Mahabharata

Shalya Parva, Adhyaya 60

Containing 65 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shalya Parva, Adhyaya 60, Verse 1

हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे

पाण्डवाः सृञ्जयाश्चैव किमकुर्वत संजय

Mahabharata

Shalya Parva, Adhyaya 60, Verse 2

हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे

सिंहेनेव महाराज मत्तं वनगजं वने

Mahabharata

Shalya Parva, Adhyaya 60, Verse 3

प्रहृष्टमनसस्तत्र कृष्णेन सह पाण्डवाः

पाञ्चालाः सृञ्जयाश्चैव निहते कुरुनन्दने

Mahabharata

Shalya Parva, Adhyaya 60, Verse 4

आविध्यन्नुत्तरीयाणि सिंहनादांश्च नेदिरे

नैतान्हर्षसमाविष्टानियं सेहे वसुंधरा

Mahabharata

Shalya Parva, Adhyaya 60, Verse 5

धनूंष्यन्ये व्याक्षिपन्त ज्याश्चाप्यन्ये तथाक्षिपन्

दध्मुरन्ये महाशङ्खानन्ये जघ्नुश्च दुन्दुभीः

Mahabharata

Shalya Parva, Adhyaya 60, Verse 6

चिक्रीडुश्च तथैवान्ये जहसुश्च तवाहिताः

अब्रुवंश्चासकृद्वीरा भीमसेनमिदं वचः

Mahabharata

Shalya Parva, Adhyaya 60, Verse 7

दुष्करं भवता कर्म रणेऽद्य सुमहत्कृतम्

कौरवेन्द्रं रणे हत्वा गदयातिकृतश्रमम्

Mahabharata

Shalya Parva, Adhyaya 60, Verse 8

इन्द्रेणेव हि वृत्रस्य वधं परमसंयुगे

त्वया कृतममन्यन्त शत्रोर्वधमिमं जनाः

Mahabharata

Shalya Parva, Adhyaya 60, Verse 9

चरन्तं विविधान्मार्गान्मण्डलानि च सर्वशः

दुर्योधनमिमं शूरं कोऽन्यो हन्याद्वृकोदरात्

Mahabharata

Shalya Parva, Adhyaya 60, Verse 10

वैरस्य च गतः पारं त्वमिहान्यैः सुदुर्गमम्

अशक्यमेतदन्येन संपादयितुमीदृशम्

Mahabharata

Shalya Parva, Adhyaya 60, Verse 11

कुञ्जरेणेव मत्तेन वीर संग्राममूर्धनि

दुर्योधनशिरो दिष्ट्या पादेन मृदितं त्वया

Mahabharata

Shalya Parva, Adhyaya 60, Verse 12

सिंहेन महिषस्येव कृत्वा संगरमद्भुतम्

दुःशासनस्य रुधिरं दिष्ट्या पीतं त्वयानघ

Mahabharata

Shalya Parva, Adhyaya 60, Verse 13

ये विप्रकुर्वन्राजानं धर्मात्मानं युधिष्ठिरम्

मूर्ध्नि तेषां कृतः पादो दिष्ट्या ते स्वेन कर्मणा

Mahabharata

Shalya Parva, Adhyaya 60, Verse 14

अमित्राणामधिष्ठानाद्वधाद्दुर्योधनस्य च

भीम दिष्ट्या पृथिव्यां ते प्रथितं सुमहद्यशः

Mahabharata

Shalya Parva, Adhyaya 60, Verse 15

एवं नूनं हते वृत्रे शक्रं नन्दन्ति बन्दिनः

तथा त्वां निहतामित्रं वयं नन्दाम भारत

Mahabharata

Shalya Parva, Adhyaya 60, Verse 16

दुर्योधनवधे यानि रोमाणि हृषितानि नः

अद्यापि न विहृष्यन्ति तानि तद्विद्धि भारत

इत्यब्रुवन्भीमसेनं वातिकास्तत्र संगताः

Mahabharata

Shalya Parva, Adhyaya 60, Verse 17

तान्हृष्टान्पुरुषव्याघ्रान्पाञ्चालान्पाण्डवैः सह

ब्रुवतः सदृशं तत्र प्रोवाच मधुसूदनः

Mahabharata

Shalya Parva, Adhyaya 60, Verse 18

न न्याय्यं निहतः शत्रुर्भूयो हन्तुं जनाधिपाः

असकृद्वाग्भिरुग्राभिर्निहतो ह्येष मन्दधीः

Mahabharata

Shalya Parva, Adhyaya 60, Verse 19

तदैवैष हतः पापो यदैव निरपत्रपः

लुब्धः पापसहायश्च सुहृदां शासनातिगः

Mahabharata

Shalya Parva, Adhyaya 60, Verse 20

बहुशो विदुरद्रोणकृपगाङ्गेयसृञ्जयैः

पाण्डुभ्यः प्रोच्यमानोऽपि पित्र्यमंशं न दत्तवान्

Mahabharata

Shalya Parva, Adhyaya 60, Verse 21

नैष योग्योऽद्य मित्रं वा शत्रुर्वा पुरुषाधमः

किमनेनातिनुन्नेन वाग्भिः काष्ठसधर्मणा

Mahabharata

Shalya Parva, Adhyaya 60, Verse 22

रथेष्वारोहत क्षिप्रं गच्छामो वसुधाधिपाः

दिष्ट्या हतोऽयं पापात्मा सामात्यज्ञातिबान्धवः

Mahabharata

Shalya Parva, Adhyaya 60, Verse 23

इति श्रुत्वा त्वधिक्षेपं कृष्णाद्दुर्योधनो नृपः

अमर्षवशमापन्न उदतिष्ठद्विशां पते

Mahabharata

Shalya Parva, Adhyaya 60, Verse 24

स्फिग्देशेनोपविष्टः स दोर्भ्यां विष्टभ्य मेदिनीम्

दृष्टिं भ्रूसंकटां कृत्वा वासुदेवे न्यपातयत्

Mahabharata

Shalya Parva, Adhyaya 60, Verse 25

अर्धोन्नतशरीरस्य रूपमासीन्नृपस्य तत्

क्रुद्धस्याशीविषस्येव च्छिन्नपुच्छस्य भारत

Mahabharata

Shalya Parva, Adhyaya 60, Verse 26

प्राणान्तकरणीं घोरां वेदनामविचिन्तयन्

दुर्योधनो वासुदेवं वाग्भिरुग्राभिरार्दयत्

Mahabharata

Shalya Parva, Adhyaya 60, Verse 27

कंसदासस्य दायाद न ते लज्जास्त्यनेन वै

अधर्मेण गदायुद्धे यदहं विनिपातितः

Mahabharata

Shalya Parva, Adhyaya 60, Verse 28

ऊरू भिन्धीति भीमस्य स्मृतिं मिथ्या प्रयच्छता

किं न विज्ञातमेतन्मे यदर्जुनमवोचथाः

Mahabharata

Shalya Parva, Adhyaya 60, Verse 29

घातयित्वा महीपालानृजुयुद्धान्सहस्रशः

जिह्मैरुपायैर्बहुभिर्न ते लज्जा न ते घृणा

Mahabharata

Shalya Parva, Adhyaya 60, Verse 30

अहन्यहनि शूराणां कुर्वाणः कदनं महत्

शिखण्डिनं पुरस्कृत्य घातितस्ते पितामहः