Mahabharata

Shalya Parva, Adhyaya 61

Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shalya Parva, Adhyaya 61, Verse 1

ततस्ते प्रययुः सर्वे निवासाय महीक्षितः

शङ्खान्प्रध्मापयन्तो वै हृष्टाः परिघबाहवः

Mahabharata

Shalya Parva, Adhyaya 61, Verse 2

पाण्डवान्गच्छतश्चापि शिबिरं नो विशां पते

महेष्वासोऽन्वगात्पश्चाद्युयुत्सुः सात्यकिस्तथा

Mahabharata

Shalya Parva, Adhyaya 61, Verse 3

धृष्टद्युम्नः शिखण्डी च द्रौपदेयाश्च सर्वशः

सर्वे चान्ये महेष्वासा ययुः स्वशिबिराण्युत

Mahabharata

Shalya Parva, Adhyaya 61, Verse 4

ततस्ते प्राविशन्पार्था हतत्विट्कं हतेश्वरम्

दुर्योधनस्य शिबिरं रङ्गवद्विसृते जने

Mahabharata

Shalya Parva, Adhyaya 61, Verse 5

गतोत्सवं पुरमिव हृतनागमिव ह्रदम्

स्त्रीवर्षवरभूयिष्ठं वृद्धामात्यैरधिष्ठितम्

Mahabharata

Shalya Parva, Adhyaya 61, Verse 6

तत्रैतान्पर्युपातिष्ठन्दुर्योधनपुरःसराः

कृताञ्जलिपुटा राजन्काषायमलिनाम्बराः

Mahabharata

Shalya Parva, Adhyaya 61, Verse 7

शिबिरं समनुप्राप्य कुरुराजस्य पाण्डवाः

अवतेरुर्महाराज रथेभ्यो रथसत्तमाः

Mahabharata

Shalya Parva, Adhyaya 61, Verse 8

ततो गाण्डीवधन्वानमभ्यभाषत केशवः

स्थितः प्रियहिते नित्यमतीव भरतर्षभ

Mahabharata

Shalya Parva, Adhyaya 61, Verse 9

अवरोपय गाण्डीवमक्षय्यौ च महेषुधी

अथाहमवरोक्ष्यामि पश्चाद्भरतसत्तम

Mahabharata

Shalya Parva, Adhyaya 61, Verse 10

स्वयं चैवावरोह त्वमेतच्छ्रेयस्तवानघ

तच्चाकरोत्तथा वीरः पाण्डुपुत्रो धनंजयः

Mahabharata

Shalya Parva, Adhyaya 61, Verse 11

अथ पश्चात्ततः कृष्णो रश्मीनुत्सृज्य वाजिनाम्

अवारोहत मेधावी रथाद्गाण्डीवधन्वनः

Mahabharata

Shalya Parva, Adhyaya 61, Verse 12

अथावतीर्णे भूतानामीश्वरे सुमहात्मनि

कपिरन्तर्दधे दिव्यो ध्वजो गाण्डीवधन्वनः

Mahabharata

Shalya Parva, Adhyaya 61, Verse 13

स दग्धो द्रोणकर्णाभ्यां दिव्यैरस्त्रैर्महारथः

अथ दीप्तोऽग्निना ह्याशु प्रजज्वाल महीपते

Mahabharata

Shalya Parva, Adhyaya 61, Verse 14

सोपासङ्गः सरश्मिश्च साश्वः सयुगबन्धुरः

भस्मीभूतोऽपतद्भूमौ रथो गाण्डीवधन्वनः

Mahabharata

Shalya Parva, Adhyaya 61, Verse 15

तं तथा भस्मभूतं तु दृष्ट्वा पाण्डुसुताः प्रभो

अभवन्विस्मिता राजन्नर्जुनश्चेदमब्रवीत्

Mahabharata

Shalya Parva, Adhyaya 61, Verse 16

कृताञ्जलिः सप्रणयं प्रणिपत्याभिवाद्य च

गोविन्द कस्माद्भगवन्रथो दग्धोऽयमग्निना

Mahabharata

Shalya Parva, Adhyaya 61, Verse 17

किमेतन्महदाश्चर्यमभवद्यदुनन्दन

तन्मे ब्रूहि महाबाहो श्रोतव्यं यदि मन्यसे

Mahabharata

Shalya Parva, Adhyaya 61, Verse 18

अस्त्रैर्बहुविधैर्दग्धः पूर्वमेवायमर्जुन

मदधिष्ठितत्वात्समरे न विशीर्णः परंतप

Mahabharata

Shalya Parva, Adhyaya 61, Verse 19

इदानीं तु विशीर्णोऽयं दग्धो ब्रह्मास्त्रतेजसा

मया विमुक्तः कौन्तेय त्वय्यद्य कृतकर्मणि

Mahabharata

Shalya Parva, Adhyaya 61, Verse 20

ईषदुत्स्मयमानश्च भगवान्केशवोऽरिहा

परिष्वज्य च राजानं युधिष्ठिरमभाषत

Mahabharata

Shalya Parva, Adhyaya 61, Verse 21

दिष्ट्या जयसि कौन्तेय दिष्ट्या ते शत्रवो जिताः

दिष्ट्या गाण्डीवधन्वा च भीमसेनश्च पाण्डवः

Mahabharata

Shalya Parva, Adhyaya 61, Verse 22

त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ

मुक्ता वीरक्षयादस्मात्संग्रामान्निहतद्विषः

क्षिप्रमुत्तरकालानि कुरु कार्याणि भारत

Mahabharata

Shalya Parva, Adhyaya 61, Verse 23

उपयातमुपप्लव्यं सह गाण्डीवधन्वना

आनीय मधुपर्कं मां यत्पुरा त्वमवोचथाः

Mahabharata

Shalya Parva, Adhyaya 61, Verse 24

एष भ्राता सखा चैव तव कृष्ण धनंजयः

रक्षितव्यो महाबाहो सर्वास्वापत्स्विति प्रभो

तव चैवं ब्रुवाणस्य तथेत्येवाहमब्रुवम्

Mahabharata

Shalya Parva, Adhyaya 61, Verse 25

स सव्यसाची गुप्तस्ते विजयी च नरेश्वर

भ्रातृभिः सह राजेन्द्र शूरः सत्यपराक्रमः

मुक्तो वीरक्षयादस्मात्संग्रामाद्रोमहर्षणात्

Mahabharata

Shalya Parva, Adhyaya 61, Verse 26

एवमुक्तस्तु कृष्णेन धर्मराजो युधिष्ठिरः

हृष्टरोमा महाराज प्रत्युवाच जनार्दनम्

Mahabharata

Shalya Parva, Adhyaya 61, Verse 27

प्रमुक्तं द्रोणकर्णाभ्यां ब्रह्मास्त्रमरिमर्दन

कस्त्वदन्यः सहेत्साक्षादपि वज्री पुरंदरः

Mahabharata

Shalya Parva, Adhyaya 61, Verse 28

भवतस्तु प्रसादेन संग्रामे बहवो जिताः

महारणगतः पार्थो यच्च नासीत्पराङ्मुखः

Mahabharata

Shalya Parva, Adhyaya 61, Verse 29

तथैव च महाबाहो पर्यायैर्बहुभिर्मया

कर्मणामनुसंतानं तेजसश्च गतिः शुभा

Mahabharata

Shalya Parva, Adhyaya 61, Verse 30

उपप्लव्ये महर्षिर्मे कृष्णद्वैपायनोऽब्रवीत्

यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः