Mahabharata

Shalya Parva, Adhyaya 56

Containing 67 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shalya Parva, Adhyaya 56, Verse 1

ततो दुर्योधनो दृष्ट्वा भीमसेनं तथागतम्

प्रत्युद्ययावदीनात्मा वेगेन महता नदन्

Mahabharata

Shalya Parva, Adhyaya 56, Verse 2

समापेततुरानद्य शृङ्गिणौ वृषभाविव

महानिर्घातघोषश्च संप्रहारस्तयोरभूत्

Mahabharata

Shalya Parva, Adhyaya 56, Verse 3

अभवच्च तयोर्युद्धं तुमुलं रोमहर्षणम्

जिगीषतोर्युधान्योन्यमिन्द्रप्रह्रादयोरिव

Mahabharata

Shalya Parva, Adhyaya 56, Verse 4

रुधिरोक्षितसर्वाङ्गौ गदाहस्तौ मनस्विनौ

ददृशाते महात्मानौ पुष्पिताविव किंशुकौ

Mahabharata

Shalya Parva, Adhyaya 56, Verse 5

तथा तस्मिन्महायुद्धे वर्तमाने सुदारुणे

खद्योतसंघैरिव खं दर्शनीयं व्यरोचत

Mahabharata

Shalya Parva, Adhyaya 56, Verse 6

तथा तस्मिन्वर्तमाने संकुले तुमुले भृशम्

उभावपि परिश्रान्तौ युध्यमानावरिंदमौ

Mahabharata

Shalya Parva, Adhyaya 56, Verse 7

तौ मुहूर्तं समाश्वस्य पुनरेव परंतपौ

अभ्यहारयतां तत्र संप्रगृह्य गदे शुभे

Mahabharata

Shalya Parva, Adhyaya 56, Verse 8

तौ तु दृष्ट्वा महावीर्यौ समाश्वस्तौ नरर्षभौ

बलिनौ वारणौ यद्वद्वाशितार्थे मदोत्कटौ

Mahabharata

Shalya Parva, Adhyaya 56, Verse 9

अपारवीर्यौ संप्रेक्ष्य प्रगृहीतगदावुभौ

विस्मयं परमं जग्मुर्देवगन्धर्वदानवाः

Mahabharata

Shalya Parva, Adhyaya 56, Verse 10

प्रगृहीतगदौ दृष्ट्वा दुर्योधनवृकोदरौ

संशयः सर्वभूतानां विजये समपद्यत

Mahabharata

Shalya Parva, Adhyaya 56, Verse 11

समागम्य ततो भूयो भ्रातरौ बलिनां वरौ

अन्योन्यस्यान्तरप्रेप्सू प्रचक्रातेऽन्तरं प्रति

Mahabharata

Shalya Parva, Adhyaya 56, Verse 12

यमदण्डोपमां गुर्वीमिन्द्राशनिमिवोद्यताम्

ददृशुः प्रेक्षका राजन्रौद्रीं विशसनीं गदाम्

Mahabharata

Shalya Parva, Adhyaya 56, Verse 13

आविध्यतो गदां तस्य भीमसेनस्य संयुगे

शब्दः सुतुमुलो घोरो मुहूर्तं समपद्यत

Mahabharata

Shalya Parva, Adhyaya 56, Verse 14

आविध्यन्तमभिप्रेक्ष्य धार्तराष्ट्रोऽथ पाण्डवम्

गदामलघुवेगां तां विस्मितः संबभूव ह

Mahabharata

Shalya Parva, Adhyaya 56, Verse 15

चरंश्च विविधान्मार्गान्मण्डलानि च भारत

अशोभत तदा वीरो भूय एव वृकोदरः

Mahabharata

Shalya Parva, Adhyaya 56, Verse 16

तौ परस्परमासाद्य यत्तावन्योन्यरक्षणे

मार्जाराविव भक्षार्थे ततक्षाते मुहुर्मुहुः

Mahabharata

Shalya Parva, Adhyaya 56, Verse 17

अचरद्भीमसेनस्तु मार्गान्बहुविधांस्तथा

मण्डलानि विचित्राणि स्थानानि विविधानि च

Mahabharata

Shalya Parva, Adhyaya 56, Verse 18

गोमूत्रिकाणि चित्राणि गतप्रत्यागतानि च

परिमोक्षं प्रहाराणां वर्जनं परिधावनम्

Mahabharata

Shalya Parva, Adhyaya 56, Verse 19

अभिद्रवणमाक्षेपमवस्थानं सविग्रहम्

परावर्तनसंवर्तमवप्लुतमथाप्लुतम्

उपन्यस्तमपन्यस्तं गदायुद्धविशारदौ

Mahabharata

Shalya Parva, Adhyaya 56, Verse 20

एवं तौ विचरन्तौ तु न्यघ्नतां वै परस्परम्

वञ्चयन्तौ पुनश्चैव चेरतुः कुरुसत्तमौ

Mahabharata

Shalya Parva, Adhyaya 56, Verse 21

विक्रीडन्तौ सुबलिनौ मण्डलानि प्रचेरतुः

गदाहस्तौ ततस्तौ तु मण्डलावस्थितौ बली

Mahabharata

Shalya Parva, Adhyaya 56, Verse 22

दक्षिणं मण्डलं राजन्धार्तराष्ट्रोऽभ्यवर्तत

सव्यं तु मण्डलं तत्र भीमसेनोऽभ्यवर्तत

Mahabharata

Shalya Parva, Adhyaya 56, Verse 23

तथा तु चरतस्तस्य भीमस्य रणमूर्धनि

दुर्योधनो महाराज पार्श्वदेशेऽभ्यताडयत्

Mahabharata

Shalya Parva, Adhyaya 56, Verse 24

आहतस्तु तदा भीमस्तव पुत्रेण भारत

आविध्यत गदां गुर्वीं प्रहारं तमचिन्तयन्

Mahabharata

Shalya Parva, Adhyaya 56, Verse 25

इन्द्राशनिसमां घोरां यमदण्डमिवोद्यताम्

ददृशुस्ते महाराज भीमसेनस्य तां गदाम्

Mahabharata

Shalya Parva, Adhyaya 56, Verse 26

आविध्यन्तं गदां दृष्ट्वा भीमसेनं तवात्मजः

समुद्यम्य गदां घोरां प्रत्यविध्यदरिंदमः

Mahabharata

Shalya Parva, Adhyaya 56, Verse 27

गदामारुतवेगेन तव पुत्रस्य भारत

शब्द आसीत्सुतुमुलस्तेजश्च समजायत

Mahabharata

Shalya Parva, Adhyaya 56, Verse 28

स चरन्विविधान्मार्गान्मण्डलानि च भागशः

समशोभत तेजस्वी भूयो भीमात्सुयोधनः

Mahabharata

Shalya Parva, Adhyaya 56, Verse 29

आविद्धा सर्ववेगेन भीमेन महती गदा

सधूमं सार्चिषं चाग्निं मुमोचोग्रा महास्वना

Mahabharata

Shalya Parva, Adhyaya 56, Verse 30

आधूतां भीमसेनेन गदां दृष्ट्वा सुयोधनः

अद्रिसारमयीं गुर्वीमाविध्यन्बह्वशोभत