Shalya Parva, Adhyaya 51, Verse 1
कथं कुमारी भगवंस्तपोयुक्ता ह्यभूत्पुरा
किमर्थं च तपस्तेपे को वास्या नियमोऽभवत्
Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.
कथं कुमारी भगवंस्तपोयुक्ता ह्यभूत्पुरा
किमर्थं च तपस्तेपे को वास्या नियमोऽभवत्
सुदुष्करमिदं ब्रह्मंस्त्वत्तः श्रुतमनुत्तमम्
आख्याहि तत्त्वमखिलं यथा तपसि सा स्थिता
ऋषिरासीन्महावीर्यः कुणिर्गार्ग्यो महायशाः
स तप्त्वा विपुलं राजंस्तपो वै तपतां वरः
मानसीं स सुतां सुभ्रूं समुत्पादितवान्विभुः
तां च दृष्ट्वा भृशं प्रीतः कुणिर्गार्ग्यो महायशाः
जगाम त्रिदिवं राजन्संत्यज्येह कलेवरम्
सुभ्रूः सा ह्यथ कल्याणी पुण्डरीकनिभेक्षणा
महता तपसोग्रेण कृत्वाश्रममनिन्दिता
उपवासैः पूजयन्ती पितॄन्देवांश्च सा पुरा
तस्यास्तु तपसोग्रेण महान्कालोऽत्यगान्नृप
सा पित्रा दीयमानापि भर्त्रे नैच्छदनिन्दिता
आत्मनः सदृशं सा तु भर्तारं नान्वपश्यत
ततः सा तपसोग्रेण पीडयित्वात्मनस्तनुम्
पितृदेवार्चनरता बभूव विजने वने
सात्मानं मन्यमानापि कृतकृत्यं श्रमान्विता
वार्द्धकेन च राजेन्द्र तपसा चैव कर्शिता
सा नाशकद्यदा गन्तुं पदात्पदमपि स्वयम्
चकार गमने बुद्धिं परलोकाय वै तदा
मोक्तुकामां तु तां दृष्ट्वा शरीरं नारदोऽब्रवीत्
असंस्कृतायाः कन्यायाः कुतो लोकास्तवानघे
एवं हि श्रुतमस्माभिर्देवलोके महाव्रते
तपः परमकं प्राप्तं न तु लोकास्त्वया जिताः
तन्नारदवचः श्रुत्वा साब्रवीदृषिसंसदि
तपसोऽर्धं प्रयच्छामि पाणिग्राहस्य सत्तमाः
इत्युक्ते चास्या जग्राह पाणिं गालवसंभवः
ऋषिः प्राक्शृङ्गवान्नाम समयं चेदमब्रवीत्
समयेन तवाद्याहं पाणिं स्प्रक्ष्यामि शोभने
यद्येकरात्रं वस्तव्यं त्वया सह मयेति ह
तथेति सा प्रतिश्रुत्य तस्मै पाणिं ददौ तदा
चक्रे च पाणिग्रहणं तस्योद्वाहं च गालविः
सा रात्रावभवद्राजंस्तरुणी देववर्णिनी
दिव्याभरणवस्त्रा च दिव्यस्रगनुलेपना
तां दृष्ट्वा गालविः प्रीतो दीपयन्तीमिवात्मना
उवास च क्षपामेकां प्रभाते साब्रवीच्च तम्
यस्त्वया समयो विप्र कृतो मे तपतां वर
तेनोषितास्मि भद्रं ते स्वस्ति तेऽस्तु व्रजाम्यहम्
सानुज्ञाताब्रवीद्भूयो योऽस्मिंस्तीर्थे समाहितः
वत्स्यते रजनीमेकां तर्पयित्वा दिवौकसः
चत्वारिंशतमष्टौ च द्वे चाष्टौ सम्यगाचरेत्
यो ब्रह्मचर्यं वर्षाणि फलं तस्य लभेत सः
एवमुक्त्वा ततः साध्वी देहं त्यक्त्वा दिवं गता
ऋषिरप्यभवद्दीनस्तस्या रूपं विचिन्तयन्
समयेन तपोऽर्धं च कृच्छ्रात्प्रतिगृहीतवान्
साधयित्वा तदात्मानं तस्याः स गतिमन्वयात्
दुःखितो भरतश्रेष्ठ तस्या रूपबलात्कृतः
एतत्ते वृद्धकन्याया व्याख्यातं चरितं महत्
तत्रस्थश्चापि शुश्राव हतं शल्यं हलायुधः
तत्रापि दत्त्वा दानानि द्विजातिभ्यः परंतप
शुशोच शल्यं संग्रामे निहतं पाण्डवैस्तदा
समन्तपञ्चकद्वारात्ततो निष्क्रम्य माधवः
पप्रच्छर्षिगणान्रामः कुरुक्षेत्रस्य यत्फलम्
ते पृष्टा यदुसिंहेन कुरुक्षेत्रफलं विभो
समाचख्युर्महात्मानस्तस्मै सर्वं यथातथम्