Mahabharata

Shalya Parva, Adhyaya 58

Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shalya Parva, Adhyaya 58, Verse 1

तं पातितं ततो दृष्ट्वा महाशालमिवोद्गतम्

प्रहृष्टमनसः सर्वे बभूवुस्तत्र पाण्डवाः

Mahabharata

Shalya Parva, Adhyaya 58, Verse 2

उन्मत्तमिव मातङ्गं सिंहेन विनिपातितम्

ददृशुर्हृष्टरोमाणः सर्वे ते चापि सोमकाः

Mahabharata

Shalya Parva, Adhyaya 58, Verse 3

ततो दुर्योधनं हत्वा भीमसेनः प्रतापवान्

पतितं कौरवेन्द्रं तमुपगम्येदमब्रवीत्

Mahabharata

Shalya Parva, Adhyaya 58, Verse 4

गौर्गौरिति पुरा मन्द द्रौपदीमेकवाससम्

यत्सभायां हसन्नस्मांस्तदा वदसि दुर्मते

तस्यावहासस्य फलमद्य त्वं समवाप्नुहि

Mahabharata

Shalya Parva, Adhyaya 58, Verse 5

एवमुक्त्वा स वामेन पदा मौलिमुपास्पृशत्

शिरश्च राजसिंहस्य पादेन समलोडयत्

Mahabharata

Shalya Parva, Adhyaya 58, Verse 6

तथैव क्रोधसंरक्तो भीमः परबलार्दनः

पुनरेवाब्रवीद्वाक्यं यत्तच्छृणु नराधिप

Mahabharata

Shalya Parva, Adhyaya 58, Verse 7

येऽस्मान्पुरोऽपनृत्यन्त पुनर्गौरिति गौरिति

तान्वयं प्रतिनृत्यामः पुनर्गौरिति गौरिति

Mahabharata

Shalya Parva, Adhyaya 58, Verse 8

नास्माकं निकृतिर्वह्निर्नाक्षद्यूतं न वञ्चना

स्वबाहुबलमाश्रित्य प्रबाधामो वयं रिपून्

Mahabharata

Shalya Parva, Adhyaya 58, Verse 9

सोऽवाप्य वैरस्य परस्य पारं; वृकोदरः प्राह शनैः प्रहस्य

युधिष्ठिरं केशवसृञ्जयांश्च; धनंजयं माद्रवतीसुतौ च

Mahabharata

Shalya Parva, Adhyaya 58, Verse 10

रजस्वलां द्रौपदीमानयन्ये; ये चाप्यकुर्वन्त सदस्यवस्त्राम्

तान्पश्यध्वं पाण्डवैर्धार्तराष्ट्रा;न्रणे हतांस्तपसा याज्ञसेन्याः

Mahabharata

Shalya Parva, Adhyaya 58, Verse 11

ये नः पुरा षण्ढतिलानवोच;न्क्रूरा राज्ञो धृतराष्ट्रस्य पुत्राः

ते नो हताः सगणाः सानुबन्धाः; कामं स्वर्गं नरकं वा व्रजामः

Mahabharata

Shalya Parva, Adhyaya 58, Verse 12

पुनश्च राज्ञः पतितस्य भूमौ; स तां गदां स्कन्धगतां निरीक्ष्य

वामेन पादेन शिरः प्रमृद्य; दुर्योधनं नैकृतिकेत्यवोचत्

Mahabharata

Shalya Parva, Adhyaya 58, Verse 13

हृष्टेन राजन्कुरुपार्थिवस्य; क्षुद्रात्मना भीमसेनेन पादम्

दृष्ट्वा कृतं मूर्धनि नाभ्यनन्द;न्धर्मात्मानः सोमकानां प्रबर्हाः

Mahabharata

Shalya Parva, Adhyaya 58, Verse 14

तव पुत्रं तथा हत्वा कत्थमानं वृकोदरम्

नृत्यमानं च बहुशो धर्मराजोऽब्रवीदिदम्

Mahabharata

Shalya Parva, Adhyaya 58, Verse 15

मा शिरोऽस्य पदा मर्दीर्मा धर्मस्तेऽत्यगान्महान्

राजा ज्ञातिर्हतश्चायं नैतन्न्याय्यं तवानघ

Mahabharata

Shalya Parva, Adhyaya 58, Verse 16

विध्वस्तोऽयं हतामात्यो हतभ्राता हतप्रजः

उत्सन्नपिण्डो भ्राता च नैतन्न्याय्यं कृतं त्वया

Mahabharata

Shalya Parva, Adhyaya 58, Verse 17

धार्मिको भीमसेनोऽसावित्याहुस्त्वां पुरा जनाः

स कस्माद्भीमसेन त्वं राजानमधितिष्ठसि

Mahabharata

Shalya Parva, Adhyaya 58, Verse 18

दृष्ट्वा दुर्योधनं राजा कुन्तीपुत्रस्तथागतम्

नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत्

Mahabharata

Shalya Parva, Adhyaya 58, Verse 19

नूनमेतद्बलवता धात्रादिष्टं महात्मना

यद्वयं त्वां जिघांसामस्त्वं चास्मान्कुरुसत्तम

Mahabharata

Shalya Parva, Adhyaya 58, Verse 20

आत्मनो ह्यपराधेन महद्व्यसनमीदृशम्

प्राप्तवानसि यल्लोभान्मदाद्बाल्याच्च भारत

Mahabharata

Shalya Parva, Adhyaya 58, Verse 21

घातयित्वा वयस्यांश्च भ्रातॄनथ पितॄंस्तथा

पुत्रान्पौत्रांस्तथाचार्यांस्ततोऽसि निधनं गतः

Mahabharata

Shalya Parva, Adhyaya 58, Verse 22

तवापराधादस्माभिर्भ्रातरस्ते महारथाः

निहता ज्ञातयश्चान्ये दिष्टं मन्ये दुरत्ययम्

Mahabharata

Shalya Parva, Adhyaya 58, Verse 23

स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य विह्वलाः

गर्हयिष्यन्ति नो नूनं विधवाः शोककर्शिताः

Mahabharata

Shalya Parva, Adhyaya 58, Verse 24

एवमुक्त्वा सुदुःखार्तो निशश्वास स पार्थिवः

विललाप चिरं चापि धर्मपुत्रो युधिष्ठिरः