Maitrayani Upanishad

Complete Upanishad

Containing 99 sacred Sanskrit shlokas with multi-author commentaries and translations.

Maitrayani Upanishad

Complete Upanishad, Verse 1

मैत्रायण्युपनिषत्

॥

अथ मैत्रायण्युपनिषत् ॥

वैराग्योत्थभक्तियुक्तब्रह्ममात्रप्रबोधतः ।

यत्पदं मुनयो यान्ति तत्त्रैपदमहं महः ॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोतमथो

बलमिन्द्रियाणि च ।

सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां

मा मा ब्रह्म

निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु तदात्मनि निरते य

धर्मास्ते मयि सन्तु ते मयि सन्तु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

मैत्रायणी कौषितकी बृहज्जाबालतापनी ।

कालाग्निरुद्रमैत्रेयी सुबालक्षुरमन्त्रिका ।

ॐ बृहद्रथो ह वै नाम राजा राज्ये ज्येष्ठं पुत्रं

निधापयित्वेदमशाश्वतं मन्यमानः शारीरं

वैराग्यमुपेतोऽरण्यं निर्जगाम स तत्र परमं तप

आस्थायादित्यमीक्षमाण ऊर्ध्वबाहुस्तिष्ठत्यन्ते सहस्रस्य

मुनिरन्तिकमाजगामाग्निरिवाधूमकस्तेजसा

निर्दहन्निवात्मविद्भगवाञ्छाकायन्य उत्तिष्ठोत्तिष्ठ वरं

वृणीश्वेति राजानमब्रवीत्स तस्मै नमस्कृत्योवाच

भगवन्नाहमात्मवित्त्वं तत्त्वविच्छृणुमो वयं स त्वं नो

ब्रूहीत्येतद्वृतं पुरस्तादशक्यं मा पृच्छ

प्रश्नमैक्ष्वाकान्यान्कामान्वृणीश्वेति शाकायन्यस्य

चरणवभिमृश्यमानो राजेमां गाथां जगाद

Maitrayani Upanishad

Complete Upanishad, Verse 2

भगवन्नस्थिचर्मस्नायुमज्जामांसशुक्रशोणितश्लेष्माश्रुदू

षिते विण्मूत्रवातपित्तकफसङ्घाते दुर्गन्धे

निःसारेऽस्मिञ्छरीरे किं कामोपभोगैः

Maitrayani Upanishad

Complete Upanishad, Verse 3

कामक्रोधलोभभयविषादेर्ष्येष्टवियोगानिष्टसम्प्रयोगक्षु

त्पिपासाजरामृत्युरोगशोकाद्यैरभिहतेऽस्मिञ्छरीरे किं

कामोपभोगैः

Maitrayani Upanishad

Complete Upanishad, Verse 4

सर्वं चेदं क्षयिष्णु पश्यामो यथेमे

दंशमशकादयस्तृणवन्नश्यतयोद्भूतप्रध्वंसिनः

Maitrayani Upanishad

Complete Upanishad, Verse 5

अथ किमेतैर्वा परेऽन्ये महाधनुर्धराश्चक्रवर्तिनः

केचित्सुद्युम्नभूरिद्युम्नेन्द्रद्युम्नकुवलयाश्वयौवनाश्ववद्धिया

श्वाश्वपतिः शशबिन्दुर्हारिश्चन्द्रोऽम्बरीषो

ननूक्तस्वयातिर्ययातिनरण्योक्षसेनोत्थमरुत्तभरतप्रभृतयो

राजानो मिषतो बन्धुवर्गस्य महतीं श्रियं

त्यक्त्वास्माल्लोकादमुं लोकं प्रयान्ति

Maitrayani Upanishad

