Maitreya Upanishad

Complete Upanishad

Containing 74 sacred Sanskrit shlokas with multi-author commentaries and translations.

Maitreya Upanishad

Complete Upanishad, Verse 1

मैत्रेय्युपनिषत्

श्रुत्याचार्योपदेशेन मुनयो यत्पदं ययुः ।

तत्स्वानुभूतिसंसिद्धं स्वमात्रं ब्रह्म भावये ॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रम् ।

अथो बलमिन्द्रियाणि च सर्वाणि सर्वं ब्रह्मोपनिषदं

माहं ब्रह्म निराकुर्याम् ।

मा मा ब्रह्म निराकरो-

दनिराकरणमस्तु ।

अनिराकरणं मेऽस्तु ।

तदात्मनि निरते

ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ बृहद्रथो वै नाम राजा राज्ये ज्येष्ठं

पुत्रं निधापयित्वेदमशाश्वतं मन्यमानः

शरीरं वैराग्यमुपेतोऽरण्यं निर्जगाम ।

स तत्र

परमं तप आस्थायादित्यमीक्षमाण ऊर्ध्वबाहु-

स्तिष्ठत्यन्ते सहस्रस्य मुनिरन्तिकमाजगामाग्नि

रिवाधूमकस्तेजसा निर्दहन्निवात्मविद्भगवाञ्छा-

कायन्य उत्तिष्ठोत्तिष्ठ वरं वृणीश्वेति

राजानमब्रवीत्स तस्मै नमस्कृत्योवाच

भगवन्नाहमात्मवित्त्वं तत्त्वविच्छृणुमो वयं

स त्वं नो ब्रूहीत्येतद्वृत्तं पुरस्तादशक्यं मा

पृच्छ प्रश्नमैक्ष्वाकान्यान्कामान्वृणीश्वेति

शाकायन्यस्य चरणावभिमृश्यमानो

राजेमां गाथां जगाद

Maitreya Upanishad

Complete Upanishad, Verse 2

अथ किमएतैर्मान्यनां शोषणं महार्णवानां

शिखरिणां प्रपतनं ध्रुवस्य प्रचलनं स्थानं

वा तरूणां निमज्जनं पृथिव्याः स्थानादपसरणं

सुराणां सोऽहमित्येतद्विधेऽस्मिन्संसारे किं

कामोपभोगैर्यैरेवाश्रितस्यासकृदुपावर्तनं

दृश्यत इत्युद्धर्तुमर्हसीत्यन्धोदपानस्थो भेक

इवाहमस्मिन्संसारे भगवंस्त्वं नो गतिरिति

Maitreya Upanishad

Complete Upanishad, Verse 3

भगवञ्शरीरमिदं मैथुनादेवोद्भूतं संविदपेतं

निरय एव मूत्रद्वारेण निष्क्रान्तमस्थिभिश्चितं

मांसेनानुलिप्तं चर्मणावबद्धं विण्मूत्रवातपित्त-

कफमज्जामेदोवसाभिरन्यैश्च मलैर्बहुभिः

परिपूर्णमेतादृशे शरीरे वर्तमानस्य भगवंस्त्वं

नो गतिरिति

Maitreya Upanishad

Complete Upanishad, Verse 4

अथ भगवाञ्छकायन्यः सुप्रीतोऽब्रवीद्राजानं

महाराज बृहद्रथेक्ष्वाकुर्वंशध्वजशीर्षात्मज्ञः

कृतकृत्यस्त्वं मरुन्नाम्नो विश्रुतोऽसीत्ययं

खल्वात्मा ते कतमो भगवान्वर्ण्य इति तं होवाच ॥

शब्दस्पर्शमया येऽर्था अनर्था इव ते स्थिताः ।

येषां सक्तस्तु भूतात्मा न स्मरेच्च परं पदम्

Maitreya Upanishad

Complete Upanishad, Verse 5

तपसा प्राप्यते सत्त्वं सत्त्वात्सम्प्राप्यते मनः ।

मनसा प्राप्यते ह्यात्मा ह्यात्मापत्त्या निवर्तते

Maitreya Upanishad

Complete Upanishad, Verse 6

यथा निरिन्धनो वह्निः स्वयोनावुपशाम्यति ।

तथा वृत्तिक्षयच्चित्तं स्वयोनावुपशाम्यति

Maitreya Upanishad

Complete Upanishad, Verse 7

स्वयोनावुपशान्तस्य मनसः सत्यगामिनः ।

इन्द्रियार्थविमूढस्यानृताः कर्मवशानुगाः

Maitreya Upanishad

Complete Upanishad, Verse 8

चित्तमेव हि संसारस्तत्प्रयत्नेन शोधयेत् ।

यच्चित्तस्तन्मयो भवति गुह्यमेतत्सनातनम्

Maitreya Upanishad

Complete Upanishad, Verse 9

चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् ।

प्रसन्नात्मात्मनि स्थित्वा सुखमक्षयमश्नुते

Maitreya Upanishad

Complete Upanishad, Verse 10

समासक्तं यदा चित्तं जन्तोर्विषयगोचरम् ।

यद्येवं ब्रह्मणि स्यात्तत्को न मुच्येत बन्धनात्

Maitreya Upanishad

