Mahabharata

Shalya Parva, Adhyaya 57

Containing 59 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shalya Parva, Adhyaya 57, Verse 1

समुदीर्णं ततो दृष्ट्वा संग्रामं कुरुमुख्ययोः

अथाब्रवीदर्जुनस्तु वासुदेवं यशस्विनम्

Mahabharata

Shalya Parva, Adhyaya 57, Verse 2

अनयोर्वीरयोर्युद्धे को ज्यायान्भवतो मतः

कस्य वा को गुणो भूयानेतद्वद जनार्दन

Mahabharata

Shalya Parva, Adhyaya 57, Verse 3

उपदेशोऽनयोस्तुल्यो भीमस्तु बलवत्तरः

कृतयत्नतरस्त्वेष धार्तराष्ट्रो वृकोदरात्

Mahabharata

Shalya Parva, Adhyaya 57, Verse 4

भीमसेनस्तु धर्मेण युध्यमानो न जेष्यति

अन्यायेन तु युध्यन्वै हन्यादेष सुयोधनम्

Mahabharata

Shalya Parva, Adhyaya 57, Verse 5

मायया निर्जिता देवैरसुरा इति नः श्रुतम्

विरोचनश्च शक्रेण मायया निर्जितः सखे

मायया चाक्षिपत्तेजो वृत्रस्य बलसूदनः

Mahabharata

Shalya Parva, Adhyaya 57, Verse 6

प्रतिज्ञातं तु भीमेन द्यूतकाले धनंजय

ऊरू भेत्स्यामि ते संख्ये गदयेति सुयोधनम्

Mahabharata

Shalya Parva, Adhyaya 57, Verse 7

सोऽयं प्रतिज्ञां तां चापि पारयित्वारिकर्शनः

मायाविनं च राजानं माययैव निकृन्ततु

Mahabharata

Shalya Parva, Adhyaya 57, Verse 8

यद्येष बलमास्थाय न्यायेन प्रहरिष्यति

विषमस्थस्ततो राजा भविष्यति युधिष्ठिरः

Mahabharata

Shalya Parva, Adhyaya 57, Verse 9

पुनरेव च वक्ष्यामि पाण्डवेदं निबोध मे

धर्मराजापराधेन भयं नः पुनरागतम्

Mahabharata

Shalya Parva, Adhyaya 57, Verse 10

कृत्वा हि सुमहत्कर्म हत्वा भीष्ममुखान्कुरून्

जयः प्राप्तो यशश्चाग्र्यं वैरं च प्रतियातितम्

तदेवं विजयः प्राप्तः पुनः संशयितः कृतः

Mahabharata

Shalya Parva, Adhyaya 57, Verse 11

अबुद्धिरेषा महती धर्मराजस्य पाण्डव

यदेकविजये युद्धं पणितं कृतमीदृशम्

सुयोधनः कृती वीर एकायनगतस्तथा

Mahabharata

Shalya Parva, Adhyaya 57, Verse 12

अपि चोशनसा गीतः श्रूयतेऽयं पुरातनः

श्लोकस्तत्त्वार्थसहितस्तन्मे निगदतः शृणु

Mahabharata

Shalya Parva, Adhyaya 57, Verse 13

पुनरावर्तमानानां भग्नानां जीवितैषिणाम्

भेतव्यमरिशेषाणामेकायनगता हि ते

Mahabharata

Shalya Parva, Adhyaya 57, Verse 14

सुयोधनमिमं भग्नं हतसैन्यं ह्रदं गतम्

पराजितं वनप्रेप्सुं निराशं राज्यलम्भने

Mahabharata

Shalya Parva, Adhyaya 57, Verse 15

को न्वेष संयुगे प्राज्ञः पुनर्द्वंद्वे समाह्वयेत्

अपि वो निर्जितं राज्यं न हरेत सुयोधनः

Mahabharata

Shalya Parva, Adhyaya 57, Verse 16

यस्त्रयोदशवर्षाणि गदया कृतनिश्रमः

चरत्यूर्ध्वं च तिर्यक्च भीमसेनजिघांसया

Mahabharata

Shalya Parva, Adhyaya 57, Verse 17

एवं चेन्न महाबाहुरन्यायेन हनिष्यति

एष वः कौरवो राजा धार्तराष्ट्रो भविष्यति

Mahabharata

Shalya Parva, Adhyaya 57, Verse 18

धनंजयस्तु श्रुत्वैतत्केशवस्य महात्मनः

प्रेक्षतो भीमसेनस्य हस्तेनोरुमताडयत्

Mahabharata

Shalya Parva, Adhyaya 57, Verse 19

गृह्य संज्ञां ततो भीमो गदया व्यचरद्रणे

मण्डलानि विचित्राणि यमकानीतराणि च

Mahabharata

Shalya Parva, Adhyaya 57, Verse 20

दक्षिणं मण्डलं सव्यं गोमूत्रकमथापि च

व्यचरत्पाण्डवो राजन्नरिं संमोहयन्निव

Mahabharata

Shalya Parva, Adhyaya 57, Verse 21

तथैव तव पुत्रोऽपि गदामार्गविशारदः

व्यचरल्लघु चित्रं च भीमसेनजिघांसया

Mahabharata

Shalya Parva, Adhyaya 57, Verse 22

आधुन्वन्तौ गदे घोरे चन्दनागरुरूषिते

वैरस्यान्तं परीप्सन्तौ रणे क्रुद्धाविवान्तकौ

Mahabharata

Shalya Parva, Adhyaya 57, Verse 23

अन्योन्यं तौ जिघांसन्तौ प्रवीरौ पुरुषर्षभौ

युयुधाते गरुत्मन्तौ यथा नागामिषैषिणौ

Mahabharata

Shalya Parva, Adhyaya 57, Verse 24

मण्डलानि विचित्राणि चरतोर्नृपभीमयोः

गदासंपातजास्तत्र प्रजज्ञुः पावकार्चिषः

Mahabharata

Shalya Parva, Adhyaya 57, Verse 25

समं प्रहरतोस्तत्र शूरयोर्बलिनोर्मृधे

क्षुब्धयोर्वायुना राजन्द्वयोरिव समुद्रयोः

Mahabharata

Shalya Parva, Adhyaya 57, Verse 26

तयोः प्रहरतोस्तुल्यं मत्तकुञ्जरयोरिव

गदानिर्घातसंह्रादः प्रहाराणामजायत

Mahabharata

Shalya Parva, Adhyaya 57, Verse 27

तस्मिंस्तदा संप्रहारे दारुणे संकुले भृशम्

उभावपि परिश्रान्तौ युध्यमानावरिंदमौ

Mahabharata

Shalya Parva, Adhyaya 57, Verse 28

तौ मुहूर्तं समाश्वस्य पुनरेव परंतपौ

अभ्यहारयतां क्रुद्धौ प्रगृह्य महती गदे

Mahabharata

Shalya Parva, Adhyaya 57, Verse 29

तयोः समभवद्युद्धं घोररूपमसंवृतम्

गदानिपातै राजेन्द्र तक्षतोर्वै परस्परम्

Mahabharata

Shalya Parva, Adhyaya 57, Verse 30

व्यायामप्रद्रुतौ तौ तु वृषभाक्षौ तरस्विनौ

अन्योन्यं जघ्नतुर्वीरौ पङ्कस्थौ महिषाविव