Mahabharata

Shalya Parva, Adhyaya 64

Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shalya Parva, Adhyaya 64, Verse 1

वातिकानां सकाशात्तु श्रुत्वा दुर्योधनं हतम्

हतशिष्टास्ततो राजन्कौरवाणां महारथाः

Mahabharata

Shalya Parva, Adhyaya 64, Verse 2

विनिर्भिन्नाः शितैर्बाणैर्गदातोमरशक्तिभिः

अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः

त्वरिता जवनैरश्वैरायोधनमुपागमन्

Mahabharata

Shalya Parva, Adhyaya 64, Verse 3

तत्रापश्यन्महात्मानं धार्तराष्ट्रं निपातितम्

प्रभग्नं वायुवेगेन महाशालं यथा वने

Mahabharata

Shalya Parva, Adhyaya 64, Verse 4

भूमौ विवेष्टमानं तं रुधिरेण समुक्षितम्

महागजमिवारण्ये व्याधेन विनिपातितम्

Mahabharata

Shalya Parva, Adhyaya 64, Verse 5

विवर्तमानं बहुशो रुधिरौघपरिप्लुतम्

यदृच्छया निपतितं चक्रमादित्यगोचरम्

Mahabharata

Shalya Parva, Adhyaya 64, Verse 6

महावातसमुत्थेन संशुष्कमिव सागरम्

पूर्णचन्द्रमिव व्योम्नि तुषारावृतमण्डलम्

Mahabharata

Shalya Parva, Adhyaya 64, Verse 7

रेणुध्वस्तं दीर्घभुजं मातङ्गसमविक्रमम्

वृतं भूतगणैर्घोरैः क्रव्यादैश्च समन्ततः

यथा धनं लिप्समानैर्भृत्यैर्नृपतिसत्तमम्

Mahabharata

Shalya Parva, Adhyaya 64, Verse 8

भ्रुकुटीकृतवक्त्रान्तं क्रोधादुद्वृत्तचक्षुषम्

सामर्षं तं नरव्याघ्रं व्याघ्रं निपतितं यथा

Mahabharata

Shalya Parva, Adhyaya 64, Verse 9

ते तु दृष्ट्वा महेष्वासा भूतले पतितं नृपम्

मोहमभ्यागमन्सर्वे कृपप्रभृतयो रथाः

Mahabharata

Shalya Parva, Adhyaya 64, Verse 10

अवतीर्य रथेभ्यस्तु प्राद्रवन्राजसंनिधौ

दुर्योधनं च संप्रेक्ष्य सर्वे भूमावुपाविशन्

Mahabharata

Shalya Parva, Adhyaya 64, Verse 11

ततो द्रौणिर्महाराज बाष्पपूर्णेक्षणः श्वसन्

उवाच भरतश्रेष्ठं सर्वलोकेश्वरेश्वरम्

Mahabharata

Shalya Parva, Adhyaya 64, Verse 12

न नूनं विद्यतेऽसह्यं मानुष्ये किंचिदेव हि

यत्र त्वं पुरुषव्याघ्र शेषे पांसुषु रूषितः

Mahabharata

Shalya Parva, Adhyaya 64, Verse 13

भूत्वा हि नृपतिः पूर्वं समाज्ञाप्य च मेदिनीम्

कथमेकोऽद्य राजेन्द्र तिष्ठसे निर्जने वने

Mahabharata

Shalya Parva, Adhyaya 64, Verse 14

दुःशासनं न पश्यामि नापि कर्णं महारथम्

नापि तान्सुहृदः सर्वान्किमिदं भरतर्षभ

Mahabharata

Shalya Parva, Adhyaya 64, Verse 15

दुःखं नूनं कृतान्तस्य गतिं ज्ञातुं कथंचन

लोकानां च भवान्यत्र शेते पांसुषु रूषितः

Mahabharata

Shalya Parva, Adhyaya 64, Verse 16

एष मूर्धावसिक्तानामग्रे गत्वा परंतपः

सतृणं ग्रसते पांसुं पश्य कालस्य पर्ययम्

Mahabharata

Shalya Parva, Adhyaya 64, Verse 17

क्व ते तदमलं छत्रं व्यजनं क्व च पार्थिव

सा च ते महती सेना क्व गता पार्थिवोत्तम

Mahabharata

Shalya Parva, Adhyaya 64, Verse 18

दुर्विज्ञेया गतिर्नूनं कार्याणां कारणान्तरे

यद्वै लोकगुरुर्भूत्वा भवानेतां दशां गतः

Mahabharata

Shalya Parva, Adhyaya 64, Verse 19

अध्रुवा सर्वमर्त्येषु ध्रुवं श्रीरुपलक्ष्यते

भवतो व्यसनं दृष्ट्वा शक्रविस्पर्धिनो भृशम्

Mahabharata

Shalya Parva, Adhyaya 64, Verse 20

तस्य तद्वचनं श्रुत्वा दुःखितस्य विशेषतः

उवाच राजन्पुत्रस्ते प्राप्तकालमिदं वचः

Mahabharata

Shalya Parva, Adhyaya 64, Verse 21

विमृज्य नेत्रे पाणिभ्यां शोकजं बाष्पमुत्सृजन्

कृपादीन्स तदा वीरान्सर्वानेव नराधिपः

Mahabharata

Shalya Parva, Adhyaya 64, Verse 22

ईदृशो मर्त्यधर्मोऽयं धात्रा निर्दिष्ट उच्यते

विनाशः सर्वभूतानां कालपर्यायकारितः

Mahabharata

Shalya Parva, Adhyaya 64, Verse 23

सोऽयं मां समनुप्राप्तः प्रत्यक्षं भवतां हि यः

पृथिवीं पालयित्वाहमेतां निष्ठामुपागतः

Mahabharata

Shalya Parva, Adhyaya 64, Verse 24

दिष्ट्या नाहं परावृत्तो युद्धे कस्यांचिदापदि

दिष्ट्याहं निहतः पापैश्छलेनैव विशेषतः

Mahabharata

Shalya Parva, Adhyaya 64, Verse 25

उत्साहश्च कृतो नित्यं मया दिष्ट्या युयुत्सता

दिष्ट्या चास्मि हतो युद्धे निहतज्ञातिबान्धवः

Mahabharata

Shalya Parva, Adhyaya 64, Verse 26

दिष्ट्या च वोऽहं पश्यामि मुक्तानस्माज्जनक्षयात्

स्वस्तियुक्तांश्च कल्यांश्च तन्मे प्रियमनुत्तमम्

Mahabharata

Shalya Parva, Adhyaya 64, Verse 27

मा भवन्तोऽनुतप्यन्तां सौहृदान्निधनेन मे

यदि वेदाः प्रमाणं वो जिता लोका मयाक्षयाः

Mahabharata

Shalya Parva, Adhyaya 64, Verse 28

मन्यमानः प्रभावं च कृष्णस्यामिततेजसः

तेन न च्यावितश्चाहं क्षत्रधर्मात्स्वनुष्ठितात्

Mahabharata

Shalya Parva, Adhyaya 64, Verse 29

स मया समनुप्राप्तो नास्मि शोच्यः कथंचन

कृतं भवद्भिः सदृशमनुरूपमिवात्मनः

यतितं विजये नित्यं दैवं तु दुरतिक्रमम्

Mahabharata

Shalya Parva, Adhyaya 64, Verse 30

एतावदुक्त्वा वचनं बाष्पव्याकुललोचनः

तूष्णीं बभूव राजेन्द्र रुजासौ विह्वलो भृशम्