Maitri Upanishad

Maitri Upanishad

Containing 100 sacred Sanskrit shlokas with multi-author commentaries and translations.

Maitri Upanishad

Maitri Upanishad, Verse 1

मैत्रायण्युपनिषत्

॥

अथ मैत्रायण्युपनिषत् ॥

सामवेदीय सामान्य उपनिषत् ॥

वैराग्योत्थभक्तियुक्तब्रह्ममात्रप्रबोधतः ।

यत्पदं मुनयो यान्ति तत्त्रैपदमहं महः ॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोतमथो

बलमिन्द्रियाणि च ।

सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां

मा मा ब्रह्म

निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु तदात्मनि निरते य

उपनिषत्सु

धर्मास्ते मयि सन्तु ते मयि सन्तु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

मैत्रायणी कौषितकी बृहज्जाबालतापनी ।

कालाग्निरुद्रमैत्रेयी सुबालक्षुरमन्त्रिका ।

ॐ बृहद्रथो ह वै नाम राजा राज्ये ज्येष्ठं पुत्रं

निधापयित्वेदमशाश्वतं मन्यमानः शारीरं

वैराग्यमुपेतोऽरण्यं निर्जगाम स तत्र परमं तप

आस्थायादित्यमीक्षमाण ऊर्ध्वबाहुस्तिष्ठत्यन्ते सहस्रस्य

मुनिरन्तिकमाजगामाग्निरिवाधूमकस्तेजसा

निर्दहन्निवात्मविद्भगवाञ्छाकायन्य उत्तिष्ठोत्तिष्ठ वरं

वृणीश्वेति राजानमब्रवीत्स तस्मै नमस्कृत्योवाच

भगवन्नाहमात्मवित्त्वं तत्त्वविच्छृणुमो वयं स त्वं नो

ब्रूहीत्येतद्वृतं पुरस्तादशक्यं मा पृच्छ

प्रश्नमैक्ष्वाकान्यान्कामान्वृणीश्वेति शाकायन्यस्य

चरणवभिमृश्यमानो राजेमां गाथां जगाद

Maitri Upanishad

Maitri Upanishad, Verse 1

इति प्रथमः

प्रपाठकः ॥

अथ भगवाञ्छाकायन्यः सुप्रीतोऽब्रवीद्राजानं महाराज

बृहद्रथेक्ष्वाकुवंशध्वजशीर्षात्मजः कृतकृत्यस्त्वं

मरुन्नाम्नो विश्रुतोऽसीत्ययं वा व खल्वात्मा ते कतमो

भगवान्वर्ण्य इति तं होवाच इति

Maitri Upanishad

Maitri Upanishad, Verse 1

इति

द्वितीयः प्रपाठकः ॥

ते होचुर्भगवन्यद्येवमस्यात्मनो महिमानं सूचयसीत्यन्यो

वा परः कोऽयमात्मा सितासितैः कर्मफलैरभिभूयमानः

सदसद्योनिमापद्यत इत्यवाचीं वोर्ध्वां वा गतं

द्वन्द्वैरभिभूयमानः परिभ्रमतीति कतम एष इति

तान्होवाच

Maitri Upanishad

Maitri Upanishad, Verse 1

तृतीयः

प्रपाठकः ॥

ते ह खल्वथोर्ध्वरेतसोऽतिविस्मिता अतिसमेत्योचुर्भगवन्नमस्ते

त्वं नः शाधि त्वमस्माकं गतिरन्या न विद्यत इत्यस्य

कोऽतिथिर्भूतात्मनो येनेदं हित्वामन्येव सायुज्यमुपैति

तान्होवाच

Maitri Upanishad

Maitri Upanishad, Verse 1

अत्रैते श्लोका भवन्ति ॥

यथा निरिन्धनो वह्निः स्वयोनावुपशाम्यति ।

तथा वृत्तिक्षयाच्चित्तं स्वयोनावुपशाम्यति

Maitri Upanishad

Maitri Upanishad, Verse 1