Complete Upanishad, Verse 6

अथ किमेतैर्वा परेऽन्ये

गन्धर्वासुरयक्षराक्षसभूतगणपिशाचोरगग्रहादीनां

निरोधनं पश्यामः

Maitrayani Upanishad

Complete Upanishad, Verse 7

अथ किमेतैर्वान्यानां शोषणं महार्णवानां शिखरिणां

प्रपतनं ध्रुवस्य प्रचलनं स्थानं वा तरूणां

निमज्जनं पृथिव्याः स्थानादपसरणं सुराणं

सोऽहमित्येतद्विधेऽस्मिन्संसारे किं

कामोपभोगैर्यैरेवाश्रितस्यासकृदिहावर्तनं दृश्यत

इत्युद्धर्तुमर्हसीत्यन्धोदपानस्थो भेक इवाहमस्मिन्संसारे

भगवंस्त्वं नो गतिस्त्वं नो गतिः

Maitrayani Upanishad

Complete Upanishad, Verse 8

इति प्रथमः

प्रपाठकः ॥

अथ भगवाञ्छाकायन्यः सुप्रीतोऽब्रवीद्राजानं महाराज

बृहद्रथेक्ष्वाकुवंशध्वजशीर्षात्मजः कृतकृत्यस्त्वं

मरुन्नाम्नो विश्रुतोऽसीत्ययं वा व खल्वात्मा ते कतमो

भगवान्वर्ण्य इति तं होवाच इति

Maitrayani Upanishad

Complete Upanishad, Verse 9

य एषो बाह्यावष्टम्भनेनोर्ध्वमुत्क्रान्तो

व्यथमानोऽव्यथमानस्तमः प्रणुदत्येष आत्मेत्याह

भगवानथ य एष सम्प्रसादोऽस्माञ्छरीरात्समुत्थाय

परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति

होवाचैतदमृतमभयमेतद्ब्रह्मेति

Maitrayani Upanishad

Complete Upanishad, Verse 10

अथ खल्वियं ब्रह्मविद्या सर्वोपनिषद्विद्या वा राजन्नस्माकं

भगवता मैत्रेयेण व्याख्याताहं ते

कथयिष्यामीत्यथापहतपाप्मानस्तिग्मतेजस ऊर्ध्वरेतसो

वालखिल्या इति श्रुयन्तेऽथैते

प्रजापतिमब्रुवन्भगवञ्शकटमिवाचेतनमिदं शरीरं

कस्यैष खल्वीदृशो महिमातीन्द्रियभूतस्य

येनैतद्विधमिदं चेतनवत्प्रतिष्ठापितं प्रचोदयितास्य को

भगवन्नेतदस्माकं ब्रूहीति तान्होवाच

Maitrayani Upanishad

Complete Upanishad, Verse 11

यो ह खलु वाचोपरिस्थः श्रूयते स एव वा एष शुद्धः

पूतः शून्यः शान्तो प्राणोऽनीशत्माऽनन्तोऽक्षय्यः स्थिरः

शाश्वतोऽजः स्वतन्त्रः स्वे महिम्नि तिष्ठत्यनेनेदं शरीरं

चेतनवत्प्रतिष्ठापितं प्रचोदयिता चैषोऽस्येति ते

होचुर्भगवन्कथमनेनेदृशेनानिच्छेनैतद्विधमिदं

चेतनवत्प्रतिष्ठापितं प्रचोदयिता चैषोऽस्येति कथमिति

तान्होवाच

Maitrayani Upanishad

Complete Upanishad, Verse 12

स वा एष सूक्ष्मोऽग्राह्योऽदृश्यः पुरुषसंज्ञको

बुद्धिपूर्वमिहैवावर्ततेंऽशेन सुषुप्तस्यैव बुद्धिपूर्वं

निबोधयत्यथ योह खलु वावाइतस्यांशोऽयं

यश्चेतनमात्रः प्रतिपूरुषं क्षेत्रज्ञः

सङ्कल्पाध्यवसायाभिमानलिङ्गः प्रजापतिर्विश्वक्षस्तेन

