Mahabharata

Shalya Parva, Adhyaya 63

Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shalya Parva, Adhyaya 63, Verse 1

अधिष्ठितः पदा मूर्ध्नि भग्नसक्थो महीं गतः

शौटीरमानी पुत्रो मे कान्यभाषत संजय

Mahabharata

Shalya Parva, Adhyaya 63, Verse 2

अत्यर्थं कोपनो राजा जातवैरश्च पाण्डुषु

व्यसनं परमं प्राप्तः किमाह परमाहवे

Mahabharata

Shalya Parva, Adhyaya 63, Verse 3

शृणु राजन्प्रवक्ष्यामि यथावृत्तं नराधिप

राज्ञा यदुक्तं भग्नेन तस्मिन्व्यसन आगते

Mahabharata

Shalya Parva, Adhyaya 63, Verse 4

भग्नसक्थो नृपो राजन्पांसुना सोऽवगुण्ठितः

यमयन्मूर्धजांस्तत्र वीक्ष्य चैव दिशो दश

Mahabharata

Shalya Parva, Adhyaya 63, Verse 5

केशान्नियम्य यत्नेन निःश्वसन्नुरगो यथा

संरम्भाश्रुपरीताभ्यां नेत्राभ्यामभिवीक्ष्य माम्

Mahabharata

Shalya Parva, Adhyaya 63, Verse 6

बाहू धरण्यां निष्पिष्य मुहुर्मत्त इव द्विपः

प्रकीर्णान्मूर्धजान्धुन्वन्दन्तैर्दन्तानुपस्पृशन्

गर्हयन्पाण्डवं ज्येष्ठं निःश्वस्येदमथाब्रवीत्

Mahabharata

Shalya Parva, Adhyaya 63, Verse 7

भीष्मे शांतनवे नाथे कर्णे चास्त्रभृतां वरे

गौतमे शकुनौ चापि द्रोणे चास्त्रभृतां वरे

Mahabharata

Shalya Parva, Adhyaya 63, Verse 8

अश्वत्थाम्नि तथा शल्ये शूरे च कृतवर्मणि

इमामवस्थां प्राप्तोऽस्मि कालो हि दुरतिक्रमः

Mahabharata

Shalya Parva, Adhyaya 63, Verse 9

एकादशचमूभर्ता सोऽहमेतां दशां गतः

कालं प्राप्य महाबाहो न कश्चिदतिवर्तते

Mahabharata

Shalya Parva, Adhyaya 63, Verse 10

आख्यातव्यं मदीयानां येऽस्मिञ्जीवन्ति संगरे

यथाहं भीमसेनेन व्युत्क्रम्य समयं हतः

Mahabharata

Shalya Parva, Adhyaya 63, Verse 11

बहूनि सुनृशंसानि कृतानि खलु पाण्डवैः

भूरिश्रवसि कर्णे च भीष्मे द्रोणे च श्रीमति

Mahabharata

Shalya Parva, Adhyaya 63, Verse 12

इदं चाकीर्तिजं कर्म नृशंसैः पाण्डवैः कृतम्

येन ते सत्सु निर्वेदं गमिष्यन्तीति मे मतिः

Mahabharata

Shalya Parva, Adhyaya 63, Verse 13

का प्रीतिः सत्त्वयुक्तस्य कृत्वोपधिकृतं जयम्

को वा समयभेत्तारं बुधः संमन्तुमर्हति

Mahabharata

Shalya Parva, Adhyaya 63, Verse 14

अधर्मेण जयं लब्ध्वा को नु हृष्येत पण्डितः

यथा संहृष्यते पापः पाण्डुपुत्रो वृकोदरः

Mahabharata

Shalya Parva, Adhyaya 63, Verse 15

किं नु चित्रमतस्त्वद्य भग्नसक्थस्य यन्मम

क्रुद्धेन भीमसेनेन पादेन मृदितं शिरः

Mahabharata

Shalya Parva, Adhyaya 63, Verse 16

प्रतपन्तं श्रिया जुष्टं वर्तमानं च बन्धुषु

एवं कुर्यान्नरो यो हि स वै संजय पूजितः

Mahabharata

Shalya Parva, Adhyaya 63, Verse 17

अभिज्ञौ क्षत्रधर्मस्य मम माता पिता च मे

तौ हि संजय दुःखार्तौ विज्ञाप्यौ वचनान्मम

Mahabharata

Shalya Parva, Adhyaya 63, Verse 18

इष्टं भृत्या भृताः सम्यग्भूः प्रशास्ता ससागरा

मूर्ध्नि स्थितममित्राणां जीवतामेव संजय

Mahabharata

Shalya Parva, Adhyaya 63, Verse 19

दत्ता दाया यथाशक्ति मित्राणां च प्रियं कृतम्

अमित्रा बाधिताः सर्वे को नु स्वन्ततरो मया

Mahabharata

Shalya Parva, Adhyaya 63, Verse 20

यातानि परराष्ट्राणि नृपा भुक्ताश्च दासवत्

प्रियेभ्यः प्रकृतं साधु को नु स्वन्ततरो मया

Mahabharata

Shalya Parva, Adhyaya 63, Verse 21

मानिता बान्धवाः सर्वे मान्यः संपूजितो जनः

त्रितयं सेवितं सर्वं को नु स्वन्ततरो मया

Mahabharata

Shalya Parva, Adhyaya 63, Verse 22

आज्ञप्तं नृपमुख्येषु मानः प्राप्तः सुदुर्लभः

आजानेयैस्तथा यातं को नु स्वन्ततरो मया

Mahabharata

Shalya Parva, Adhyaya 63, Verse 23

अधीतं विधिवद्दत्तं प्राप्तमायुर्निरामयम्

स्वधर्मेण जिता लोकाः को नु स्वन्ततरो मया

Mahabharata

Shalya Parva, Adhyaya 63, Verse 24

दिष्ट्या नाहं जितः संख्ये परान्प्रेष्यवदाश्रितः

दिष्ट्या मे विपुला लक्ष्मीर्मृते त्वन्यं गता विभो

Mahabharata

Shalya Parva, Adhyaya 63, Verse 25

यदिष्टं क्षत्रबन्धूनां स्वधर्ममनुतिष्ठताम्

निधनं तन्मया प्राप्तं को नु स्वन्ततरो मया

Mahabharata

Shalya Parva, Adhyaya 63, Verse 26

दिष्ट्या नाहं परावृत्तो वैरात्प्राकृतवज्जितः

दिष्ट्या न विमतिं कांचिद्भजित्वा तु पराजितः

Mahabharata

Shalya Parva, Adhyaya 63, Verse 27

सुप्तं वाथ प्रमत्तं वा यथा हन्याद्विषेण वा

एवं व्युत्क्रान्तधर्मेण व्युत्क्रम्य समयं हतः

Mahabharata

Shalya Parva, Adhyaya 63, Verse 28

अश्वत्थामा महाभागः कृतवर्मा च सात्वतः

कृपः शारद्वतश्चैव वक्तव्या वचनान्मम

Mahabharata

Shalya Parva, Adhyaya 63, Verse 29

अधर्मेण प्रवृत्तानां पाण्डवानामनेकशः

विश्वासं समयघ्नानां न यूयं गन्तुमर्हथ

Mahabharata

Shalya Parva, Adhyaya 63, Verse 30

वातिकांश्चाब्रवीद्राजा पुत्रस्ते सत्यविक्रमः

अधर्माद्भीमसेनेन निहतोऽहं यथा रणे