narada Parivrajaka Upanishad

Complete Upanishad, Verse 24

यदा न कुरुते भावं सर्वभूतेषु पापकम् ।

कर्मणा मनसा वाचा तदा भवति भैक्षभुक्

Narada Parivrajaka Upanishad

Complete Upanishad, Verse 25

दशलक्षणकं धर्ममनुतिष्ठन्समाहितः ।

वेदान्तान्विधिवच्छृत्वा संन्यस्तेदनृणो द्विजः

Narada Parivrajaka Upanishad

Complete Upanishad, Verse 26

धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।

धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम्

Narada Parivrajaka Upanishad

Complete Upanishad, Verse 27

अतीतान्न स्मरेद्भोगान्न तथानागतानपि ।

प्राप्तांश्च नामिनन्देद्यः स कैवल्याश्रमे वसेत्

Narada Parivrajaka Upanishad

Complete Upanishad, Verse 28

अन्तस्थानीन्द्रियाण्यन्तर्बहिष्ठान्विषयान्बहिः ।

शक्नोति यः सदा कर्तुं स कैवल्याश्रमे वसेत्

Narada Parivrajaka Upanishad

Complete Upanishad, Verse 29

प्राणे गते यथा देहः सुखं दुःखं न विन्दति ।

तथा चेत्प्राणयुक्तोऽपि स कैवल्याश्रमे वसेत्

Narada Parivrajaka Upanishad

Complete Upanishad, Verse 30

कौपीनयुगलं कन्था दण्ड एकः परिग्रहः ।

यतेः परमहंसस्य नाधिकं तु विधीयते