Mahabharata

Shalya Parva, Adhyaya 59

Containing 44 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shalya Parva, Adhyaya 59, Verse 1

अधर्मेण हतं दृष्ट्वा राजानं माधवोत्तमः

किमब्रवीत्तदा सूत बलदेवो महाबलः

Mahabharata

Shalya Parva, Adhyaya 59, Verse 2

गदायुद्धविशेषज्ञो गदायुद्धविशारदः

कृतवान्रौहिणेयो यत्तन्ममाचक्ष्व संजय

Mahabharata

Shalya Parva, Adhyaya 59, Verse 3

शिरस्यभिहतं दृष्ट्वा भीमसेनेन ते सुतम्

रामः प्रहरतां श्रेष्ठश्चुक्रोध बलवद्बली

Mahabharata

Shalya Parva, Adhyaya 59, Verse 4

ततो मध्ये नरेन्द्राणामूर्ध्वबाहुर्हलायुधः

कुर्वन्नार्तस्वरं घोरं धिग्धिग्भीमेत्युवाच ह

Mahabharata

Shalya Parva, Adhyaya 59, Verse 5

अहो धिग्यदधो नाभेः प्रहृतं शुद्धविक्रमे

नैतद्दृष्टं गदायुद्धे कृतवान्यद्वृकोदरः

Mahabharata

Shalya Parva, Adhyaya 59, Verse 6

अधो नाभ्या न हन्तव्यमिति शास्त्रस्य निश्चयः

अयं त्वशास्त्रविन्मूढः स्वच्छन्दात्संप्रवर्तते

Mahabharata

Shalya Parva, Adhyaya 59, Verse 7

तस्य तत्तद्ब्रुवाणस्य रोषः समभवन्महान्

ततो लाङ्गलमुद्यम्य भीममभ्यद्रवद्बली

Mahabharata

Shalya Parva, Adhyaya 59, Verse 8

तस्योर्ध्वबाहोः सदृशं रूपमासीन्महात्मनः

बहुधातुविचित्रस्य श्वेतस्येव महागिरेः

Mahabharata

Shalya Parva, Adhyaya 59, Verse 9

तमुत्पतन्तं जग्राह केशवो विनयानतः

बाहुभ्यां पीनवृत्ताभ्यां प्रयत्नाद्बलवद्बली

Mahabharata

Shalya Parva, Adhyaya 59, Verse 10

सितासितौ यदुवरौ शुशुभातेऽधिकं ततः

नभोगतौ यथा राजंश्चन्द्रसूर्यौ दिनक्षये

Mahabharata

Shalya Parva, Adhyaya 59, Verse 11

उवाच चैनं संरब्धं शमयन्निव केशवः

आत्मवृद्धिर्मित्रवृद्धिर्मित्रमित्रोदयस्तथा

विपरीतं द्विषत्स्वेतत्षड्विधा वृद्धिरात्मनः

Mahabharata

Shalya Parva, Adhyaya 59, Verse 12

आत्मन्यपि च मित्रेषु विपरीतं यदा भवेत्

तदा विद्यान्मनोज्यानिमाशु शान्तिकरो भवेत्

Mahabharata

Shalya Parva, Adhyaya 59, Verse 13

अस्माकं सहजं मित्रं पाण्डवाः शुद्धपौरुषाः

स्वकाः पितृष्वसुः पुत्रास्ते परैर्निकृता भृशम्

Mahabharata

Shalya Parva, Adhyaya 59, Verse 14

प्रतिज्ञापारणं धर्मः क्षत्रियस्येति वेत्थ ह

सुयोधनस्य गदया भङ्क्तास्म्यूरू महाहवे

इति पूर्वं प्रतिज्ञातं भीमेन हि सभातले

Mahabharata

Shalya Parva, Adhyaya 59, Verse 15

मैत्रेयेणाभिशप्तश्च पूर्वमेव महर्षिणा

ऊरू भेत्स्यति ते भीमो गदयेति परंतप

अतो दोषं न पश्यामि मा क्रुधस्त्वं प्रलम्बहन्

Mahabharata

Shalya Parva, Adhyaya 59, Verse 16

यौनैर्हार्दैश्च संबन्धैः संबद्धाः स्मेह पाण्डवैः

तेषां वृद्ध्याभिवृद्धिर्नो मा क्रुधः पुरुषर्षभ

Mahabharata

Shalya Parva, Adhyaya 59, Verse 17

धर्मः सुचरितः सद्भिः सह द्वाभ्यां नियच्छति

अर्थश्चात्यर्थलुब्धस्य कामश्चातिप्रसङ्गिनः

Mahabharata

Shalya Parva, Adhyaya 59, Verse 18

धर्मार्थौ धर्मकामौ च कामार्थौ चाप्यपीडयन्

धर्मार्थकामान्योऽभ्येति सोऽत्यन्तं सुखमश्नुते

Mahabharata

Shalya Parva, Adhyaya 59, Verse 19

तदिदं व्याकुलं सर्वं कृतं धर्मस्य पीडनात्

भीमसेनेन गोविन्द कामं त्वं तु यथात्थ माम्

Mahabharata

Shalya Parva, Adhyaya 59, Verse 20

अरोषणो हि धर्मात्मा सततं धर्मवत्सलः

भवान्प्रख्यायते लोके तस्मात्संशाम्य मा क्रुधः

Mahabharata

Shalya Parva, Adhyaya 59, Verse 21

प्राप्तं कलियुगं विद्धि प्रतिज्ञां पाण्डवस्य च

आनृण्यं यातु वैरस्य प्रतिज्ञायाश्च पाण्डवः

Mahabharata

Shalya Parva, Adhyaya 59, Verse 22

धर्मच्छलमपि श्रुत्वा केशवात्स विशां पते

नैव प्रीतमना रामो वचनं प्राह संसदि

Mahabharata

Shalya Parva, Adhyaya 59, Verse 23

हत्वाधर्मेण राजानं धर्मात्मानं सुयोधनम्

जिह्मयोधीति लोकेऽस्मिन्ख्यातिं यास्यति पाण्डवः

Mahabharata

Shalya Parva, Adhyaya 59, Verse 24

दुर्योधनोऽपि धर्मात्मा गतिं यास्यति शाश्वतीम्

ऋजुयोधी हतो राजा धार्तराष्ट्रो नराधिपः

Mahabharata

Shalya Parva, Adhyaya 59, Verse 25

युद्धदीक्षां प्रविश्याजौ रणयज्ञं वितत्य च

हुत्वात्मानममित्राग्नौ प्राप चावभृथं यशः

Mahabharata

Shalya Parva, Adhyaya 59, Verse 26

इत्युक्त्वा रथमास्थाय रौहिणेयः प्रतापवान्

श्वेताभ्रशिखराकारः प्रययौ द्वारकां प्रति

Mahabharata

Shalya Parva, Adhyaya 59, Verse 27

पाञ्चालाश्च सवार्ष्णेयाः पाण्डवाश्च विशां पते

रामे द्वारवतीं याते नातिप्रमनसोऽभवन्

Mahabharata

Shalya Parva, Adhyaya 59, Verse 28

ततो युधिष्ठिरं दीनं चिन्तापरमधोमुखम्

शोकोपहतसंकल्पं वासुदेवोऽब्रवीदिदम्

Mahabharata

Shalya Parva, Adhyaya 59, Verse 29

धर्मराज किमर्थं त्वमधर्ममनुमन्यसे

हतबन्धोर्यदेतस्य पतितस्य विचेतसः

Mahabharata

Shalya Parva, Adhyaya 59, Verse 30

दुर्योधनस्य भीमेन मृद्यमानं शिरः पदा

उपप्रेक्षसि कस्मात्त्वं धर्मज्ञः सन्नराधिप