Shalya Parva, Adhyaya 53, Verse 1
कुरुक्षेत्रं ततो दृष्ट्वा दत्त्वा दायांश्च सात्वतः
आश्रमं सुमहद्दिव्यमगमज्जनमेजय
Containing 37 sacred Sanskrit shlokas with multi-author commentaries and translations.
कुरुक्षेत्रं ततो दृष्ट्वा दत्त्वा दायांश्च सात्वतः
आश्रमं सुमहद्दिव्यमगमज्जनमेजय
मधूकाम्रवनोपेतं प्लक्षन्यग्रोधसंकुलम्
चिरिबिल्वयुतं पुण्यं पनसार्जुनसंकुलम्
तं दृष्ट्वा यादवश्रेष्ठः प्रवरं पुण्यलक्षणम्
पप्रच्छ तानृषीन्सर्वान्कस्याश्रमवरस्त्वयम्
ते तु सर्वे महात्मानमूचू राजन्हलायुधम्
शृणु विस्तरतो राम यस्यायं पूर्वमाश्रमः
अत्र विष्णुः पुरा देवस्तप्तवांस्तप उत्तमम्
अत्रास्य विधिवद्यज्ञाः सर्वे वृत्ताः सनातनाः
अत्रैव ब्राह्मणी सिद्धा कौमारब्रह्मचारिणी
योगयुक्ता दिवं याता तपःसिद्धा तपस्विनी
बभूव श्रीमती राजञ्शाण्डिल्यस्य महात्मनः
सुता धृतव्रता साध्वी नियता ब्रह्मचारिणी
सा तु प्राप्य परं योगं गता स्वर्गमनुत्तमम्
भुक्त्वाश्रमेऽश्वमेधस्य फलं फलवतां शुभा
गता स्वर्गं महाभागा पूजिता नियतात्मभिः
अभिगम्याश्रमं पुण्यं दृष्ट्वा च यदुपुंगवः
ऋषींस्तानभिवाद्याथ पार्श्वे हिमवतोऽच्युतः
स्कन्धावाराणि सर्वाणि निवर्त्यारुरुहेऽचलम्
नातिदूरं ततो गत्वा नगं तालध्वजो बली
पुण्यं तीर्थवरं दृष्ट्वा विस्मयं परमं गतः
प्रभवं च सरस्वत्याः प्लक्षप्रस्रवणं बलः
संप्राप्तः कारपचनं तीर्थप्रवरमुत्तमम्
हलायुधस्तत्र चापि दत्त्वा दानं महाबलः
आप्लुतः सलिले शीते तस्माच्चापि जगाम ह
आश्रमं परमप्रीतो मित्रस्य वरुणस्य च
इन्द्रोऽग्निरर्यमा चैव यत्र प्राक्प्रीतिमाप्नुवन्
तं देशं कारपचनाद्यमुनायां जगाम ह
स्नात्वा तत्रापि धर्मात्मा परां तुष्टिमवाप्य च
ऋषिभिश्चैव सिद्धैश्च सहितो वै महाबलः
उपविष्टः कथाः शुभ्राः शुश्राव यदुपुंगवः
तथा तु तिष्ठतां तेषां नारदो भगवानृषिः
आजगामाथ तं देशं यत्र रामो व्यवस्थितः
जटामण्डलसंवीतः स्वर्णचीरी महातपाः
हेमदण्डधरो राजन्कमण्डलुधरस्तथा
कच्छपीं सुखशब्दां तां गृह्य वीणां मनोरमाम्
नृत्ये गीते च कुशलो देवब्राह्मणपूजितः
प्रकर्ता कलहानां च नित्यं च कलहप्रियः
तं देशमगमद्यत्र श्रीमान्रामो व्यवस्थितः
प्रत्युत्थाय तु ते सर्वे पूजयित्वा यतव्रतम्
देवर्षिं पर्यपृच्छन्त यथावृत्तं कुरून्प्रति
ततोऽस्याकथयद्राजन्नारदः सर्वधर्मवित्
सर्वमेव यथावृत्तमतीतं कुरुसंक्षयम्
ततोऽब्रवीद्रौहिणेयो नारदं दीनया गिरा
किमवस्थं तु तत्क्षत्रं ये च तत्राभवन्नृपाः
श्रुतमेतन्मया पूर्वं सर्वमेव तपोधन
विस्तरश्रवणे जातं कौतूहलमतीव मे
पूर्वमेव हतो भीष्मो द्रोणः सिन्धुपतिस्तथा
हतो वैकर्तनः कर्णः पुत्राश्चास्य महारथाः
भूरिश्रवा रौहिणेय मद्रराजश्च वीर्यवान्
एते चान्ये च बहवस्तत्र तत्र महाबलाः
प्रियान्प्राणान्परित्यज्य प्रियार्थं कौरवस्य वै
राजानो राजपुत्राश्च समरेष्वनिवर्तिनः
अहतांस्तु महाबाहो शृणु मे तत्र माधव
धार्तराष्ट्रबले शेषाः कृपो भोजश्च वीर्यवान्
अश्वत्थामा च विक्रान्तो भग्नसैन्या दिशो गताः
दुर्योधनो हते सैन्ये प्रद्रुतेषु कृपादिषु
ह्रदं द्वैपायनं नाम विवेश भृशदुःखितः
शयानं धार्तराष्ट्रं तु स्तम्भिते सलिले तदा
पाण्डवाः सह कृष्णेन वाग्भिरुग्राभिरार्दयन्
स तुद्यमानो बलवान्वाग्भी राम समन्ततः
उत्थितः प्राग्घ्रदाद्वीरः प्रगृह्य महतीं गदाम्
स चाप्युपगतो युद्धं भीमेन सह सांप्रतम्
भविष्यति च तत्सद्यस्तयो राम सुदारुणम्