Shalya Parva, Adhyaya 62, Verse 1
किमर्थं राजशार्दूलो धर्मराजो युधिष्ठिरः
गान्धार्याः प्रेषयामास वासुदेवं परंतपम्
Containing 73 sacred Sanskrit shlokas with multi-author commentaries and translations.
किमर्थं राजशार्दूलो धर्मराजो युधिष्ठिरः
गान्धार्याः प्रेषयामास वासुदेवं परंतपम्
यदा पूर्वं गतः कृष्णः शमार्थं कौरवान्प्रति
न च तं लब्धवान्कामं ततो युद्धमभूदिदम्
निहतेषु तु योधेषु हते दुर्योधने तथा
पृथिव्यां पाण्डवेयस्य निःसपत्ने कृते युधि
विद्रुते शिबिरे शून्ये प्राप्ते यशसि चोत्तमे
किं नु तत्कारणं ब्रह्मन्येन कृष्णो गतः पुनः
न चैतत्कारणं ब्रह्मन्नल्पं वै प्रतिभाति मे
यत्रागमदमेयात्मा स्वयमेव जनार्दनः
तत्त्वतो वै समाचक्ष्व सर्वमध्वर्युसत्तम
यच्चात्र कारणं ब्रह्मन्कार्यस्यास्य विनिश्चये
त्वद्युक्तोऽयमनुप्रश्नो यन्मां पृच्छसि पार्थिव
तत्तेऽहं संप्रवक्ष्यामि यथावद्भरतर्षभ
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे
व्युत्क्रम्य समयं राजन्धार्तराष्ट्रं महाबलम्
अन्यायेन हतं दृष्ट्वा गदायुद्धेन भारत
युधिष्ठिरं महाराज महद्भयमथाविशत्
चिन्तयानो महाभागां गान्धारीं तपसान्विताम्
घोरेण तपसा युक्तां त्रैलोक्यमपि सा दहेत्
तस्य चिन्तयमानस्य बुद्धिः समभवत्तदा
गान्धार्याः क्रोधदीप्तायाः पूर्वं प्रशमनं भवेत्
सा हि पुत्रवधं श्रुत्वा कृतमस्माभिरीदृशम्
मानसेनाग्निना क्रुद्धा भस्मसान्नः करिष्यति
कथं दुःखमिदं तीव्रं गान्धारी प्रसहिष्यति
श्रुत्वा विनिहतं पुत्रं छलेनाजिह्मयोधिनम्
एवं विचिन्त्य बहुधा भयशोकसमन्वितः
वासुदेवमिदं वाक्यं धर्मराजोऽभ्यभाषत
तव प्रसादाद्गोविन्द राज्यं निहतकण्टकम्
अप्राप्यं मनसापीह प्राप्तमस्माभिरच्युत
प्रत्यक्षं मे महाबाहो संग्रामे रोमहर्षणे
विमर्दः सुमहान्प्राप्तस्त्वया यादवनन्दन
त्वया देवासुरे युद्धे वधार्थममरद्विषाम्
यथा साह्यं पुरा दत्तं हताश्च विबुधद्विषः
साह्यं तथा महाबाहो दत्तमस्माकमच्युत
सारथ्येन च वार्ष्णेय भवता यद्धृता वयम्
यदि न त्वं भवेन्नाथः फल्गुनस्य महारणे
कथं शक्यो रणे जेतुं भवेदेष बलार्णवः
गदाप्रहारा विपुलाः परिघैश्चापि ताडनम्
शक्तिभिर्भिण्डिपालैश्च तोमरैः सपरश्वधैः
वाचश्च परुषाः प्राप्तास्त्वया ह्यस्मद्धितैषिणा
ताश्च ते सफलाः सर्वा हते दुर्योधनेऽच्युत
गान्धार्या हि महाबाहो क्रोधं बुध्यस्व माधव
सा हि नित्यं महाभागा तपसोग्रेण कर्शिता
पुत्रपौत्रवधं श्रुत्वा ध्रुवं नः संप्रधक्ष्यति
तस्याः प्रसादनं वीर प्राप्तकालं मतं मम
कश्च तां क्रोधदीप्ताक्षीं पुत्रव्यसनकर्शिताम्
वीक्षितुं पुरुषः शक्तस्त्वामृते पुरुषोत्तम
तत्र मे गमनं प्राप्तं रोचते तव माधव
गान्धार्याः क्रोधदीप्तायाः प्रशमार्थमरिंदम
त्वं हि कर्ता विकर्ता च लोकानां प्रभवाप्ययः
हेतुकारणसंयुक्तैर्वाक्यैः कालसमीरितैः
क्षिप्रमेव महाप्राज्ञ गान्धारीं शमयिष्यसि
पितामहश्च भगवान्कृष्णस्तत्र भविष्यति
सर्वथा ते महाबाहो गान्धार्याः क्रोधनाशनम्
कर्तव्यं सात्वतश्रेष्ठ पाण्डवानां हितैषिणा
धर्मराजस्य वचनं श्रुत्वा यदुकुलोद्वहः
आमन्त्र्य दारुकं प्राह रथः सज्जो विधीयताम्
केशवस्य वचः श्रुत्वा त्वरमाणोऽथ दारुकः
न्यवेदयद्रथं सज्जं केशवाय महात्मने