चतुर्थः प्रपाठकः ॥

द्विधा वा एष आत्मानं बिभर्त्ययं यः प्राणो

यश्चासावादित्योऽथ द्वौ वा एतावास्तां पञ्चधा

नामान्तर्बहिश्चाहोरात्रे तौ व्यावर्तेते असौ वा आदित्यो

बहिरात्मान्तरात्मा प्राणो बहिरात्मा गत्यान्तरात्मनानुमीयते

।

गतिरित्येवं ह्याह यः

कश्चिद्विद्वानपहतपाप्माध्यक्षोऽवदातमनास्तन्निष्ठ

आवृत्तचक्षुः सोऽन्तरात्मागत्या बहिरात्मनोऽनुमीयते

गतिरित्येवं ह्याहाथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो

यः पश्यति मां हिरण्यवत्स एषोऽन्तरे हृत्पुष्कर

एवाश्रितोऽन्नमत्ति

Maitri Upanishad

Maitri Upanishad, Verse 1

इति पञ्चमः प्रपाठकः ॥

।

अथ प्रपाठक ६ ।

द्विधा वा एष आत्मानं बिभर्त्ययं यः प्राणो

यश्चासा आदित्योऽथ द्वौ वा एता अस्य पन्थाना

अन्तर्बहिश्चाहोरात्रेणैतौ व्यावर्तेते असौ वा आदित्यो

बहिरात्मान्तरात्मा प्राणोऽतो बहिरात्मक्या

गत्यान्तरात्मनोऽनुमीयते गतिरित्येवं हि आहाथ यः

कश्चिद्विद्वानपहतपाप्माऽक्षाध्यक्षोऽवदातमनास्तन्निष्ठ

आवृत्तचक्षुः सो अन्तरात्मक्या गत्या बहिरात्मनोऽनुमीयते

गतिरित्येवं ह आह अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो यः

पश्यतीमां हिरण्यवस्थात् स एषोऽन्तरे हृत्पुष्कर

एवाश्रितोऽन्नमत्ति

Maitri Upanishad

Maitri Upanishad, Verse 1

इति षष्ठः प्रपाठकः ॥

प्रपाठक ७ ।

अग्निर्गायत्रं त्रिवृद्रथन्तरं वसन्तः प्राणो नक्षत्राणि

वसवः पुरस्तादुद्यन्ति तपन्ति वर्षन्ति स्तुवन्ति पुनर्विश्नति

अन्तर्विवएणेक्षन्ति अचिन्त्योऽमूर्तो गभीरो

गुणभुग्भयोऽनिर्वृत्तिर्योगीश्वरः

सर्वज्ञो मघोऽप्रमेयोऽनाद्यन्तः श्रीमान् अजो धीमाननिर्देश्यः

सर्वसृक् सर्वस्यात्मा सर्वभुक् सर्वस्येशानः

सर्वस्यान्तरान्तरः

Maitri Upanishad

Maitri Upanishad, Verse 2

भगवन्नस्थिचर्मस्नायुमज्जामांसशुक्रशोणितश्लेष्माश्रुदू

षिते विण्मूत्रवातपित्तकफसङ्घाते दुर्गन्धे

निःसारेऽस्मिञ्छरीरे किं कामोपभोगैः

Maitri Upanishad

Maitri Upanishad, Verse 2

य एषो बाह्यावष्टम्भनेनोर्ध्वमुत्क्रान्तो

व्यथमानोऽव्यथमानस्तमः प्रणुदत्येष आत्मेत्याह

भगवानथ य एष सम्प्रसादोऽस्माञ्छरीरात्समुत्थाय

परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति

होवाचैतदमृतमभयमेतद्ब्रह्मेति

Maitri Upanishad

Maitri Upanishad, Verse 2

अस्ति खल्वन्योऽपरो भूतात्मा योऽयं सितासितैः

कर्मफलैरभिभूयमानः सदसदयोनिमापद्यत इत्यवाचीं

वोर्ध्वां गतिं द्वन्द्वैरभिभूयमानः

परिभ्रमतीत्यस्योपव्याख्यानं पञ्च तन्मात्राणि

भूतशब्देनोच्यन्ते पञ्च महाभूतानि

भूतशब्देनोच्यन्तेऽथ तेषां यः समुदायः

शरीरमित्युक्तमथ यो ह खलु वाव शरीरमित्युक्तं स