चेतनेनेदं शरीरं चेतनवत्प्रतिष्ठापितं प्रचोदयिता

चैषोऽस्येति ते होचुर्भगवन्नीदृशस्य कथमंशेन

वर्तनमिति तान्होवाच

Maitrayani Upanishad

Complete Upanishad, Verse 13

प्रजापतिर्वा एषोऽग्रेऽतिष्ठत्स नारमतैकः स

आत्मनमभिध्यायद्बव्हीः प्रजा असृजत्त अस्यैवात्मप्रबुद्धा

अप्राणा स्थाणुरिव तिष्ठमाना अपश्यत्स नारमत

सोऽमन्यतैतासं प्रतिबोधनायाभ्यन्तरं प्राविशानीत्यथ स

वायुमिवात्मानं कृत्वाभ्यन्तरं प्राविशत्स एको नाविशत्स

पञ्चधात्मानं प्रविभज्योच्यते यः प्राणोऽपानः समान

उदानो व्यान इति

Maitrayani Upanishad

Complete Upanishad, Verse 14

अथ योऽयमूर्ध्वमुत्क्रामतीत्येष वाव स प्राणोऽथ

योयमावञ्चं संक्रामत्वेष वाव सोऽपानोऽथ योयं

स्थविष्ठमन्नधातुमपाने स्थापयत्यणिष्ठं चाङ्गेऽङ्गे

समं नयत्येष वाव स समानोऽथ योऽयं पीताशितमुद्गिरति

निगिरतीति चैष वाव स उदानोऽथ येनैताः शिरा

अनुव्याप्ता एष वाव स व्यानः

Maitrayani Upanishad

Complete Upanishad, Verse 15

अथोपांशुरन्तर्याम्यमिभवत्यन्तर्याममुपांशुमेतयोरन्तराले

चौष्ण्यं मासवदौष्ण्यं स पुरुषोऽथ यः पुरुषः

सोऽग्निर्वैश्वानरोऽप्यन्यत्राप्युक्तमयमग्निर्वैश्वानरो

योऽयमनन्तः पुरुषो येनेदमन्नं पच्यते यदिदमद्यते

तस्यैष घोषो भवति यदेतत्कर्णावपिधाय श‍ृणोति स

यदोत्क्रमिष्यन्भवति नैनं घोषं श‍ृणोति

Maitrayani Upanishad

Complete Upanishad, Verse 16

स वा एष पञ्चधात्मानं प्रविभज्य निहितो गुहायां

मनोमयः प्राणशरीरो बहुरूपः सत्यसं कल्प आत्मेति स वा

एषोऽस्य हृदन्तरे तिष्ठन्नकृतार्थोऽमन्यतार्थानसानि

तत्स्वानीमानि भित्त्वोदितः पञ्चभी रश्मिभिर्विषयानत्तीति

बुद्धीन्द्रियाणि यानीमान्येतान्यस्य रश्मयः कर्मेन्द्रियाण्यस्य

हया रथः शरीरं मनो नियन्ता प्रकृतिमयोस्य प्रतोदनेन

खल्वीरितं परिभ्रमतीदं शरीरं चक्रमिव मृते च

नेदं शरीरं चेतनवत्प्रतिष्ठापितं प्रचोदयिता

चैषोऽस्येति

Maitrayani Upanishad

Complete Upanishad, Verse 17

स वा एष आत्मेत्यदो वशं नीत इव सितासितैः

कर्मफलैरभिभूयमान इव प्रतिशरीरेषु

चरत्यव्यक्तत्वात्सूक्ष्मत्वाददृश्यत्वादग्राह्यत्वान्निर्ममत्वा

च्चानवस्थोऽकर्ता कर्तेवावस्थितः

Maitrayani Upanishad

Complete Upanishad, Verse 18

स वा एष शुद्धः स्थिरोऽचलश्चालेपोऽव्यग्रो निःस्पृहः

प्रेक्षकवदवस्थितः स्वस्य चरितभुग्गुणमयेन

पटेनात्मानमन्तर्धीयावस्थित इत्यवस्थित इति

Maitrayani Upanishad

Complete Upanishad, Verse 19

