Nada Bindu Upanishad

Complete Upanishad

Containing 56 sacred Sanskrit shlokas with multi-author commentaries and translations.

Nada Bindu Upanishad

Complete Upanishad, Verse 1

नादबिन्दूपनिषत्

॥

नादबिन्दूपनिषत् ॥

(ऋग्वेदीय योगोपनिषत्)

वैराजात्मोपासनया सञ्जातज्ञानवह्निना ।

दग्ध्वा कर्मत्रयं योगी यत्पदं याति तद्भजे ॥

ॐ वाङ्मे मनसि प्रतिष्ठिता ।

मनो मे वाचि प्रतिष्टितम् ।

आविरावीर्म एधि ।

वेदस्य मा आणीस्थः ।

श्रुतं मे मा

प्रहासीः ।

अनेनाधीतेनाहोरात्रान्सन्दधामि ।

ऋतं वदिष्यामि ।

सत्यं वदिष्यामि ।

तन्मामवतु ।

तद्वक्तारमवतु ।

अवतु मामवतु वक्तारम् ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ अकारो दक्षिणः पक्ष उकारस्तूत्तरः स्मृतः ।

मकारं पुच्छमित्याहुरर्धमात्रा तु मस्तकम्

Nada Bindu Upanishad

Complete Upanishad, Verse 2

पादादिकं गुणास्तस्य शरीरं तत्त्वमुच्यते ।

धर्मोऽस्य दक्षिणश्चक्षुरधर्मो योऽपरः स्मृतः

Nada Bindu Upanishad

Complete Upanishad, Verse 3

भूर्लोकः पादयोस्तस्य भुवर्लोकस्तु जानुनि ।

सुवर्लोकः कटीदेशे नाभिदेशे महर्जगत्

Nada Bindu Upanishad

Complete Upanishad, Verse 4

जनोलोकस्तु हृद्देशे कण्ठे लोकस्तपस्ततः ।

भ्रुवोर्ललाटमध्ये तु सत्यलोको व्यवस्थितः

Nada Bindu Upanishad

Complete Upanishad, Verse 5

सहस्रार्णमतीवात्र मन्त्र एष प्रदर्शितः ।

एवमेतां समारूढो हंसयोगविचक्षणः

Nada Bindu Upanishad

Complete Upanishad, Verse 6

न भिद्यते कर्मचारैः पापकोटिशतैरपि ।

आग्नेयी प्रथमा मात्रा वायव्येषा तथापरा

Nada Bindu Upanishad

Complete Upanishad, Verse 7

भानुमण्डलसंकाशा भवेन्मात्रा तथोत्तरा ।

परमा चार्धमात्रा या वारुणीं तां विदुर्बुधाः

Nada Bindu Upanishad

Complete Upanishad, Verse 8

कालत्रयेऽपि यत्रेमा मात्रा नूनं प्रतिष्ठिताः ।

एष ओङ्कार आख्यातो धारणाभिर्निबोधत

Nada Bindu Upanishad

Complete Upanishad, Verse 9

घोषिणी प्रथमा मात्रा विद्युन्मात्रा तथाऽपरा ।

पतङ्गिनी तृतीया स्याच्चतुर्थी वायुवेगिनी

Nada Bindu Upanishad

Complete Upanishad, Verse 10

पञ्चमी नामधेया तु षष्ठी चैन्द्र्यभिधीयते ।

सप्तमी वैष्णवी नाम अष्टमी शाङ्करीति च

Nada Bindu Upanishad

Complete Upanishad, Verse 11

नवमी महती नाम धृतिस्तु दशमी मता ।

एकादशी भवेन्नारी ब्राह्मी तु द्वादशी परा

Nada Bindu Upanishad

Complete Upanishad, Verse 12

प्रथमायां तु मात्रायां यदि प्राणैर्वियुज्यते ।

भरते वर्षराजासौ सार्वभौमः प्रजायते

Nada Bindu Upanishad

Complete Upanishad, Verse 13

द्वितीयायां समुत्क्रान्तो भवेद्यक्षो महात्मवान् ।

विद्याधरस्तृतीयायां गान्धर्वस्तु चतुर्थिका

Nada Bindu Upanishad