भूतात्मेत्युक्तमथास्ति तस्यात्मा बिन्दुरिव पुष्कर इति स वा

एषोऽभिभूतः

प्राकृत्यैर्गुणैरित्यतोऽभिभूतत्वात्संमूढत्वं

प्रयात्यसंमूढस्त्वादात्मस्थं प्रभुं भगवन्तं

कारयितारं नापश्यद्गुणौघैस्तृप्यमानः

कलुषीकृतास्थिरश्चञ्चलो लोलुप्यमानः सस्पृहो

व्यग्रश्चाभिमानत्वं प्रयात इत्यहं सो ममेदमित्येवं

मन्यमानो निबध्नात्यात्मनात्मानं जालेनैव खचरः

कृतस्यानुफलैरभिभूयमानः परिभ्रमतीति

Maitri Upanishad

Maitri Upanishad, Verse 2

अथान्यत्राप्युक्तं महानदीषूर्मय इव निवर्तकमस्य

यत्पुराकृतं समुद्रवेलेव दुर्निवार्यमस्य मृत्योरागमनं

सदसत्फलमयैर्हि पाशैः पशुरिव बद्धं

बन्धनस्थस्येवास्वातन्त्र्यं यमविषयस्थस्यैव

बहुभयावस्थं मदिरोन्मत्त इवामोदममदिरोन्मत्तं पाप्मना

गृहीत इव भ्राम्यमाणं महोरगदष्ट इव विपदृष्टं

महान्धकार इव रागान्धमिन्द्रजालमिव मायामयं स्वप्नमिव

मिथ्यादर्शनं कदलीगर्भ इवासारं नट इव क्षणवेषं

चित्रभित्तिरिव मिथ्यामनोरममित्यथोक्तम् ॥

शब्दस्पर्शादयो

येऽर्था अनर्था इव ते स्थिताः ।

येष्वासक्तस्तु भूतात्मा न

स्मरेच्च परं पदम्

Maitri Upanishad

Maitri Upanishad, Verse 2

स्वयोनावुपशान्तस्य मनसः सत्यगामिनः ।

इन्द्रियार्थाविमूढस्यानृताः कर्मवशानुगाः

Maitri Upanishad

Maitri Upanishad, Verse 2

अथ य एषोऽन्तरे हृत्पुष्कर एवाश्रितोऽन्नमत्ति स

एषोऽग्निर्दिवि श्रितः सौरः कालाख्योऽदृश्यः

सर्वभूतान्नमत्ति कः पुष्करः किमयं वेद वा व

तत्पुष्करं योऽयमाकाशोऽस्येमाश्चतस्रो दिशश्चतस्र

उपदिशः संस्था अयमर्वागग्निः परत एतौ

प्राणादित्यावेतावुपासीतोमित्यक्षरेण व्याहृतिभिः सावित्र्या

चेति

Maitri Upanishad

Maitri Upanishad, Verse 2

अथ य एषोऽन्तरे हृत्पुष्कर एवाश्रितोऽन्नमत्ति स एषोऽग्निर्दिवि

श्रितः सौरः कालाख्योऽदृश्यः सर्वभूतान्यन्नमत्तीति कः

पुष्करः

किंमयो वेति इअदं वा व तत्पुष्करं योऽयमाकाशोऽस्येमाः

चतस्रो दिशश्चतस्र उपदिशो दलसंस्था आसमर्वाग्विचरत एतौ

प्राणादित्या एता उपासितोमित्येतदक्षरेण व्याहृतिभिः

सावित्र्या चेति

Maitri Upanishad

Maitri Upanishad, Verse 2

इन्द्रस्त्रिष्टुप् पञ्चदशो बृहद्ग्रीष्मो व्यानः सोमो रुद्रा दक्षिणत

उद्यन्ति तपन्ति वर्षन्ति स्तुवन्ति पुनर्विशन्ति अन्तर्विवरेण

ईक्षन्ति : अनाद्यन्तोऽपरिमितोऽपरिच्छिन्नोऽपरप्रयोज्यः

स्वतन्त्रोऽलिङ्गोऽमूर्तोऽनन्तशक्तिर्धाता भास्करः

Maitri Upanishad

Maitri Upanishad, Verse 3

कामक्रोधलोभभयविषादेर्ष्येष्टवियोगानिष्टसम्प्रयोगक्षु

त्पिपासाजरामृत्युरोगशोकाद्यैरभिहतेऽस्मिञ्छरीरे किं

कामोपभोगैः

Maitri Upanishad