इति

द्वितीयः प्रपाठकः ॥

ते होचुर्भगवन्यद्येवमस्यात्मनो महिमानं सूचयसीत्यन्यो

वा परः कोऽयमात्मा सितासितैः कर्मफलैरभिभूयमानः

सदसद्योनिमापद्यत इत्यवाचीं वोर्ध्वां वा गतं

द्वन्द्वैरभिभूयमानः परिभ्रमतीति कतम एष इति

तान्होवाच

Maitrayani Upanishad

Complete Upanishad, Verse 20

अस्ति खल्वन्योऽपरो भूतात्मा योऽयं सितासितैः

कर्मफलैरभिभूयमानः सदसदयोनिमापद्यत इत्यवाचीं

वोर्ध्वां गतिं द्वन्द्वैरभिभूयमानः

परिभ्रमतीत्यस्योपव्याख्यानं पञ्च तन्मात्राणि

भूतशब्देनोच्यन्ते पञ्च महाभूतानि

भूतशब्देनोच्यन्तेऽथ तेषां यः समुदायः

शरीरमित्युक्तमथ यो ह खलु वाव शरीरमित्युक्तं स

भूतात्मेत्युक्तमथास्ति तस्यात्मा बिन्दुरिव पुष्कर इति स वा

एषोऽभिभूतः

प्राकृत्यैर्गुणैरित्यतोऽभिभूतत्वात्संमूढत्वं

प्रयात्यसंमूढस्त्वादात्मस्थं प्रभुं भगवन्तं

कारयितारं नापश्यद्गुणौघैस्तृप्यमानः

कलुषीकृतास्थिरश्चञ्चलो लोलुप्यमानः सस्पृहो

व्यग्रश्चाभिमानत्वं प्रयात इत्यहं सो ममेदमित्येवं

मन्यमानो निबध्नात्यात्मनात्मानं जालेनैव खचरः

कृतस्यानुफलैरभिभूयमानः परिभ्रमतीति

Maitrayani Upanishad

Complete Upanishad, Verse 21

अथान्यत्राप्युक्तं यः कर्ता सोऽयं वै भूतात्मा करणैः

कारयितान्तःपुरुषोऽथ यथाग्निनायःपिण्डो वाभिभूतः

कर्तृभिर्हन्यमानो नानात्वमुपैत्येवं वाव खल्वसौ

भूतात्मान्तःपुरुषेणाभिभूतो गुणैर्हन्यमानो

नानात्वमुपैत्यथ यत्त्रिगुणं चतुरशीतिलक्षयोनिपरिणतं

भूतत्रिगुणमेतद्वै नानात्वस्य रूपं तानि ह वा इमानि

गुणानि पुरुषेणेरितानि चक्रमिव चक्रिणेत्यथ यथायःपिण्डे

हन्यमाने नाग्निरभिभूयत्येवं नाभिभूयत्यसौ

पुरुषोऽभिभूयत्ययं भूतात्मोपसंश्लिष्टत्वादिति

Maitrayani Upanishad

Complete Upanishad, Verse 22

अथान्यत्राप्युक्तं शरीरमिदं मैथुनादेवोद्भूतं

संविदपेतं निरय एव मूत्रद्वारेण

निष्क्रामन्तमस्थिभिश्चितं मांसेनानुलिप्तं

चर्मणावबद्धं विण्मूत्रपित्तकफमज्जामेदोवसाभिरन्यैश्च

मलैर्बहुभिः परिपूर्णं कोश इवावसन्नेति

Maitrayani Upanishad

Complete Upanishad, Verse 23

अथान्यत्राप्युक्तं संमोहो भयं विषादो निद्रा तन्द्री व्रणो

जरा शोकः क्षुत्पिपासा कार्पण्यं क्रोधो नास्तिक्यमज्ञानं

मात्सर्यं वैकारुण्यं मूढत्वं निर्व्रीडत्वं

निकृतत्वमुद्धातत्वमसमत्वमिति तामसान्वितस्तृष्णा स्नेहो

रागो लोभो हिंसा रतिर्दृष्टिव्यापृतत्वमीर्ष्या

काममवस्थितत्वं चञ्चलत्वं जिहीर्षार्थोपार्जनं