Complete Upanishad, Verse 14

पञ्चम्यामथ मात्रायां यदि प्राणैर्वियुज्यते ।

उषितः सह देवत्वं सोमलोके महीयते

Nada Bindu Upanishad

Complete Upanishad, Verse 15

षष्ठ्यामिन्द्रस्य सायुज्यं सप्तम्यां वैष्णवं पदम् ।

अष्टम्यां व्रजते रुद्रं पशूनां च पतिं तथा

Nada Bindu Upanishad

Complete Upanishad, Verse 16

नवम्यां तु महर्लोकं दशम्यां तु जनं व्रजेत् ।

एकादश्यां तपोलोकं द्वादश्यां ब्रह्म शाश्वतम्

Nada Bindu Upanishad

Complete Upanishad, Verse 17

ततः परतरं शुद्धं व्यापकं निर्मलं शिवम् ।

सदोदितं परं ब्रह्म ज्योतिषामुदयो यतः

Nada Bindu Upanishad

Complete Upanishad, Verse 18

अतीन्द्रियं गुणातीतं मनो लीनं यदा भवेत् ।

अनूपमं शिवं शान्तं योगयुक्तं सदा विशेत्

Nada Bindu Upanishad

Complete Upanishad, Verse 19

तद्युक्तस्तन्मयो जन्तुः शनैर्मुञ्चेत्कलेवरम् ।

संस्थितो योगचारेण सर्वसङ्गविवर्जितः

Nada Bindu Upanishad

Complete Upanishad, Verse 20

ततो विलीनपाशोऽसौ विमलः कमलाप्रभुः ।

तेनैव ब्रह्मभावेन परमानन्दमश्नुते

Nada Bindu Upanishad

Complete Upanishad, Verse 21

आत्मानं सततं ज्ञात्वा कालं नय महामते ।

प्रारब्धमखिलं भुञ्जन्नोद्वेगं कर्तुमर्हसि

Nada Bindu Upanishad

Complete Upanishad, Verse 22

उत्पन्ने तत्त्वविज्ञाने प्रारब्धं नैव मुञ्चति ।

तत्त्वज्ञानोदयादूर्ध्वं प्रारब्धं नैव विद्यते

Nada Bindu Upanishad

Complete Upanishad, Verse 23

देहादीनामसत्त्वात्तु यथा स्वप्नो विबोधतः ।

कर्म जन्मान्तरीयं यत्प्रारब्धमिति कीर्तितम्

Nada Bindu Upanishad

Complete Upanishad, Verse 24

तत्तु जन्मान्तराभावात्पुंसो नैवास्ति कर्हिचित् ।

स्वप्नदेहो यथाध्यस्तस्तथैवायं हि देहकः

Nada Bindu Upanishad

Complete Upanishad, Verse 25

अध्यस्तस्य कुतो जन्म जन्माभावे कुतः स्थितिः ।

उपादानं प्रपञ्चस्य मृद्भाण्डस्येव पश्यति

Nada Bindu Upanishad

Complete Upanishad, Verse 26

अज्ञानं चेति वेदान्तैस्तस्मिन्नष्टे क्व विश्वता ।

यथा रज्जुअं परित्यज्य सर्पं गृह्णाति वै भ्रमात्

Nada Bindu Upanishad

Complete Upanishad, Verse 27

तद्वत्सत्यमविज्ञाय जगत्पश्यति मूढधीः ।

रज्जुखण्डे परिज्ञाते सर्परूपं न तिष्ठति

Nada Bindu Upanishad

Complete Upanishad, Verse 28

अधिष्ठाने तथा ज्ञाते प्रपञ्चे शून्यतां गते ।

देहस्यापि प्रपञ्चत्वात्प्रारब्धावस्थितिः कृतः

Nada Bindu Upanishad

Complete Upanishad, Verse 29

अज्ञानजनबोधार्थं प्रारब्धमिति चोच्यते ।

ततः कालवशादेव प्रारब्धे तु क्षयं गते

Nada Bindu Upanishad

Complete Upanishad, Verse 30

ब्रह्मप्रणवसन्धानं नादो ज्योतिर्मयः शिवः ।

स्वयमाविर्भवेदात्मा मेघापायेंऽशुमानिव