Maitri Upanishad, Verse 3

अथ खल्वियं ब्रह्मविद्या सर्वोपनिषद्विद्या वा राजन्नस्माकं

भगवता मैत्रेयेण व्याख्याताहं ते

कथयिष्यामीत्यथापहतपाप्मानस्तिग्मतेजस ऊर्ध्वरेतसो

वालखिल्या इति श्रुयन्तेऽथैते

प्रजापतिमब्रुवन्भगवञ्शकटमिवाचेतनमिदं शरीरं

कस्यैष खल्वीदृशो महिमातीन्द्रियभूतस्य

येनैतद्विधमिदं चेतनवत्प्रतिष्ठापितं प्रचोदयितास्य को

भगवन्नेतदस्माकं ब्रूहीति तान्होवाच

Maitri Upanishad

Maitri Upanishad, Verse 3

अथान्यत्राप्युक्तं यः कर्ता सोऽयं वै भूतात्मा करणैः

कारयितान्तःपुरुषोऽथ यथाग्निनायःपिण्डो वाभिभूतः

कर्तृभिर्हन्यमानो नानात्वमुपैत्येवं वाव खल्वसौ

भूतात्मान्तःपुरुषेणाभिभूतो गुणैर्हन्यमानो

नानात्वमुपैत्यथ यत्त्रिगुणं चतुरशीतिलक्षयोनिपरिणतं

भूतत्रिगुणमेतद्वै नानात्वस्य रूपं तानि ह वा इमानि

गुणानि पुरुषेणेरितानि चक्रमिव चक्रिणेत्यथ यथायःपिण्डे

हन्यमाने नाग्निरभिभूयत्येवं नाभिभूयत्यसौ

पुरुषोऽभिभूयत्ययं भूतात्मोपसंश्लिष्टत्वादिति

Maitri Upanishad

Maitri Upanishad, Verse 3

अयं वा व खल्वस्य प्रतिविधिर्भूतात्मनो यद्येव

विद्याधिगमस्य धर्मस्यानुचरणं स्वाश्रमेष्वानुक्रमणं

स्वधर्म एव सर्वं धत्ते

स्तम्भशाखेवेतराण्यनेनोर्ध्वभाग्भवत्यन्यथधः पतत्येष

स्वधर्माभिभूतो यो वेदेषु न स्वधर्मातिक्रमेणाश्रमी

भवत्याश्रमेष्वेवावस्थितस्तपस्वी चेत्युच्यत एतदप्युक्तं

नातपस्कस्यात्मध्यानेऽधिगमः कर्मशुद्धिर्वेत्येवं ह्याह ॥

तपसा प्राप्यते सत्त्वं सत्त्वात्सम्प्राप्यते मनः ।

मनसा प्राप्यते त्वात्मा ह्यात्मापत्त्या निवर्तत इति

Maitri Upanishad

Maitri Upanishad, Verse 3

चित्तमेव हि संसारस्तत्प्रयत्नेन शोधयेत् ।

यच्चित्तस्तन्मयो भवति गुह्यमेतत्सनातनम्

Maitri Upanishad

Maitri Upanishad, Verse 3

द्वे वाव ब्रह्मणो रूपे मूर्तं चामूर्तं चाथ यन्मूर्तं

तदसत्यं यदमूर्तं तत्सत्यं तद्ब्रह्म यद्ब्रह्म

तज्ज्योतिर्यज्ज्योतिः स आदित्यः स वा एष ओमित्येतदात्मा स

त्रेधात्मानं व्यकुरुत ओमिति तिस्रो मात्रा एताभिः सर्वमिदमोतं

प्रोतं चैवास्मिन्नित्येवं ह्याहैतद्वा आदित्य ओमित्येवं

ध्यायंस्तथात्मानं युञ्जीतेति

Maitri Upanishad

Maitri Upanishad, Verse 3

द्वे वाव ब्रह्मणो रूपे मूर्तं चामूर्तं च ।

अथ यन्मूर्तं

तदसत्यम् यदमूर्तं तत्सत्यम् तद्ब्रह्म तज्ज्योतिः यज्ज्योतिः स

आदित्यः स वा एष ओमित्येतदात्माभवत् स त्रेधात्मानं व्याकुरुत

ओमिति तिस्रो मात्रा एताभिः सर्वमिदमोतं प्रोतं चैवास्मीति एवं

ह्याहैतद्वा आदित्य ओमित्येवं ध्यायत आत्मानं युञ्जीतेति

Maitri Upanishad

Maitri Upanishad, Verse 3

