Mantrika Upanishad

Complete Upanishad

Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mantrika Upanishad

Complete Upanishad, Verse 1

मन्त्रिकोपनिषत्

स्वाविद्याद्वयतत्कार्यापह्नवज्ञानभासुरम् ।

मन्त्रिकोपनिषद्वेद्यं रामचन्द्रमहं भजे ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ अष्टपादं शुचिं हंसं त्रिसूत्रमणुमव्ययम् ।

त्रिवर्त्मानं तेजसोहं सर्वतःपश्यन्न पश्यति

Mantrika Upanishad

Complete Upanishad, Verse 2

भूतसंमोहने काले भिन्ने तमसि वैखरे ।

अन्तः पश्यन्ति सत्त्वस्था निर्गुणं गुणगह्वरे

Mantrika Upanishad

Complete Upanishad, Verse 3

अशक्यः सोऽन्यथा द्रष्टुं ध्यायमानः कुमारकैः ।

विकारजननीमज्ञामष्टरूपामजां ध्रुवाम्

Mantrika Upanishad

Complete Upanishad, Verse 4

ध्यायतेऽध्यासिता तेन तन्यते प्रेर्यते पुनः ।

सूयते पुरुषार्थं च तेनैवाधिष्ठितं जगत्

Mantrika Upanishad

Complete Upanishad, Verse 5

गौरनाद्यन्तवती सा जनित्री भूतभाविनी ।

सितासिता च रक्ता च सर्वकामदुधा विभोः

Mantrika Upanishad

Complete Upanishad, Verse 6

पिबन्त्येनामविषयामविज्ञातां कुमारकाः ।

एकस्तु पिबते देवः स्वच्छन्दोऽत्र वशानुगः

Mantrika Upanishad

Complete Upanishad, Verse 7

ध्यानक्रियाभ्यां भगवान्भुङ्क्तेऽसौ प्रसहद्विभुः ।

सर्वसाधारणीं दोग्ध्रीं पीयमानां तु यज्वमिः

Mantrika Upanishad

Complete Upanishad, Verse 8

पश्यन्त्यस्यां महात्मानः सुवर्णं पिप्पलाशनम् ।

उदासीनं ध्रुवं हंसं स्नातकाध्वर्यवो जगुः

Mantrika Upanishad

Complete Upanishad, Verse 9

शंसन्तमनुशंसन्ति बह्वृचाः शास्त्रकोविदाः ।

रथन्तरं बृहत्साम सप्तवैधैस्तु गीयते

Mantrika Upanishad

Complete Upanishad, Verse 10

मन्त्रोपनिषदं ब्रह्म पदक्रमसमन्वितम् ।

पठन्ति भार्गवा ह्येते ह्यथर्वाणो भृगूत्तमाः

Mantrika Upanishad

Complete Upanishad, Verse 11

सब्रह्मचारिवृत्तिश्च स्तम्भोऽथ फलितस्तथा ।

अनड्वान्रोहितोच्छिष्टः पश्यन्तो बहुविस्तरम्

Mantrika Upanishad

Complete Upanishad, Verse 12

कालः प्राणश्च भगवान्मृत्युः शर्वो महेश्वरः ।

उग्रो भवश्च रुद्रश्च ससुरः सासुरस्तथा

Mantrika Upanishad

Complete Upanishad, Verse 13

प्रजापतिर्विराट् चैव पुरुषः सलिलमेव च ।

स्तूयते मन्त्रसंस्तुत्यैरथर्वविदितैर्विभुः

Mantrika Upanishad

Complete Upanishad, Verse 14

तं षड्विंशक इत्येते सप्तविंशं तथापरे ।

पुरुषं निर्गुणं साङ्ख्यमथर्वशिरसो विदुः

Mantrika Upanishad

Complete Upanishad, Verse 15

चतुर्विंशतिसंख्यातं व्यक्तमव्यक्तमेव च ।

अद्वैतं द्वैतमित्याहुस्त्रिधा तं पञ्चधा तथा

Mantrika Upanishad

Complete Upanishad, Verse 16

ब्रह्माद्यं स्थावरान्तं च पश्यन्ति ज्ञानचक्षुषः ।

तमेकमेव पश्यन्ति परिशुभ्रं विभुं द्विजाः

Mantrika Upanishad

Complete Upanishad, Verse 17

यस्मिन्सर्वमिदं प्रोतं ब्रह्म स्थावरजङ्गमम् ।

तस्मिन्नेव लयं यान्ति स्रवन्त्यः सागरे यथा

Mantrika Upanishad

Complete Upanishad, Verse 18

यस्मिन्भावाः प्रलीयन्ते लीनाश्चाव्यक्ततां ययुः ।

पश्यन्ति व्यक्ततां भूयो जायन्ते बुद्बुदा इव

Mantrika Upanishad

Complete Upanishad, Verse 19

क्षेत्रज्ञाधिष्ठितं चैव कारणैर्विद्यते पुनः ।

एवं स भगवान्देवं पश्यन्त्यन्ये पुनः पुनः