मित्रानुग्रहणं परिग्रहावलम्बोऽनिष्टेष्विन्द्रियार्थेषु

द्विष्टिरिष्टेश्वभिषङ्ग इति राजसान्वितैः परिपूर्ण

एतैरभिभूत इत्ययं भूतात्मा

तस्मान्नानारूपाण्याप्नोतीत्याप्नोतीति

Maitrayani Upanishad

Complete Upanishad, Verse 24

तृतीयः

प्रपाठकः ॥

ते ह खल्वथोर्ध्वरेतसोऽतिविस्मिता अतिसमेत्योचुर्भगवन्नमस्ते

त्वं नः शाधि त्वमस्माकं गतिरन्या न विद्यत इत्यस्य

कोऽतिथिर्भूतात्मनो येनेदं हित्वामन्येव सायुज्यमुपैति

तान्होवाच

Maitrayani Upanishad

Complete Upanishad, Verse 25

अथान्यत्राप्युक्तं महानदीषूर्मय इव निवर्तकमस्य

यत्पुराकृतं समुद्रवेलेव दुर्निवार्यमस्य मृत्योरागमनं

सदसत्फलमयैर्हि पाशैः पशुरिव बद्धं

बन्धनस्थस्येवास्वातन्त्र्यं यमविषयस्थस्यैव

बहुभयावस्थं मदिरोन्मत्त इवामोदममदिरोन्मत्तं पाप्मना

गृहीत इव भ्राम्यमाणं महोरगदष्ट इव विपदृष्टं

महान्धकार इव रागान्धमिन्द्रजालमिव मायामयं स्वप्नमिव

मिथ्यादर्शनं कदलीगर्भ इवासारं नट इव क्षणवेषं

चित्रभित्तिरिव मिथ्यामनोरममित्यथोक्तम् ॥

शब्दस्पर्शादयो

येऽर्था अनर्था इव ते स्थिताः ।

येष्वासक्तस्तु भूतात्मा न

स्मरेच्च परं पदम्

Maitrayani Upanishad

Complete Upanishad, Verse 26

अयं वा व खल्वस्य प्रतिविधिर्भूतात्मनो यद्येव

विद्याधिगमस्य धर्मस्यानुचरणं स्वाश्रमेष्वानुक्रमणं

स्वधर्म एव सर्वं धत्ते

स्तम्भशाखेवेतराण्यनेनोर्ध्वभाग्भवत्यन्यथधः पतत्येष

स्वधर्माभिभूतो यो वेदेषु न स्वधर्मातिक्रमेणाश्रमी

भवत्याश्रमेष्वेवावस्थितस्तपस्वी चेत्युच्यत एतदप्युक्तं

नातपस्कस्यात्मध्यानेऽधिगमः कर्मशुद्धिर्वेत्येवं ह्याह ॥

तपसा प्राप्यते सत्त्वं सत्त्वात्सम्प्राप्यते मनः ।

मनसा प्राप्यते त्वात्मा ह्यात्मापत्त्या निवर्तत इति

Maitrayani Upanishad

Complete Upanishad, Verse 27

अत्रैते श्लोका भवन्ति ॥

यथा निरिन्धनो वह्निः स्वयोनावुपशाम्यति ।

तथा वृत्तिक्षयाच्चित्तं स्वयोनावुपशाम्यति

Maitrayani Upanishad

Complete Upanishad, Verse 28

स्वयोनावुपशान्तस्य मनसः सत्यगामिनः ।

इन्द्रियार्थाविमूढस्यानृताः कर्मवशानुगाः

Maitrayani Upanishad

Complete Upanishad, Verse 29

चित्तमेव हि संसारस्तत्प्रयत्नेन शोधयेत् ।

यच्चित्तस्तन्मयो भवति गुह्यमेतत्सनातनम्

Maitrayani Upanishad

Complete Upanishad, Verse 30

चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् ।

प्रसन्नात्मात्मनि स्थित्वा सुखमव्ययमश्नुते