Complete Upanishad, Verse 11

हृत्पुण्डरीकमध्ये तु भावयेत्परमेश्वरम् ।

साक्षिणं बुद्धिवृत्तस्य परमप्रेमगोचरम्

Maitreya Upanishad

Complete Upanishad, Verse 12

अगोचरं मनोवाचामवधूतादिसम्प्लवम् ।

सत्तामात्रप्रकाशैकप्रकाशं भावनातिगम्

Maitreya Upanishad

Complete Upanishad, Verse 13

अहेयमनुपादेयमसामान्यविशेषणम् ।

ध्रुवं स्तिमितगम्भीरं न तेजो न तमस्ततम् ।

निर्विकल्पं निराभासं निर्वाणमयसंविदम्

Maitreya Upanishad

Complete Upanishad, Verse 14

नित्यः शुद्धो बुद्धमुक्तस्वभावः

सत्यः सूक्ष्मः संविभुश्चाद्वितीयः ।

आनन्दाब्धिर्यः परः सोऽह-

मस्मि प्रत्यग्धातुर्नात्र संशीतिरस्ति

Maitreya Upanishad

Complete Upanishad, Verse 15

आनन्दमन्तर्निजमाश्रयं त-

माशापिशाचीमवमनयन्तम् ।

आलोकयन्तं जगदिन्द्रजाल-

मापत्कथं मां प्रविशेदसङ्गम्

Maitreya Upanishad

Complete Upanishad, Verse 16

वर्णाश्रमाचारयुता विमूढाः

कर्मानुसारेण फलं लभन्ते ।

वर्णादिधर्मं हि परित्यजन्तः

स्वानन्दतृप्ताः पुरुषा भवन्ति

Maitreya Upanishad

Complete Upanishad, Verse 17

वर्णाश्रमं सावयवं स्वरूप-

माद्यन्तयुक्तं ह्यतिकृच्छ्रमात्रम् ।

पुत्रादिदेहेष्वभिमानशून्यं

भूत्वा वसेत्सौख्यतमे ह्यनन्त इति

Maitreya Upanishad

Complete Upanishad, Verse 18

४ ॥

इति प्रथमोऽध्यायः

Maitreya Upanishad

Complete Upanishad, Verse 19

अथ भगवान्मैत्रेयः कैलासं जगाम तं गत्वोवाच

भो भगवन्परमतत्त्वरहस्यमनुब्रूहीति ॥

स होवाच महादेवः ॥

देहो देवालयः प्रोक्तः स जीवः केवलः शिवः ।

त्यजेदज्ञाननिर्माल्यं सोऽहम्भावेन पूजयेत्

Maitreya Upanishad

Complete Upanishad, Verse 20

अभेददर्शनं ज्ञानं ध्यानं निर्विषयं मनः ।

स्नानं मनोमलत्यागः शौचमिन्द्रियनिग्रहः

Maitreya Upanishad

Complete Upanishad, Verse 21

ब्रह्मामृतं पिबेद्भैक्षमाचरेद्देहरक्षणे ।

वसेदेकान्तिको भूत्वा चैकान्ते द्वैतवर्जिते ।

इत्येवमाचरेद्धीमान्स एवं मुक्तिमाप्नुयात्

Maitreya Upanishad

Complete Upanishad, Verse 22

जातं मृतमिदं देहं मातापितृमलात्मकम् ।

सुखदुःखालयामेध्यं स्पृष्ट्वा स्नानं विधीयते

Maitreya Upanishad

Complete Upanishad, Verse 23

धातुबद्धं महारोगं पापमन्दिरमध्रुवम् ।

विकाराकारविस्तीर्णं स्पृष्ट्वा स्नानं विधीयते

Maitreya Upanishad

Complete Upanishad, Verse 24

नवद्वारमलस्रावं सदा काले स्वभावजम् ।

दुर्गन्धं दुर्मलोपेतं स्पृष्ट्वा स्नानं विधीयते

Maitreya Upanishad

Complete Upanishad, Verse 25

मातृसूतकसम्बन्धं सूतके सह जायते ।

मृतसूतकजं देहं स्पृष्ट्वा स्नानं विधीयते

Maitreya Upanishad

Complete Upanishad, Verse 26

अहम्ममेति विण्मूत्रलेपगन्धादिमोचनम् ।

शुद्धशौचमिति प्रोक्तं मृज्जलाभ्यां तु लौकिकम्

Maitreya Upanishad

Complete Upanishad, Verse 27

चित्तशुद्धिकरं शौचं वासनात्रयनाशनम् ।

ज्ञानवैराग्यमृत्तोयैः क्षालनाच्छौचमुच्यते

Maitreya Upanishad

Complete Upanishad, Verse 28

अद्वैतभावनाभैक्षमभक्ष्यं द्वैतभावनम् ।

गुरुशास्त्रोक्तभावेन भिक्षोर्भैक्षं विधीयते

Maitreya Upanishad

Complete Upanishad, Verse 29

विद्वान्स्वदेशमुत्सृज्य संन्यासानन्तरं स्वतः ।

कारागारविनिर्मुक्तचोरवद्दूरतो वसेत्

Maitreya Upanishad

Complete Upanishad, Verse 30

अहङ्कारसुतं वित्तभ्रातरं मोहमन्दिरम् ।

आशापत्नी त्यजेद्यावत्तावन्मुक्तो न संशयः