Mahabharata

Shalya Parva, Adhyaya 52

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shalya Parva, Adhyaya 52, Verse 1

प्रजापतेरुत्तरवेदिरुच्यते; सनातना राम समन्तपञ्चकम्

समीजिरे यत्र पुरा दिवौकसो; वरेण सत्रेण महावरप्रदाः

Mahabharata

Shalya Parva, Adhyaya 52, Verse 2

पुरा च राजर्षिवरेण धीमता; बहूनि वर्षाण्यमितेन तेजसा

प्रकृष्टमेतत्कुरुणा महात्मना; ततः कुरुक्षेत्रमितीह पप्रथे

Mahabharata

Shalya Parva, Adhyaya 52, Verse 3

किमर्थं कुरुणा कृष्टं क्षेत्रमेतन्महात्मना

एतदिच्छाम्यहं श्रोतुं कथ्यमानं तपोधनाः

Mahabharata

Shalya Parva, Adhyaya 52, Verse 4

पुरा किल कुरुं राम कृषन्तं सततोत्थितम्

अभ्येत्य शक्रस्त्रिदिवात्पर्यपृच्छत कारणम्

Mahabharata

Shalya Parva, Adhyaya 52, Verse 5

किमिदं वर्तते राजन्प्रयत्नेन परेण च

राजर्षे किमभिप्रेतं येनेयं कृष्यते क्षितिः

Mahabharata

Shalya Parva, Adhyaya 52, Verse 6

इह ये पुरुषाः क्षेत्रे मरिष्यन्ति शतक्रतो

ते गमिष्यन्ति सुकृताँल्लोकान्पापविवर्जितान्

Mahabharata

Shalya Parva, Adhyaya 52, Verse 7

अवहस्य ततः शक्रो जगाम त्रिदिवं प्रभुः

राजर्षिरप्यनिर्विण्णः कर्षत्येव वसुंधराम्

Mahabharata

Shalya Parva, Adhyaya 52, Verse 8

आगम्यागम्य चैवैनं भूयो भूयोऽवहस्य च

शतक्रतुरनिर्विण्णं पृष्ट्वा पृष्ट्वा जगाम ह

Mahabharata

Shalya Parva, Adhyaya 52, Verse 9

यदा तु तपसोग्रेण चकर्ष वसुधां नृपः

ततः शक्रोऽब्रवीद्देवान्राजर्षेर्यच्चिकीर्षितम्

Mahabharata

Shalya Parva, Adhyaya 52, Verse 10

तच्छ्रुत्वा चाब्रुवन्देवाः सहस्राक्षमिदं वचः

वरेण च्छन्द्यतां शक्र राजर्षिर्यदि शक्यते

Mahabharata

Shalya Parva, Adhyaya 52, Verse 11

यदि ह्यत्र प्रमीता वै स्वर्गं गच्छन्ति मानवाः

अस्माननिष्ट्वा क्रतुभिर्भागो नो न भविष्यति

Mahabharata

Shalya Parva, Adhyaya 52, Verse 12

आगम्य च ततः शक्रस्तदा राजर्षिमब्रवीत्

अलं खेदेन भवतः क्रियतां वचनं मम

Mahabharata

Shalya Parva, Adhyaya 52, Verse 13

मानवा ये निराहारा देहं त्यक्ष्यन्त्यतन्द्रिताः

युधि वा निहताः सम्यगपि तिर्यग्गता नृप

Mahabharata

Shalya Parva, Adhyaya 52, Verse 14

ते स्वर्गभाजो राजेन्द्र भवन्त्विति महामते

तथास्त्विति ततो राजा कुरुः शक्रमुवाच ह

Mahabharata

Shalya Parva, Adhyaya 52, Verse 15

ततस्तमभ्यनुज्ञाप्य प्रहृष्टेनान्तरात्मना

जगाम त्रिदिवं भूयः क्षिप्रं बलनिषूदनः

Mahabharata

Shalya Parva, Adhyaya 52, Verse 16

एवमेतद्यदुश्रेष्ठ कृष्टं राजर्षिणा पुरा

शक्रेण चाप्यनुज्ञातं पुण्यं प्राणान्विमुञ्चताम्

Mahabharata

Shalya Parva, Adhyaya 52, Verse 17

अपि चात्र स्वयं शक्रो जगौ गाथां सुराधिपः

कुरुक्षेत्रे निबद्धां वै तां शृणुष्व हलायुध

Mahabharata

Shalya Parva, Adhyaya 52, Verse 18

पांसवोऽपि कुरुक्षेत्राद्वायुना समुदीरिताः

अपि दुष्कृतकर्माणं नयन्ति परमां गतिम्

Mahabharata

Shalya Parva, Adhyaya 52, Verse 19

सुरर्षभा ब्राह्मणसत्तमाश्च; तथा नृगाद्या नरदेवमुख्याः

इष्ट्वा महार्हैः क्रतुभिर्नृसिंह; संन्यस्य देहान्सुगतिं प्रपन्नाः

Mahabharata

Shalya Parva, Adhyaya 52, Verse 20

तरन्तुकारन्तुकयोर्यदन्तरं; रामह्रदानां च मचक्रुकस्य

एतत्कुरुक्षेत्रसमन्तपञ्चकं; प्रजापतेरुत्तरवेदिरुच्यते

Mahabharata

Shalya Parva, Adhyaya 52, Verse 21

शिवं महत्पुण्यमिदं दिवौकसां; सुसंमतं स्वर्गगुणैः समन्वितम्

अतश्च सर्वेऽपि वसुंधराधिपा; हता गमिष्यन्ति महात्मनां गतिम्