Mudgala Upanishad

Complete Upanishad

Containing 11 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mudgala Upanishad

Complete Upanishad, Verse 1

मुद्गलोपनिषत्

श्रीमत्पुरुषसूक्तार्थं पूर्णानन्दकलेवरम् ।

पुरुषोत्तमविख्यातं पूर्णं ब्रह्म भवाम्यहम् ॥

ॐ वाङ् मे मनसि प्रतिष्ठिता

मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि ॥

वेदस्य म आणीस्थः ।

श्रुतं मे मा प्रहासीरनेनाधीते-

नाहोरात्रान्सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि ॥

तन्मामवतु तद्वक्तारमवतु अवतु मामवतु वक्तारमवतु वक्तारम् ॥

ॐ पुरुषसूक्तार्थनिर्णयं व्याख्यास्यामः

पुरुषसंहितायां पुरुषसूक्तार्थः संग्रहेण प्रोच्यते ।

सहस्रशीर्षेत्यत्र सशब्दोऽनन्तवाचकः ।

अनन्तयोजनं प्राह दशाङ्गुलवचस्तथा

Mudgala Upanishad

Complete Upanishad, Verse 2

तस्य प्रथमया विष्णोर्देशतो व्याप्तिरीरिता ।

द्वितीयया चास्य विष्णोः कालतो व्याप्तिरुच्यते

Mudgala Upanishad

Complete Upanishad, Verse 3

विष्णोर्मोक्षप्रदत्वं च कथितं तु तृतीयया ।

एतावानिति मन्त्रेण वैभवं कथितं हरेः

Mudgala Upanishad

Complete Upanishad, Verse 4

एतेनैव च मन्त्रेण चतुर्व्यूहो विभाषितः ।

त्रिपादित्यनया प्रोक्तमनिरुद्धस्य वैभवम्

Mudgala Upanishad

Complete Upanishad, Verse 5

तस्माद्विराडित्यनया पादनारायणाद्धरेः ।

प्रकृतेः पुरुषस्यापि समुत्पत्तिः प्रदर्शिता

Mudgala Upanishad

Complete Upanishad, Verse 6

यत्पुरुषेणेत्यनया सृष्टियज्ञः समीरितः ।

सप्तास्यासन्परिधयः समिधश्च समीरिताः

Mudgala Upanishad

Complete Upanishad, Verse 7

तं यज्ञमिति मन्त्रेण सृष्टियज्ञः समीरितः ।

अनेनैव च मन्त्रेण मोक्षश्च समुदीरितः

Mudgala Upanishad

Complete Upanishad, Verse 8

तस्मादिति च मन्त्रेण जगत्सृष्टिः समीरिता ।

वेदाहमिति मन्त्राभ्यां वैभवं कथितं हरेः

Mudgala Upanishad

Complete Upanishad, Verse 9

यज्ञेनेत्युपसंहारः सृष्टेर्मोक्षस्य चेरितः ।

य एवमेतज्जानाति स हि मुक्तो भवेदिति

Mudgala Upanishad

Complete Upanishad, Verse 10

१ ॥

अथ तथा मुद्गलोपनिषदि पुरुषसूक्तस्य वैभवं

विस्तरेण प्रतिपादितम् ।

वासुदेव इन्द्राय भगवज्ज्ञानमुपदिश्य

पुनरपि सूक्ष्मश्रवणाय प्रणतायेन्द्राय परमरहस्यभूतं

पुरुषसूक्ताभ्यां खण्डद्वयाभ्यामुपादिशत् ।

द्वौ खण्डावुच्येते ।

योऽय मुक्तः स पुरुषो

नामरूपज्ञानागोचरं संसारिणामतिदुर्ज्ञेयं

विषयं विहाय क्लेशादिभिः संक्लिष्टदेवादिजिहीर्षया

सहस्रकलावयवकल्याणं दृष्टमात्रेण मोक्षदं

वेषमाददे ।

तेन वेषेण भूम्यादिलोकं व्याप्यानन्त-

योजनमत्यतिष्ठत् ।

पुरुषो नारायणो भूतं भव्यं

भविष्यच्चासीत् ।

स च सर्वस्मान्महिम्नो ज्यायान् ।

तस्मान्न कोऽपि ज्यायान् ।

महापुरुष आत्मानं

चतुर्धा कृत्वा त्रिपादेन परमे व्योम्नि चासीत् ।

इतरेण

चतुर्थेनानिरुद्धनारायणेन विश्वान्यासन् ।

स च

पादनारायणो जगत्स्रष्टुं प्रकृतिमजनयत् ।

स

समृद्धकायः सन्सृष्टिकर्म न जज्ञिवान् ।

सोऽनिरुद्धनारायणस्तस्मै सृष्टिमुपादिशत् ।

ब्रह्मंस्तवेन्द्रियाणि याजकानि ध्यात्वा कोशभूतं

दृढं ग्रन्थिकलेवरं हविर्ध्यात्वा मां हविर्भुजं

ध्यात्वा वसन्तकालमाज्यं ध्यात्वा ग्रीष्ममिध्मं

ध्यात्वा शरदृतुं रसं ध्यात्वैवमग्नौ हुत्वाङ्ग-

स्पर्शात्कलेवरो वज्रं हीष्यते ।

ततः स्वकार्यान्सर्व-

प्राणिजीवान्सृष्ट्वा पश्वाद्याः प्रादुर्भविष्यन्ति ।

ततः स्थावरजङ्गमात्मकं जगद्भविष्यति ।

एतेन

जीवात्मनोर्योगेन मोक्षप्रकारश्च कथित इत्यनुसन्धेयम् ।

य इमं सृष्टियज्ञं जानाति मोक्षप्रकारं च

सर्वमायुरेति

Mudgala Upanishad

Complete Upanishad, Verse 11

एको देवो बहुधा निविष्ट अजायमानो बहुधा विजायते ।

तमेतमग्निरित्यध्वर्यव उपासते ।

यजुरित्येष हीदं

सर्वं युनक्ति ।

सामेति छन्दोगाः ।

एतस्मिन्हीदं सर्वं

प्रतिष्ठितम् ।

विषमिति सर्पाः ।

सर्प इति सर्पविदः ।

ऊर्गिति देवाः ।

रयिरिति मनुष्याः ।

मायेत्यसुराः ।

स्वधेति पितरः ।

देवजन इति देवजनविदः ।

रूपमिति गन्धर्वाः ।

गन्धर्व इति अप्सरसः ।

तं यथायथोपासते तथैव भवति ।

तस्माद्ब्राह्मणः पुरुषरूपं परंब्रह्मैवाहमिति

भावयेत् ।

तद्रूपो भवति ।

य एवं वेद