मरुतो जगती सप्तदशो वैरूपम् वर्षा अपानः शुक्र

आदित्याः पश्चादुद्यन्ति तपन्ति वर्षन्ति स्तुवन्ति पुनर्विशन्ति

अन्तर्विवरेणेक्षन्ति तच्छान्तमशब्दमभयमशोकमानन्दम् तृप्तम्

स्थिरमचलममृतमच्युतम् ध्रुवम् विष्णुसंज्ञितम् सर्वापरं

धाम

Maitri Upanishad

Maitri Upanishad, Verse 4

सर्वं चेदं क्षयिष्णु पश्यामो यथेमे

दंशमशकादयस्तृणवन्नश्यतयोद्भूतप्रध्वंसिनः

Maitri Upanishad

Maitri Upanishad, Verse 4

यो ह खलु वाचोपरिस्थः श्रूयते स एव वा एष शुद्धः

पूतः शून्यः शान्तो प्राणोऽनीशत्माऽनन्तोऽक्षय्यः स्थिरः

शाश्वतोऽजः स्वतन्त्रः स्वे महिम्नि तिष्ठत्यनेनेदं शरीरं

चेतनवत्प्रतिष्ठापितं प्रचोदयिता चैषोऽस्येति ते

होचुर्भगवन्कथमनेनेदृशेनानिच्छेनैतद्विधमिदं

चेतनवत्प्रतिष्ठापितं प्रचोदयिता चैषोऽस्येति कथमिति

तान्होवाच

Maitri Upanishad

Maitri Upanishad, Verse 4

अथान्यत्राप्युक्तं शरीरमिदं मैथुनादेवोद्भूतं

संविदपेतं निरय एव मूत्रद्वारेण

निष्क्रामन्तमस्थिभिश्चितं मांसेनानुलिप्तं

चर्मणावबद्धं विण्मूत्रपित्तकफमज्जामेदोवसाभिरन्यैश्च

मलैर्बहुभिः परिपूर्णं कोश इवावसन्नेति

Maitri Upanishad

Maitri Upanishad, Verse 4

चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् ।

प्रसन्नात्मात्मनि स्थित्वा सुखमव्ययमश्नुते

Maitri Upanishad

Maitri Upanishad, Verse 4

अथान्यत्राप्युक्तमथ खलु य उद्गीथः स प्रणवो यः प्रणवः

स उद्गीथ इत्यसावादित्य उद्गीथ एव प्रणव इत्येवं

ह्याहोद्गीथः प्रणवाख्यं प्रणेतारं नामरूपं विगतनिद्रं

विजरमविमृत्युं पुनः पञ्चधा ज्ञेयं निहितं

गुहायामित्येवं ह्याहोर्ध्वमूलं वा आब्रह्मशाखा

आकाशवाय्वग्न्युदकभूम्यादय एकेनात्तमेतद्ब्रह्म

तत्तस्यैतत्ते यदसावादित्य ओमित्येतदक्षरस्य

चैतत्तस्मादोमित्यनेनैतदुपासीताजस्रमित्येकोऽस्य रसं

बोधयीत इत्येवं ह्याहैतदेवाक्षरं पुण्यमेतदेवाक्षरं

ज्ज्ञात्वा यो यदिच्छति तस्य तत्

Maitri Upanishad

Maitri Upanishad, Verse 4

अथान्यत्रापि उक्तमथ खलु य उद्गीथः स प्रणवो यः प्रणवः

स उद्गीथ इति असौ वा आदित्य उद्गीथ एष प्रणवा इति ।

एवं

ह्याहोद्गीथं प्रणवाख्यं प्रणेतारं भारूपं

विगतनिद्रं विजरं विमृत्युं

त्रिपदं त्र्यक्षरं पुनः पञ्चधा ज्ञेयं निहितं गुहायामित्येवं

ह्याहोर्ध्वमूलं त्रिपाद्ब्रह्म शाखा आकाश वाय्वग्न्युदकभूम्यादय

एकोऽश्वत्थनामैतद्ब्रह्मैतस्यैतत्तेजो यदसा आदित्यः ओमित्येतदक्षरस्य

चैतत्तस्मादोमित्यनेनैतदुपासीताजस्रमित्येकोऽस्य सम्बोधयितेत्येवं

ह्याह :

एतदेवाक्षरं पुण्यमेतदेवाक्षरं परम् ।

एतदेवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