Mahabharata

Shalya Parva, Adhyaya 54

Containing 44 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shalya Parva, Adhyaya 54, Verse 1

एवं तदभवद्युद्धं तुमुलं जनमेजय

यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम्

Mahabharata

Shalya Parva, Adhyaya 54, Verse 2

रामं संनिहितं दृष्ट्वा गदायुद्ध उपस्थिते

मम पुत्रः कथं भीमं प्रत्ययुध्यत संजय

Mahabharata

Shalya Parva, Adhyaya 54, Verse 3

रामसांनिध्यमासाद्य पुत्रो दुर्योधनस्तव

युद्धकामो महाबाहुः समहृष्यत वीर्यवान्

Mahabharata

Shalya Parva, Adhyaya 54, Verse 4

दृष्ट्वा लाङ्गलिनं राजा प्रत्युत्थाय च भारत

प्रीत्या परमया युक्तो युधिष्ठिरमथाब्रवीत्

Mahabharata

Shalya Parva, Adhyaya 54, Verse 5

समन्तपञ्चकं क्षिप्रमितो याम विशां पते

प्रथितोत्तरवेदी सा देवलोके प्रजापतेः

Mahabharata

Shalya Parva, Adhyaya 54, Verse 6

तस्मिन्महापुण्यतमे त्रैलोक्यस्य सनातने

संग्रामे निधनं प्राप्य ध्रुवं स्वर्गो भविष्यति

Mahabharata

Shalya Parva, Adhyaya 54, Verse 7

तथेत्युक्त्वा महाराज कुन्तीपुत्रो युधिष्ठिरः

समन्तपञ्चकं वीरः प्रायादभिमुखः प्रभुः

Mahabharata

Shalya Parva, Adhyaya 54, Verse 8

ततो दुर्योधनो राजा प्रगृह्य महतीं गदाम्

पद्भ्याममर्षाद्द्युतिमानगच्छत्पाण्डवैः सह

Mahabharata

Shalya Parva, Adhyaya 54, Verse 9

तथा यान्तं गदाहस्तं वर्मणा चापि दंशितम्

अन्तरिक्षगता देवाः साधु साध्वित्यपूजयन्

वातिकाश्च नरा येऽत्र दृष्ट्वा ते हर्षमागताः

Mahabharata

Shalya Parva, Adhyaya 54, Verse 10

स पाण्डवैः परिवृतः कुरुराजस्तवात्मजः

मत्तस्येव गजेन्द्रस्य गतिमास्थाय सोऽव्रजत्

Mahabharata

Shalya Parva, Adhyaya 54, Verse 11

ततः शङ्खनिनादेन भेरीणां च महास्वनैः

सिंहनादैश्च शूराणां दिशः सर्वाः प्रपूरिताः

Mahabharata

Shalya Parva, Adhyaya 54, Verse 12

प्रतीच्यभिमुखं देशं यथोद्दिष्टं सुतेन ते

गत्वा च तैः परिक्षिप्तं समन्तात्सर्वतोदिशम्

Mahabharata

Shalya Parva, Adhyaya 54, Verse 13

दक्षिणेन सरस्वत्याः स्वयनं तीर्थमुत्तमम्

तस्मिन्देशे त्वनिरिणे तत्र युद्धमरोचयन्

Mahabharata

Shalya Parva, Adhyaya 54, Verse 14

ततो भीमो महाकोटिं गदां गृह्याथ वर्मभृत्

बिभ्रद्रूपं महाराज सदृशं हि गरुत्मतः

Mahabharata

Shalya Parva, Adhyaya 54, Verse 15

अवबद्धशिरस्त्राणः संख्ये काञ्चनवर्मभृत्

रराज राजन्पुत्रस्ते काञ्चनः शैलराडिव

Mahabharata

Shalya Parva, Adhyaya 54, Verse 16

वर्मभ्यां संवृतौ वीरौ भीमदुर्योधनावुभौ

संयुगे च प्रकाशेते संरब्धाविव कुञ्जरौ

Mahabharata

Shalya Parva, Adhyaya 54, Verse 17

रणमण्डलमध्यस्थौ भ्रातरौ तौ नरर्षभौ

अशोभेतां महाराज चन्द्रसूर्याविवोदितौ

Mahabharata

Shalya Parva, Adhyaya 54, Verse 18

तावन्योन्यं निरीक्षेतां क्रुद्धाविव महाद्विपौ

दहन्तौ लोचनै राजन्परस्परवधैषिणौ

Mahabharata

Shalya Parva, Adhyaya 54, Verse 19

संप्रहृष्टमना राजन्गदामादाय कौरवः

सृक्किणी संलिहन्राजन्क्रोधरक्तेक्षणः श्वसन्

Mahabharata

Shalya Parva, Adhyaya 54, Verse 20

ततो दुर्योधनो राजा गदामादाय वीर्यवान्

भीमसेनमभिप्रेक्ष्य गजो गजमिवाह्वयत्

Mahabharata

Shalya Parva, Adhyaya 54, Verse 21

अद्रिसारमयीं भीमस्तथैवादाय वीर्यवान्

आह्वयामास नृपतिं सिंहः सिंहं यथा वने

Mahabharata

Shalya Parva, Adhyaya 54, Verse 22

तावुद्यतगदापाणी दुर्योधनवृकोदरौ

संयुगे स्म प्रकाशेते गिरी सशिखराविव

Mahabharata

Shalya Parva, Adhyaya 54, Verse 23

तावुभावभिसंक्रुद्धावुभौ भीमपराक्रमौ

उभौ शिष्यौ गदायुद्धे रौहिणेयस्य धीमतः

Mahabharata

Shalya Parva, Adhyaya 54, Verse 24

उभौ सदृशकर्माणौ यमवासवयोरिव

तथा सदृशकर्माणौ वरुणस्य महाबलौ

Mahabharata

Shalya Parva, Adhyaya 54, Verse 25

वासुदेवस्य रामस्य तथा वैश्रवणस्य च

सदृशौ तौ महाराज मधुकैटभयोर्युधि

Mahabharata

Shalya Parva, Adhyaya 54, Verse 26

उभौ सदृशकर्माणौ रणे सुन्दोपसुन्दयोः

तथैव कालस्य समौ मृत्योश्चैव परंतपौ

Mahabharata

Shalya Parva, Adhyaya 54, Verse 27

अन्योन्यमभिधावन्तौ मत्ताविव महाद्विपौ

वाशितासंगमे दृप्तौ शरदीव मदोत्कटौ

Mahabharata

Shalya Parva, Adhyaya 54, Verse 28

मत्ताविव जिगीषन्तौ मातङ्गौ भरतर्षभौ

उभौ क्रोधविषं दीप्तं वमन्तावुरगाविव

Mahabharata

Shalya Parva, Adhyaya 54, Verse 29

अन्योन्यमभिसंरब्धौ प्रेक्षमाणावरिंदमौ

उभौ भरतशार्दूलौ विक्रमेण समन्वितौ

Mahabharata

Shalya Parva, Adhyaya 54, Verse 30

सिंहाविव दुराधर्षौ गदायुद्धे परंतपौ

नखदंष्ट्रायुधौ वीरौ व्याघ्राविव दुरुत्सहौ